अक्षर आकार:

दत्तलहरी अथवा दत्तात्रेयज्ञानलहरी

Dattalahari

दत्तलहरी अथवा दत्तात्रेयज्ञानलहरी

श्रीगणेशाय नमः दलादन ऋषिरुवाच । विभुर्नित्यानन्दः श्रुतिगणशिरोवेद्यमहिमा यतो जन्माद्यस्य प्रभवति स मायागुणवतः । सदाधारः सत्यो जयति पुरुषार्थैकफलदः सदा दत्तात्रेयो विहरति मुदा ज्ञानलहरिः ॥ १॥ हरीशब्राह्माणः पदकमलपूजां विदधते जगद्रक्षाशिक्षाजननकरणे ते ह्यधिकृताः । अभूवन्निन्द्राद्या हरिदधिपतां देवमुनयः परं तत्त्वं प्रापुः शशिदिनकरौ ज्योतिरमलम् ॥ २॥ परं ज्योतिर्मूर्ते तव रुचिरतेजः कलरवाज्- जगध्व्याप्येदानीं तपनशशिताराहुतभुजः । महातेजःपुञ्जाः सकलजगदाराध्यचरिताश्- चरन्त्येवं लोकान्नतजनमनोभीष्टफलदाः ॥ ३॥ भवन्मायारूपं जगदखिलजीवात्मकमिदं भवद्रूपं प्राहुर्निखिलनिगमान्तश्रुतिचयाः । त्वया सृष्टं चादौ हृतमवितमेतत्तदधुना प्रभावं ते वेत्तुं प्रभवति जनः कोऽवनितले ॥ ४॥ कृपासिन्धो तावज्जनुरजननस्थाप्यकथिते जगद्रक्षादीक्षा भवति खलु नो चेत्कथमिदम् । अनिहस्याऽकर्तुस्तव जगति कर्मोपकृतये प्रमाणीकर्तुं वा स्वकृतनिगमार्थानिति मतिः ॥ ५॥ महाविद्यारूपे भगवति निबद्धत्वमुचितं हृदा वाचागम्ये परमपि विमुह्यन्ति कवयः । अविद्यातीतः किं यदि गुणविहीनोपि गुणवान्- अविद्यायुक्तोयं त्विति वदति मायामुषितधीः ॥ ६॥ भवानादौ यादोनरमृगमुखश्वादिकतनूर्- विधत्ते लोकानामवनकृतिहेतोरनुयुगम् । विशुद्धस्त्वं लीलानरवपुरिदानीमटसि गां पवित्रीकर्तुं वा परिजननिवासाङ्गणतलम् ॥ ७॥ जगद्रक्षार्थं वा विचरसि जगत्यात्मजनता- परित्राणायाद्यः परमपुरुषोऽगम्यचरितः । मृषालोको लोको वदति मनुजत्वं तदधुना यया श्रीकृष्णत्वं यदवब्रुवते मूढमतयः ॥ ८॥ महायोगाधीशैरविदितमहायोगचतुरं कथं जानन्ति त्वां कुटिलमतयो माध्शजनाः । तथापि त्वां जने तव पदयुगाम्भोजभजनान्न चेत्त्वत्पादा स्मृतिविषयवाणी कथमभूत् ॥ ९॥ अपारे संसारे सुतहितकलत्रादिभरणा - द्युपाधौ मन्नास्तत्तरणकरणोपायरहिताः । पतन्ति त्वत्पादाम्बुजयुगलसेवासु विमुखा नराः पापात्मानः प्रवरनरके शोकनिलये ॥ १०॥ सुधासिन्धौ द्वीपे कनकलतिके कल्पकवने वितानैर्मुक्ताढ्यैर्नवमणिमये मण्डपवरे । अशेषैर्माणिक्यैः खचितहरिपीठेऽन् कुहरे हुताशारे ध्यायेत्तव परममूर्तिं निखिलदाम् ॥ ११॥ धराधाराधारे हुतवहपुरेधीशगणपं विधिं श्रीशेषौ वानलपवनव्योमानि हृदये । युतौ जीवात्मानावधिकमवमत्या प्रविशते विधत्ते जायात्वं परकलितवामेन वपुषा ॥ १२॥ सहस्रारे नीरेरुहि सकलशीतांशुललिते सहसे हंसं यः स्फुटमपि भवन्तं कलयते । सुषुम्नावर्तिन्यां तव चरणपीठेन्दुसुधया - प्लुतो भित्त्वा ग्रन्थित्रयममृतरूपो विचरति ॥ १३॥ तवाधारे शक्तिस्थितकमलकर्माद्यभिवृते महापीठे वैश्वानरपुरमरुद्गेहनिलये । धराव्योमाकल्पे सुरमुनिमहेन्द्राद्यभिनुतं महातेजोराशिं निगमनिलयं नौमि हृदये ॥ १४॥ भवत्पादाम्भोजं भवजलधिपोतं भजति यो महासंसाराब्धिं तनणितरतीत्येव निगमः । इहामुत्र त्रातुं तव चरणमेवात्मशरणं भवेद्घीरो वाहङ्कृतिपरमनस्कोयमधुना ॥ १५॥ यथा दारुष्वग्निर्निवसति तथा देहनिकरे प्रविश्य त्वं चैको बहुविध इवाभासि ति तथा । चलन्नीरे चन्द्रः शतविध इवाभाति गुणतो न चैतच्चन्द्रे स्यान्न शतविधता नापि चपलम् ॥ १६॥ दरिद्रो वा मूढः कठिनहृदयो वापि भवतां दयापात्रं स्याच्च्येद्भजति महतामप्यधिकताम् । न विद्या रूपं वा न कुलमपि वा कारणमभून् - महत्त्वे सेवैका तव पदयुगाम्भोजकलना ॥ १७॥ न ते कारुण्यं स्यात्सकलगुणवानप्यगुणवान् भवत्कारुण्यं स्यादगुणगणपो वोरुगुणवान् । यथा पत्यौ रक्ते यदपि च विरक्ते च युवतौ वृथा सौन्दर्यं स्यात्सकलमपि तेऽनुग्रहवशात् ॥ १८॥ अनाथे दीने मय्यधिगतभवत्पादशरणे शरण्यब्रह्मण्यप्रथितगुणसिन्धो कुरु दयाम् । महातेजोवार्धे स्वसुकृतमहिम्नैव सततं पुरा पुण्यैर्हीनं पुरुषमुपकुर्वन्ति कृतिनः ॥ १९॥ महाश्वेतद्वीपेऽमरुतरुगणात्यन्तरुचिरे मणेः पीठाम्भोजेऽनलशशिखगान्तर्निवसितम् । गदाचक्राजासिप्रसृतकरपद्मं मुररिपुं स धन्यस्त्वां ध्यायेत्परतरचिदानन्दवपुषम् ॥ २०॥ लसन्मेरोः श‍ृङ्गे सुरमणिमये कल्पकतरु - प्रकीर्णे वाक्पीठे रविशशिङ्कराकीर्णजलजे स्थितं वाचाधीशैर्नुतमनुदिनं त्वां भजति यो भवेद्वाणीशानामपि गुरुरजेयोऽवनितले ॥ २१॥ समुद्यद्बालार्कायुतनिभशरीरं मुनिवरं स्थितं बीजे मारे त्रिदशपतिगोपातिरुचिरे । हृदि त्वां यः पश्यन् सुखकरमिति ध्यायति सदा स एवाहं नूनं स भवति जगन्मोहनकरः ॥ २२॥ निधिर्विश्वेषां त्वं निजचरणपद्मद्वयवतां शरण्यश्चार्कानां चकितहृदयानामभयदः । वरेण्यः साधूनां वरद इति वा कामितधियां भवत्सेवा जन्तोः सुरतरुसमाना न फलति ॥ २३॥ यथा वै पाञ्चाली नटति कुहकेच्छानुशरणं कुलालेन भ्रान्तं भ्रमति च सकृच्छक्रमनिशम् । तथा विश्वं सर्वं वियति मनवश्चानुगुणिताः स्वतन्त्रः को वास्ते वद परसुरेशस्त्रिभुवने ॥ २४॥ त्वयाज्ञप्तो धाता सृजति जगदीशोऽपि हरते हरिः पुष्णातीदं तपति तपनो याति पवनः । धरां साद्रिद्वीपां वहति भुजगानामधिपतिः सुराः सर्वे युष्मद्भयपरवशाद्बिभ्रति बलिम् ॥ २५॥ स्वयं मुक्तेः पूर्वं स्वकृतसुकृतं मां नयति चेत् भवासत्वं का वा तव चरणपङ्केरुहरतिः । हरेत्पापौधं नः शुभमपि ददातीति च सदा भवन्त्याशाबद्ध्वाः सकलमपि धातुर्वशमहो ॥ २६॥ प्रधानं वा कर्म स्थितिविलयसर्गेलमिति चेत् जडत्वात्क्षीणत्वात्कथमुचितमेतन्निगदितुम् । तयोरीशोऽनीशे भवति जगदुत्पत्तिविलया - वनान्यासन् ब्रह्मास्त्विति वदति शास्त्रं श्रुतिरपि ॥ २७॥ भवत्सेवा जन्तोर्भवदवहुताशाम्बुदनिभा महामोहध्वान्तप्रतिहतमतेर्दीपकलिका । सुधावर्षिण्येषा विहितमनसां निर्मलनृणा - मुपाध्याये ब्रह्मप्रवचनविधानेऽतिचतुरा ॥ २८॥ अवज्ञायै लोके बहुपरिचितिः प्राकृतमतिः निरस्यापो गाङ्गाः प्रसरति यथा नाल्पतटिनीम् । विशुद्ध्यर्थं तत्त्वं सकलपुरुषार्थैकफलदं भवन्तं हित्वान्यं भजति गुरुमाशापरवशः ॥ २९॥ निमील्याक्षिद्वन्द्वं निगमनिरतो निश्चलमनाः प्रकाशन्तं दृष्ट्या त्रिभुवनमुदं ज्ञानपरया । ललाटेधोमुख्या रसजनितदिव्याञ्जनधरं स्मरेद्यस्त्वां योगी भवति निधिसिद्धेरधिपतिः ॥ ३०॥ महामायामन्त्राक्षरकमलपद्मासनयुतं महानीलच्छायं मधुमुदितयोगिन्यभिवृतम् । दधानं सद्बोधासितकनकगोक्षीरतिलकं मुने यस्त्वां पश्येद्भवति सकलादृश्यकतनुः ॥ ३१॥ सुधाधारे हेतौ सकलजगतां स्वर्णकलिते सिताम्भोजे तेजोधिकतपनबिम्भे श्रुतितनौ । मणिप्रोते पीठे निखिलसुरवृन्दैः परिवृते स्थितं त्वामारोग्यं स्मरति हृदि तस्यामृतमयम् ॥ ३२॥ परत्रादाता चेद्भवति न ददात्यैहिकसुखं ददात्येतत्सौख्यं न वितरति चामुष्मिकसुखम् । भवत्सेवा जन्तोरिह परसुखप्राभयकरी सुराणामन्येषामनुशरणमात्मैवमकरोत् ॥ ३३॥ जटी वल्की क्कापि क्कचिदपि सुभूषाम्बरभृती क्कचिद्भूत्यालिप्तः क्कचिदपि सुगन्धाङ्किततनुः । क्कचिद्योगी भोगी क्कचिदपि विरागी विहरसे बहुज्ञानी ज्ञातुं तव गतिमशक्ताश्च मुनयः ॥ ३४॥ विशुद्धं चैतन्यं क्कचन जडवत्क्कापि सकला - गमज्ञोऽप्यज्ञस्याद्विहरसि कदाचिद्बहुविधः । ऋषिभ्यस्त्वं तत्त्वं परममुपदेष्टासि विततं चरित्रं ते वेत्तुं चतुरधिकवक्त्रा न चतुराः ॥ ३५॥ मणिर्वा मन्त्रो वा विविधविमलैश्वर्यमपि वा महायोगोष्टाङ्गाभ्यसनविहितो वा त्रिभुवनम् । समर्थं चैकैकं प्रभवति विशीकर्तुमधिकं स्थितं त्वय्येवेदं तव किमुत लोकैकवशता ॥ ३६॥ सरस्वत्याधारस्थितमरुदतिप्रेरितपरां नृपो धारां भित्त्वा रसकमलवासाधिपपुरी । परं तेजोरूपं सकलभुवनालोकनिरतो भवं ते संयोगात्परमसमवेतं मुनिपतिः ॥ ३७॥ अपां तत्त्वं हंसं सकलभवदेवे जलरुहे तडिद्भास्वद्दीप्तिप्रकटदलषट्के सुललिते । परं स्वाधिष्ठाने रुचिरतररूपं निरुपमं स्थितं ध्यायेत्त्वां यो मदनसमरूपो विजयते ॥ ३८॥ परीतं त्वां विष्णो हुतवहनमायाविलसिते सरोजे नीलाभे मणिरचितपीठे मणिगृहे । महासिद्धेः कल्पद्रुमवरतले स्वर्णनिचयाम् - प्रवर्षद्भिः सस्यात्परमतनुभूतिः स्मरति यः ॥ ३९॥ मरुन्त्ताराप्राभे कनकरुचिपद्मे श‍ृतिमयं प्रभुं लोकातीतं निखिलनिगमावेद्यचरितम् । भजन्ते ये त्वां ते सुदृढतरतादात्म्यकदृशा चिदानन्दं मायागुणविरहितं यान्ति परमम् ॥ ४०॥ सुधाशुद्धे व्योभ्नि द्रुहिणरमणीबीजलसिते विशुद्धाम्भोजान्ते सुरनरखगाद्यन्तरहितम् । भवन्तं भावोत्थैः कुसुममुखपूजोपकरणैः समर्हल्लोके ना द्वितयपरमं ब्रह्मभजते ॥ ४१॥ तडिल्लेखाशोचिर्द्विदलकमले भासि परमो महायुक्तानङ्गोनलशशिभृतोक्षीणि भवतः । अशेषस्रोत सु प्रसृतचितिरूपोड्गकनकः श्रुतिप्राणोष्टाड्गप्रगुणितकलापीठ निलयः ॥ ४२॥ ??? क्वचिद्गुह्यं जिह्वा क्वच गुदकमन्यत्र कविता क्वचिद्वागन्यत्र श्रुतिरपरतो लोचनयुगम् । समाकार्षन्त्यात्मानमिव बहुभार्याः प्रलुभिता - स्ततो ध्यातुं स्थातुं कथमपि न शक्तस्तव पदम् ॥ ४३॥ अशक्तोहं स्नातुं क्षणमपि जपं कर्तुमपि वौ - दनाभावादेवातिथिजनसपर्या च न कृता । कुतो ज्ञानं ध्यानं त्वकृतगुरुदेवस्य मम भो भवेदेवैकाशा वसति तव भक्तात्वजनिता ॥ ४४॥ अमन्दे मन्दारद्रुमचरसमीपे मणिमये सुखासीनं पीठे सुरवरमुनीन्द्रादिविनुतम् । स्वहृत्पद्मे वापि स्थितमनुदिनं त्वां भजति यः स चेहामुष्मिन्वा सकलजनपूज्यश्च भवति ॥ ४५॥ तृणं मेरुं कुर्यात्सुरवरगिरिं वापि च तृणं भवत्सामर्थ्यं वाऽघटितघटनाप्रौढिमतनो ॥ इदं जाने तस्मै पुनरपि न जानन्ति कवयोऽ - ऽप्यहो युष्मन्माया सकलजनमोहोन्मदकरी ॥ ४६॥ नटो भूयो वेषैर्बहुविध इवाभाति सुगुणो यथैको वाकाशो घटमठगुहास्वन्तरगतः । यथैकं गाङ्गेयं कटकमुकुटाध्याकृतिवशात् - तथा दत्तात्रेय त्वमपि बहुरूपस्त्रिभुवनम् ॥ ४७॥ सहस्रांशुप्राभे सुरतरुसमाढ्येधिकतरे विमाने हंसाख्ये स्थितममृतनीहारवपुषम् । परीतं त्वां ध्यायेद्यदरजसमारूढमनिलैः अशेषैराज्ञायां भवति खचरो व्योमगमनैः ॥ ४८॥ स्थितं मूलाधारे कनकरुचिराङ्गं हुतभुजः शिखाभिः प्रख्याभिर्वृतमखिलतेजोरसघटम् । धरन्तं भ्रूमध्ये प्रसृतनयनः पश्यति च यः परं त्वां सत्यं स्यादखिलरसविद्यातिनिपुणः ॥ ४९॥ शिरःप्रान्तभ्रान्तायतकुटिलबालार्कमतुलं प्रदीप्तस्वर्णाढ्यारुणशतलसत्कुण्डलधरम् । मरुत्पुत्रं लङ्काधिपतनुजनाशोद्यतकरं स्मरेद्यस्त्वां यन्तात्सकलभयभूतापहरणे ॥ ५०॥ गरुत्मन्तं चञ्चच्चलकनकपक्षद्वययुतं सुधाकुम्भोद्भास्वत्करमखिललोकाभिगमनम् । अचिन्त्यं वेदैस्त्वां परममुनिनाथं स्मरति यः स दक्षोऽसौ वादी कपटविषजन्तुप्रहरणे ॥ ५१॥ स्मृतिं नन्दन्तं यो मनुजमुपतिष्ठन्त्यतिबलात् कृताशामिथ्याद्यात्प्रणतजनमन्दार भवता । अदत्ते दत्तत्वादमलतरचिद्गभ्यविभवाः सदा दत्तात्रेयो भजसि भजतामिष्टफलदः ॥ ५२॥ विधिं विष्णुं मायां श‍ृणिमदनयोनिं दिनकरं मिलित्वानङ्गेनानलयुवतियुक्तां जपति यः । त्वदाख्यामाख्येयां निखिलनिगमाढ्यामखिलदां स स्म्पद्भिर्देवाधिपविभवयुक्तो विहरति ॥ ५३॥ परामायावाणीमदनकमलाबीजसहितं मनुं प्रत्येकं ते जपति सततं निश्चलधिया । ततोऽभ्येत्यैश्वर्यश्रुतसकलविद्यानिपुणतां वशित्वं ब्रह्मैक्यं सपदि यदि यायात्परमुने ॥ ५४॥ अविज्ञातं किञ्चित्तव जगति नास्ति प्रभवितुः तदाविज्ञातोऽहं यदपि सकलज्ञेन भवता । अदृष्टं मन्येऽहं प्रतिभटमविज्ञानकरणे मुने दत्तात्रेय प्रकुरु मयि कारुण्यमतुलम् ॥ ५५॥ भवत्पादाम्भोजद्वय शुभरसास्वाद चतुर - भ्रमद्भृङ्गीसङ्घायित हृदय वृत्तिं कलयमाम् । अनाधाराधाराश्रितसुरतरो तावकजने मुने कारुण्याब्धे प्रकुरुमयि सम्पत्प्रकटनम् ॥ ५६॥ वदन्त्येकेऽपार्थां तव गतिमनेकार्थ करिणी अजानन्तोज्ञेऽयामनधिगत तत्त्वार्थ मतयः । महायोगिं ल्लोके जडमतिकृते त्वं धृतवपुः तथा नोचेभ्दक्त स्वजन परिरक्षा कथमहो ॥ ५७॥ स्मृतस्त्वच्छिष्यो वा जगति कृतवीर्यस्य तनयो - ऽर्जुनो राजा चोराद्भयमहिभयं वृश्चिकभयम् । हिनस्त्याजौ शत्रूदितमपि भयं चेति गदितं भवेयुस्त्वच्छिष्याः किमुतहृत चोरादिक भयाः ॥ ५८॥ पदानां सेव्यो वा न भवसि यदाऽकिञ्चन नृणां प्रियः साधूनां त्वं तव च सुहृदस्तेऽपि सुजनाः । मयित्वार्ते दीने जननमरणाद्यैः कुरुदयां दयावान्को वा मे भ्रमनिगडनिर्मोचनविधौ ॥ ५९॥ यथा माता पुत्रं सकलगुणहीनं च कुटिलं प्रपुष्णात्यन्नाद्यैरनुदिनमतीवादरयुता । तथा त्वं लोकानां मम च पितरावित्यभिमतं ततस्त्रातुं दातुं फलमभिमतं चार्हसि विभो ॥ ६०॥ जडं वाचाधीशं सुधियमपि मूइकं च कुरुषे रवेर्वा शीतत्वं यदि च कुरुपे दृष्टिवसतेः । अकर्तुं कर्तुं वाऽन्यदपि परिकर्तुं च मनुषे तदा सर्वं कुर्याः क्वचन किमसाध्यं त्रिभुवने ॥ ६१॥ पुमान्यो वै युष्मच्चरणपरिचर्याकृतिपरः महालापास्थानाशनशयनपानानि कुरुते । सवै धन्यो लोके सकलजगदाराध्यगरिमा अहो भाग्यं तस्यागणितयशसः कोऽपि न भजेत् ॥ ६२॥ प्रसादात्ते यस्मिन्प्रबलतरदारिद्र्यविभवः स यायादिन्द्रत्वं सकल सुरनारीपरिवृतः । तवोपेक्षा यस्मिन्भवति स सुराणामधिपतिः परत्रह्यत्यन्तं प्रविहतमहैश्चर्यविभवः ॥ ६३॥ सदा मन्त्रैर्जाप्यः पुनरपि मनूनेव जपसि स्वयं तन्त्रध्येयो यदपि कुरुते तन्त्रनिचयम् । सदा ब्रह्मानन्दामृतजलधिकेलीकलितधीः स भूतेर्भूयस्या भवतु भगवन्नः कुरुदयाम् ॥ ६४॥ तरीयाग्निश्वेतद्युतिदिनकृदर्कैर्मुनिपतेः महाविद्याखण्डैः परियुतमहानुष्टुभमनोः । चतुर्भिश्चक्राब्जाऽड्कुशगुणधरं सामियुवतिं नृसिंहं त्वद्रूपं भवति सपुमर्थैक निलयः ॥ ६५॥ मुने ते माणिक्यप्रवरखचिते हेममुकुटे पुराकल्पध्वंसे परिकलितसूर्यापररुचः । वसन्त्यस्मिन्नूनं नहि यदि तदा भूतमुनयो न विद्यन्ते लोकाः प्रखरतिमिरान्तैकचतुराः ॥ ६६॥ अहो योगिन्नानामणिखचितभावत्कमकुटः शिखाग्रालम्बिन्यास्त्रिक तलमसौ रत्नशिखरात् । महोमेरोर्लीलां कलयति सदा यामकलितां शरत्सौदामिन्याः कटकवरतेजोमयतनोः ॥ ६७॥ सुविज्ञातं लोकैरनवधिसदादेशनपरैः सुधाभानोः खण्डं तव निबिडभावान्धकरणम् । द्वितीयं सोमेन्दुस्फुटमुकुटतः कान्तमनघं महामूर्तिज्योत्स्ना हरति नतदारिद्र्यतिमिरम् ॥ ६८॥ धृतं पुण्ड्रं मात्रात्रितयरुचिरं साक्षरमिदं सहस्रारे हंसः स्थितपरमहंसाजिगमिषोः । वहन्ती पादाब्जद्वयसरललाक्षारसपदं पराशक्तेश्चन्द्रोपलरचितसोपानपदवी ॥ ६९॥ श्रयेते हैमन्ते तरुविमलपत्रे मधुकरौ शुभं गर्भाम्भोजे स्थितमिति सुचित्रं शमनिधे । कठोरेन्दुप्रांशुप्रवरनिकरीभूततिमिरं सुधाम्शुर्भावत्को मुकुलयति विद्युत्कुवलयम् ॥ ७०॥ तमोभिर्मूकालीगृहमिदमनुज्जृम्भितमिति त्वदीये नेत्राब्जे कमलसदना जृम्भितवती । सदा सुज्ञानेनाविशति सदयाक्षि प्रसरति प्रभो यस्मिन्स्यात्ते ध्रुवमतिधनोऽयं मुनिपते ॥ ७१॥ यदा योगिन्नीषद्वलिरविलसत्कोऽप्यसदृशो - रुपान्ते नीलाली उदरयुगली कञ्जदलयोः । वरं कारायेते कनकमकरीकुण्डलयुगे कटाक्षौ चाम्पेयस्तबकविचरन्ताविव वरौ ॥ ७२॥ त्रयीविद्यारूपस्त्रितनुरहिमांशुः प्रतिदिनं श्रुती भावत्केचिद्विविधमकरीकुण्डलपदे । मिलित्वात्मायं ते घनतरमुपाधिद्वयमिति व्यनक्ति श्रीकारं निखिलजगदूद्दीपकमुने ॥ ७३॥ कपोलौ यौष्माकौ स्फुटमुकुरबिम्बप्रतिभटौ भृशं सङ्घर्षित्वात्प्रतिदिनसमारोपितरूचौ । निजाकान्तिर्नित्या कनकनिकषोऽत्यन्तमहिमा त्वदीया नीचैव प्रचुरतरकान्तिस्तवमुने ॥ ७४॥ मुखेन्दुं दृष्ट्वा ते यदि विशति राहुं प्रति भयाच्छशी वक्त्रं प्राप्यद्विगुणितकलानां निधिरभूत् । द्विजानां राज्यत्वं प्रकटितमतो दत्तशरणं बलेनाहो स्वामिन् कथमपि च लभ्यो हि महिमा ॥ ७५॥ तवायं बिम्बोष्ठश्चिबुकसहितो विद्रुमलता समाक्षिप्ता तिर्यग्यदि बहुपदं स्यात्फलयुगम् । व्रजे तत्साम्यं तन्निहितमुत वा पल्लवपदं यदि स्यात्ते नालं तुलयितुमहो संयमिपते ॥ ७६॥ भवद्वाणीश्रेणीं श्रवणपुटसौख्यप्रकरणीं विजेतुं वाक् श्रुत्वा स्वयमुत विदित्वाऽहमिति भाक् । अशक्ता तेऽत्यन्तं फणिललितजिह्वाग्रमिषतः प्रविष्टा वक्त्रान्तं सितमणिलसद्विद्रुमगृहम् ॥ ७७॥ तवावृत्ता रेखात्रयविलसिता कम्बुरभवत् - च्छिराणामाधारः कथमभवदेतन्न यदि चेत् । अथेमामूहेऽहं त्विति कविहराद्याकृतिधरां तथा नो चेद्वेदत्रितयकलितां वापि गणये ॥ ७८॥ महानन्तश्चासीद्विषधरवरो वासुकिरसौ निबर्हन्तौ मर्त्याधिकभयकरत्वं गणयताम् । भुजाकारौ स्वीयौ तव तु भुजसत्त्वं विदधतां मुने भूतौ स्निग्धौ सपदि वरदौ चाभयकरौ ॥ ७९॥ मुने गऽड्गास्रोतोऽमरवरगिरिप्रस्थफलके प्रसादे स्वर्णाढ्यं प्रभवदभवद्भागलुलितम् । त्रिसूत्रं सुस्निग्धं धवलमुपवीतं कलयते महायोगिन्मूर्तित्रयमपि विलीनं तदभवा ॥ ८०॥ प्रसिद्धः स्वर्णाद्रिर्दिवि विबुधवाचावितरणात् - प्रशस्तौ ते हस्ताबखिल पुरुषार्थ प्रकरणात् । जनानां पादाब्जद्वितयमधिकं प्रेम भजतां मुनीन्द्र त्रैलोक्यद्भुतगणमणिक्षीरजलधे ॥ ८१॥ इयं रोम्णां राजिर्विलसति महानाभिसरसः प्रवृत्ता कुल्येव प्रतिपतितभऽड्ग्यस्त्रिवलयः । नवालेखालोकत्रयविभजनार्थे विरचिता मुने दत्तात्रेय त्वदुदरविलग्ना विलसिताः ॥ ८२॥ ध्रुवं शम्पा मौज्जीत्रितयवलिरेखावरतनो रुरुक्षोः प्रासादं खशय हृदयाख्यं तव हरे । महालक्ष्म्याश्चञ्चत्कनकमयसोपानपदवी न चेन्नाभीकुण्डोपरि चिदुपलब्धा सुपरिखा ॥ ८३॥ प्रवृत्तावूरू ते लसदुदरलोकव्रजधृतेः धृतौ तावदीन्द्रस्फुटपटुकटौ सम्प्रकटितौ । कटौ विस्तारौ यत्कटकफलकौ ताविव मुने महायोगिन्विश्वम्भर इति च नूनं त्वमधिसूः ॥ ८४॥ कृपालो विश्वेश त्रिभुवनतले ते प्रमितितो दिवारात्रौ स्थानं मिलति वपुषो जानुयुगलम् । अभक्तानित्येतत्कथितमभियुक्तौः समतनोः प्रपुष्टं त्वं सम्प्रत्यपि त्वदिदमर्थं हि सुदृढम् ॥ ८५॥ जगन्मूलं स्रष्टा सकलजगतां सर्गकुशलो भवज्जड्घे लक्ष्मीकृदसमशरस्य प्रकुरुते । प्रकृष्टे ते वीक्ष्य भ्रमवदविलक्ष्योऽल्पगुणवान् मुने तेनानऽड्गस्तव तु विमुखो लक्षणवतः ॥ ८६॥ नराणां नानार्थप्रदरसगुटित्वं च दधतौ मुने गुल्फौ गूढौ तव चरणपुष्ट्या प्रकटितौ । घटावृत्ती नार्या इव सकलकौ वृत्तरुचिरौ विराजेते तेजोनिकरकलितायाः सुवपुषः ॥ ८७॥ मदाधारं युष्मत्प्रपदमतिपूज्यं सुरुचिरं ध्रुवात्मानं मत्वा जितमिति सदा कच्छपपतिः । विवेशाधो भूमेर्यदि तदिदमेकं स्मयकरं त्विदानीं तज्जातिर्मुकुलितशिराश्चाभवदहो ॥ ८८॥ मया दत्तं किञ्चिन्न यदि कलितं वासवमहं तदा रोचिर्जातं जननमपि पङ्कप्रकटितम् । प्रविश्येत्यायोज्यं न चलति ह यत्तत्पदधिया पदं ते तु श्रीदं सकलसमये श्रीनिलयनम् ॥ ८९॥ मुने ते पादाब्जं नवममृतपादोद्भवमहो श्रितस्तत् सोदर्यं पशुपतिशिरोब्जं हिमकरः । निवृत्तं स्वस्याङ्कं भवति भवदेकात्मवपुषः कथं ब्रह्मागारे परमपुरुषा नाङ्घ्रिभजनाः ॥ ९०॥ न चित्रं ते पादौ वितरत इति प्रार्थितफलं विधिं श्रीशं रक्षाकलुषविपदं दृश्यमतुलम् । स्मराम्तश्रीगङ्गाधरचरणशङ्खाम्बुज - सुरद्रुमांश्च त्वद्भावानतजनसदानन्दकलनात् ॥ ९१॥ त्रिखण्डैः श्रीविद्यामनुवरभवैर्भावकरिपो विवृद्धस्ते मन्त्रो विषवदति यो ज्योतिरमलम् । षडर्णं चन्द्रार्कप्रकररुचि तन्मे प्रभवतां सदा ज्ञानानन्दं युवतिनृमयं लोचनपदम् ॥ ९२॥ समुन्मीलद्भानुप्रकररुचि वाग्बीजममलं मरुत्वद्गोपाभां मदनलिपिमाधारकमले । हृदब्जे शक्त्याख्यं सितकरकराभं शिरसिजे सरोजे त्वां ध्यायेत्सकलपुरुषार्थान् स लभते ॥ ९३॥ चिदंशस्त्वदूपं किमपि सवितुर्मण्डलगतं वरेण्यं भर्गो वै त्रिविधतनुदेवस्य वपुषि । मुने धीमह्यासीर्हरिरपि धियो यो न इतरत्प्रचोदायास्तत्वं स्थितिलयसृजस्त्वं मुनिपते ॥ ९४॥ हरित्तन्तुप्रोतसदसि शिखरे शुभ्रकपटो जगन्मूलस्थाणुस्त्वमिति शुभमस्पन्दमुनिभिः । झरीभिः स्वर्णाढ्यैः पवनहतवार्बिन्दुनिकरैर्जटा - सक्ताब्जाहीरुचिरमभिषिक्तः स्थित इव ॥ ९५॥ दुराचारो जारश्चपलमतिराजः परवशः परद्रव्याकांक्षी बहुजनविरोधी च सततम् । तथा चाहं पूतस्तव पदयुगस्पर्शवशतो ह्ययः खण्डः स्वर्णं भवति हि यदा सिद्धसुरतिः ॥ ९६॥ परिक्रान्ता देशा बहुतरधनस्यार्जनधिया कुलाचारं हित्वा कुमतिनृपसेवापि च कृता । विधायाहं श्रान्तः किमपि न च तु वपुषा श्रितं त्वत्पादाब्जं श्रितमनुजमन्दारमधुना ॥ ९७॥ त्वदीयो मे देहस्त्वमपि पितरौ भ्रातृसुहृ - दस्त्वमेव ब्रह्मन्मे सुतहितगृहक्षेत्रनिवहाः । त्वमेव प्राणो मे धनमपि मम त्वं तव पदं न जाने मय्येव स्थितमपि महन्मेयमधुना ॥ ९८॥ नमस्ते तारायामृतजलधिधाम्नेऽधिमहसे नमस्ते ब्रह्माद्यैः मुनिसुरवररैः क्लृप्तमहसे । नमस्तुभ्यं नारायणमुनिविलासाय भवते मनूनां कोटीनामचलगणितानां च पतये ॥ ९९॥ नमस्ते देवैरप्यविदितमहिम्नेऽतियशसे नमस्ते दिक्पालप्रकटमुकुटालङकृतपदे । नमस्ते तेजस्विन्नतमनुजमन्दारवपुषे नमो दत्तात्रेयाकृतिहरिहराजाय महते ॥ १००॥ नमस्ते पापौघाचलविततिसंहारपवये नमस्ते दारिद्र्यव्यथितजनदैवान्तविधये । नमस्ते रोगार्तानत मनुजदिव्यौषधिदृअशे नमस्ते दैवं मे नहि जगत्यां तव पदम् ॥ १०१॥ असौ दत्तात्रेयस्तुतियुतकृतिर्ज्ञानलहरी सुधाधारापूराखिलनिगमसारानुपठताम् । श्रुतश्रीविद्यायुर्विभवधनधान्यामृतचयं ददात्येवात्यन्तं जयति सकलाह्लादजनिका ॥ १०२॥ इति दलादनमुनिविरचिता श्रीदत्तपदप्रापिका श्रीदत्तात्रेयज्ञानलहरिः सम्पूर्णा ॥