अक्षर आकार:

श्रीदत्तगोरक्षनाथकवचस्तवराजः

shrIdattagorakShanAthakavachastavarAjaH

श्रीदत्तगोरक्षनाथकवचस्तवराजः

श्रीगणेशाय नमः । श्रीदत्तात्रेयाय नमः । ॐ नमो दत्तगोरक्षनाथाय नमः ॥ ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । पूर्वायै इन्द्राय नमः ॥ ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । आग्नेय्यै अग्नेदेवतायै नमः ॥ ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । दक्षिणायै यमाय नमः ॥ ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । नैरृत्यै निरृतिनाथाय नमः ॥ ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । पश्चिमे वरुणाय नमः ॥ ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । वायव्यां वायवे नमः ॥ ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । उत्तराशायां कुबेराय नमः ॥ ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । ईशान्यां ईश्वराय नमः ॥ ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । ऊर्ध्वायां अर्थश्वेदपाय नमः ॥ ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । अधो दिशि भूमिदेवतायै नमः ॥ ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । मध्ये प्रकाशा ज्योतिदेवतायै नमः ॥ पार्वत्युवाच - नमस्ते देवदेवेश विश्वव्यापिन्महेश्वर । श्रीदत्तगोरक्षकवचं स्तवराजं वद प्रभो ॥ १॥ श्री ईश्वर उवाच - श‍ृणु शैलसुते सत्यसिद्धमार्गमयोदितम् । ज्ञानविज्ञानमार्गेण जीवन्मुक्तो भवेन्नरः ॥ २॥ सर्वज्ञत्वं कार्यसिद्धिं लभते वरमुत्तमम् । वाक्सिद्धिं योगसिद्धिं च लभते चिन्तितार्थकम् ॥ ३॥ न दुष्टेभ्यः प्रदातव्यं न दातव्यं कुलेश्वरि । निष्प्रपञ्चाय शिष्याय दद्यात्सविधिपूर्वकम् ॥ ४॥ रहस्यातिरहस्यं च मम वक्त्राद्विनिर्गतम् । एकान्ते निर्जले रम्ये सरित्सिन्धुतटे नगे ॥ ५॥ बिल्वस्थलालये जप्त्वा कुलमार्गे शुभस्थले । सर्वसिद्धेश्वरो साक्षात्प्राप्यते नात्र संशयः ॥ ६॥ पार्वत्युवाच - अल्पायासेन देवेश पठेन्नित्यं स लभ्यते । दत्तगोरक्षकवचं स्तवराजं मयोदितम् ॥ ७॥ न्यासं ध्यानं च संयुक्तो जपपूजा विशेषतः । सर्वसिद्धिप्रदो नित्यं मयानुग्रहकारकम् ॥ ८॥ श्री ईश्वर उवाच - तव भक्ताय शान्ताय पठनाच्चिन्तितं लभेत् । सुरासुरजनाग्रे च न मया कथितं प्रिये ॥ ९॥ ॐ अस्य श्रीदत्तगोरक्षकवचमन्त्रस्य सदाशिव ऋषिः । अनुष्टुप्छन्दः । श्रीदत्तात्रेयगोरक्षपरमात्मा देवता । ॐ बीजम् । अनुभव शक्तिः । श्रीदत्तगोरक्षप्रसादसिद्धर्थे जपे विनियोगः ॥ १०॥ अथ करन्यासः । ॐ द्रां घ्रां अङ्गुष्ठाभ्यां नमः ॥ ॐ तं रं तर्जनीभ्यां नमः ॥ ॐ त्रं क्षं मध्यमाभ्यां नमः ॥ ॐ अं नं अनामिकाभ्यां नमः ॥ ॐ बं थं कनिष्ठिकाभ्यां नमः ॥ ॐ द्रां ह्रीं करतलकरपृष्ठाभ्यां नमः ॥ ११॥ अथ हृदयादिन्यासः । ॐ द्रां घ्रां हृदयाय नमः । ॐ तं रं शिरसे स्वाहा । ॐ त्रं क्षं शिखायै वषट् । ॐ अं नं कवचाय हुम् । ॐ बं थं नेत्रत्रयाय वौषट् । ॐ द्रां ह्रीं अस्राय फट् ॥ इति दिग्बन्धः ॥ सर्वरक्षणार्थे सर्वसिद्ध्यर्थे जपे विनियोगः ॥ १२॥ ॥ अथ गायत्री ॥ ॐ आदिरूपाय विद्महे ॐ अनादिरूपाय धीमहि । तन्नो दत्तगोरक्षप्रचोदयात् ॥ १३॥ ॥ अथ मन्त्रः ॥ ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ॥ इति जप्त्वा शतत्रयम् ॥ १४॥ ॥ अथ ध्यानम् ॥ दिगम्बरं त्रिगुणात्मकं नारायणं निरञ्जनं योगेश्वरम् ॥ ॐ अनादिनाथं सर्वव्यापियोगिं सकलेश्वरम् ॥ चिन्मयं ज्योतिरूपं निराधारं सोऽहं ब्रह्मसनातनम् ॥ घोररूपं महाघोरं अष्टाङ्गयोगसिद्धिसिद्धेश्वरम् ॥ १५॥ ॐ नमो भगवते दत्तात्रेयाय विष्णवे । गुरुपरमात्मने वासुदेवाय नमोऽस्तुते । ॐ नमो गोरक्षनाथाय रुद्राय त्रैलोक्याधिपतये । जितेन्द्रियाय सनातनाय नमोऽस्तुते ॥ १६॥ शिखायां पातु गोरक्षं ब्रह्मरन्ध्रेच दत्तकम् । भाले गोरक्षनाथश्च दत्तात्रेयो भुवस्थले ॥ १७॥ चक्षुभ्यां घोरयोगीन्द्र गर्भयोगीन्द्र कर्णकौ । पाहि मां दत्तगोरक्ष वामदक्षिणनासिकाम् ॥ १८॥ मुखे गोरक्षनाथं च दत्तं चैवाधरोष्ठके । जिह्वाया पातु गोरक्षं दन्तान्पातु चिबुत्रकम् ॥ १९॥ अनसूयासुतं कण्ठे गोरक्षं कण्ठपृष्ठके । वामदक्षिणहस्तौ च दत्तगोरक्ष पाहि माम् ॥ २०॥ सत्सेना हृदये पातु दत्तगोरक्षदैवतम् । कट्या नाभिं च मां पातु दत्तगोरक्ष योगिनाम् ॥ २१॥ ऊरौ जङ्घादिलिङ्गातं पातु गोरक्षदत्तकम् । पादौ पादतलान्तं च दत्तगोरक्ष पाहिमाम् ॥ २२॥ मस्तकापादपर्यन्तं आपादतलमस्तकम् । दत्तात्रेयं च गोरक्षं पातु मां सर्वतस्तनुः ॥ २३॥ दिशाष्टौ च तथाऽऽकाशं पाताले विदिशाष्टके । दिवारात्रौ त्रिवेलायां दत्तगोरक्ष पाहि माम् ॥ २४॥ जलाग्निघोरयुद्धे च शस्त्रघाते विषत्तके । रक्ष रक्ष सदा देव दत्तगोरक्षदैवतम् ॥ २५॥ मन्त्रादि यन्त्रतन्त्राणां कल्पकोटिन्यकृत्तिमम् । रक्ष रक्ष सदा देव दत्तगोरक्षदैवतम् ॥ २६॥ अग्निपार्थे चौरसर्पे व्याघ्रदुष्टभये वने । रक्ष रक्ष सदा देव दत्तगोरक्षदैवतम् ॥ २७॥ भूतप्रेतपिशाचोग्रकूष्माण्डा भैरवादयः । डाकिनीशाकिनीकृत्या पादगोरक्षदत्तकम् ॥ २८॥ स्वर्गपातालभूलोके यत्र यत्र भवेत्शिवम् । तत्र रक्षतु गोरक्षं दत्तात्रेयश्च पातु माम् ॥ २९॥ ॐ नमो देवदेवेश नमो देवाधिनायक । नमो गोरक्षनाथाय दत्तात्रेय नमो नमः ॥ ३०॥ नमो ऋग्वेदरूपाय नमो यजुस्वरूपिणे । नमो गोरक्षनाथाय दत्तात्रेय नमो नमः ॥ ३१॥ नमो सामस्वरूपाय नमोऽथर्वणरूपिणे । नमोऽस्तु नवनाथाय नमो षोडशसिद्धये ॥ ३२॥ नमो अनादिदेवाय नमो आदिस्वरूपिणे । नमो वेदस्वरूपाय नमो सिद्धान्तरूपिणे ॥ ३३॥ नमो निर्मलरूपाय नमो चिन्मयव्यापिने । नमो विद्युत्स्वरूपाय नमो ज्योतिस्वरूपिणे ॥ ३४॥ नमो अघोररूपाय नमो निष्कर्मरूपिणे । नमो विश्वस्वरूपाय नमो सर्वस्वरूपिणे ॥ ३५॥ नमो अनन्तरूपाय नमो बोधस्वरूपिणे । नमो सकलस्वरूपाय नमो वज्रस्वरूपिणे ॥ ३६॥ नमो कल्मषनाशाय नमो पापप्रणाशिने । नमो चारुस्वरूपाय नमो दिव्यस्वरूपिणे ॥ ३७॥ नमो दुष्टप्रणाशाय नमो दैत्यान्तकाय च । नमो अधर्मनाशाय नमो धर्मस्वरूपिणे ॥ ३८॥ नमो निष्कर्मरूपाय नमो कर्मान्तकाय च । नमो भस्माङ्गरागाय नमो दिगम्बराय च ॥ ३९॥ नमो सुस्मितवक्त्राय नमो सुस्मितलोचन । नमो द्वेषविनाशाय नमो क्रोधान्तकाय च ॥ ४०॥ नमो निःशङ्करूपाय नमो वैराग्यरूपिणे । नमो मङ्गलरूपाय नमो कल्याणरूपिणे ॥ ४१॥ ऋद्धिसिद्धिफलं दाता भुक्तिमुक्तिप्रदायकम् । नमोऽस्तु दत्तगोरक्षं संसारार्णवतारणम् ॥ ४२॥ इति दत्तस्तवं दिव्यं दत्तगोरक्षकं शुभम् । पठनाल्लभते शैवं वाक्सिद्धिर्देहसिद्धिदम् ॥ ४३॥ योगसिद्धिः सर्वसिद्धिः इष्टसिद्धिर्लभन्ति च । दुष्टदानवसंहर्ता निर्भयो जायते नरः ॥ ४४॥ न मृत्युर्न जरा रोगं निर्भयो जायते नरः । तत्रैव विजयो लाभो यत्र तिष्ठति साधकः ॥ ४५॥ स्वशक्तिसहितादेव नवनाथेषु बोधना । सगणशक्तिसहिता देव प्रसन्नसङ्क्रमात् ॥ ४६॥ ॐ नमो दत्तात्रेयाय नमो नमोऽस्तु ॐ विष्णुस्वरूपाय नमो नमोऽस्तु । ॐ नमो गोरक्षनाथाय नमो नमस्ते ॐ शिवस्वरूपाय नमो नमस्ते ॥ ४७॥ इति श्रीरुद्रयामले श्रीईश्वरपार्वतीसंवादे दत्तगोरक्षनाथकवचस्तवराजं सम्पूर्णम् । श्रीदत्तात्रेयार्पणमस्तु । शुभमस्तु । श्रीरस्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥