अक्षर आकार:

श्रीदत्तदिगम्बर इष्टदैवतम्

Shri Datta Digambaram Ishta Daivatam

श्रीदत्तदिगम्बर इष्टदैवतम्

दत्तदिगम्बर इष्टदैवतम् । विराजते मम हृदये नित्यम् ॥ धृ ॥ अनसूयायाः सत्त्वमद्भुतम् । त्रिभिश्च देवैवृतं शिशुत्वम् । चारुस्त्रिणिमूर्तिरवतारोऽयम् । त्रिभुवनकीर्तिः रक्षति दीनम् ॥ १॥ त्रीणिशिरासिज तत्करषट्कम् । विलसति वदने मधुरसुहास्यम् । जूटशिरः पादुकापदाब्जो । भस्मविलेपितकान्तिर्नूतम् ॥ २॥ दृष्ट्वा वत्सलसुन्दरमूर्तिम् । हर्षाश्रुजलं स्नपयति दृष्टिम् । यान्त्युदयं किल सात्विकभावाः । शनैश्च विलयं याति ममत्वम् ॥ ३॥ गुरूर्योगिवर इष्टदैवतम् । प्रभुर्योगिवर इष्टदैवतम् । अनसूयासुत इष्टदैवतम् ॥