श्रीदत्तगुरुस्तवः
(दोधकम्)
भक्तजनार्ति-विकर्तित-कीर्ति
वेदचतुष्टयपूजितमूर्तिम् ।
दण्ड-कमण्डलु-मण्डित-पिण्डमं
दत्तगुरुं प्रणमामि सदाऽहम् ॥ १॥
पाटल-वस्त्र-विभूषित-देहं
भस्म-विभूषित-गौर-शरीरम् ।
भूतिकरं भव-भीति-कुठारं
दत्तगुरुं प्रणमामि सदाऽहम् ॥ २॥
सज्जन-पोषण-रक्षण-दक्षं
दुर्जन-शासन-भञ्जन-मग्नम् ।
सत्वर-दुस्तर-दुःखहरं तं
दत्तगुरुं प्रणमामि सदाऽहम् ॥ ३॥
दुःखित-वन्दित-पाद-सरोजं
पद्म-सुशोभित-दक्षिण-हस्तम् ।
योग-निधि नव-नाथ-सनाथं
दत्तगुरुं प्रणमामि सदाऽहम् ॥ ४॥
भीति-युतो भव-सिन्धु-निमग्न-
स्त्वच्चरणं करवाणि शरण्यम् ।
अत्रिसुतं त्रिगुणादि-विहीनं
दत्तगुरुं प्रणमामि सदाऽहम् ॥ ५॥
स्नास्यविमुक्तक-तीर्थ-जलौघे
प्रार्थयसेऽन्नकणान् करवीरे ।
त्वन्महिमा न हि मानमवैति
त्राहिगुरो प्रणमामि सदाऽहम् ॥ ६॥
दुःख-हुताशन-तप्तमधीरं
दत्त दयार्णव दीनजनं माम् ।
तारय पाहि निरन्तर-तप्तं
दत्तगुरो प्रणमामि सदाऽहम् ॥ ७॥
नाभिज-विष्णु-सदाशिव-मूर्ति
दीन-जनावन-तत्पर-वृत्तिम् ।
विश्व-विषाद-विनाशन-दक्षं
दत्तगुरुं प्रणमामि सदाऽहम् ॥ ८॥
अष्टकमत्रिसुतस्य सुगेयं
दोधक-वृत्तमिदं रमणीयम् ।
श्रीगुरुनाम सदा नमनीयं
भक्तजनैः सततं स्मरणीयम् ॥ ९॥
इति श्री आपटीकरविरचितः श्रीदत्तगुरुस्तवः सम्पूर्णः ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):