अक्षर आकार:

श्रीदत्त भावसुधारसस्तोत्रम्

shrI datta bhAvasudhArasa stotram

श्रीदत्त भावसुधारसस्तोत्रम्

श्री दत्त भावसुधारस स्तोत्रम् । दत्तात्रेयं परमसुखमयं वेदगेयं ह्यमेयं योगिध्येयं हृतनिजभयं स्वीकृतानेककायम् । दुष्टागम्यं विततविजयं देवदैत्यर्षिवन्द्यं वन्दे नित्यं विहितविनयं चाव्ययं भावगम्यम् ॥ १॥ दत्तात्रेय नमोऽस्तु ते भगवते पापक्षयं कुर्वते दारिद्र्यं हरते भयं शमयते कारुण्यमातन्वते । भक्तानुद्धरते शिवं च ददते सत्कीर्तिमातन्वते भूतान्द्रावयते वरं प्रददते श्रेयः पते सद्गते ॥ २॥ एकं सौभाग्यजनकं तारकं लोकनायकम् । विशोकं त्रातभजकं नमस्ये कामपूरकम् ॥ ३॥ नित्यं स्मरामि ते पादे हतखेदे सुखप्रदे । प्रदेहि मे शुद्धभावं भावं यो वारयेद्द्रुतम् ॥ ४॥ समस्तसम्पत्प्रदमार्तबंधुं समस्तकल्याणदमस्तबंधुम् । कारुण्यसिंधुं प्रणमामि दत्तं यः शोधयत्याशु मलीनचित्तम् ॥ ५॥ समस्तभूतांतरबाह्यवर्ती यश्चात्रिपुत्रो यतिचक्रवर्ती । सुकीर्तिसंव्याप्तदिगंतरालः स पातु मां निर्जितभक्तकालः ॥ ६॥ व्याध्याधिदारिद्र्यभयार्तिहर्ता स्वगुप्तयेऽनेकशरीरधर्ता स्वदासभर्ता बहुधा विहर्ता कर्ताप्यकर्ता स्ववशोऽरिहर्ता ॥ ७॥ स चानसूयातनयोऽभवद्यो विष्णुः स्वयं भाविकरक्षणाय । गुणा यदीया म हि बुद्धिमद्भिर्गण्यंत आकल्पमपीह धात्रा ॥ ८॥ न यत्कटाक्षामृतवृष्टितोऽत्र तिष्ठन्ति तापाः सकलाः परत्र । यः सद्गतिं सम्प्रददाति भूमा स मेऽन्तरे तिष्ठतु दिव्यधामा ॥ ९॥ स त्वं प्रसीदात्रिसुतार्तिहारिन् दिगम्बर स्वीयमनोविहारिन् । दुष्टा लिपिर्या लिखितात्र धात्रा कार्या त्वया साऽतिशुभा विधात्रा ॥ १०॥ सर्वमंगलसंयुक्त सर्वैश्वर्यसमन्वित । प्रसन्ने त्वयि सर्वेशे किं केषां दुर्लभं कुह ॥ ११॥ हार्दांधतिमिरं हन्तुं शुद्धज्ञानप्रकाशक । त्वदंघ्रिनखमाणिक्यद्युतिरेवालमीश नः ॥ १२॥ स्वकृपार्द्रकटाक्षेण वीक्षसे चेत्सकृद्धि माम् । भविष्यामि कृतार्थोऽत्र पात्रं चापि स्थितेस्तव ॥ १३॥ क्व च मन्दो वराकोऽहं क्व भवान्भगवान्प्रभुः । अथापि भवदावेश भाग्यवानस्मि ते दृशा ॥ १४॥ विहितानि मया नाना पातकानि च यद्यपि । अथापि ते प्रसादेन पवित्रोऽहं न संशयः ॥ १५॥ स्वलीलया त्वं हि जनान्पुनासि तन्मे स्वलीला श्रवणं प्रयच्छ । तस्याः श्रुतेः सान्द्रविलोचनोऽहं पुनामि चात्मानमतीव देव ॥ १६॥ पुरतस्ते स्फुटं वच्मि दोषराशिरहं किल । दोषा ममामिताः पांसुवृष्टिबिन्दुसमा विभोः ॥ १७॥ पापीयसामहं मुख्यस्त्वं तु कारुणिकाग्रणीः । दयनीयो न हि क्वापि मदन्य इति भाति मे ॥ १८॥ ईदृशं मां विलोक्यापि कृपालो ते मनो यदि । न द्रवेत्तर्हि किं वाच्यमदृष्टं मे तवाग्रतः ॥ १९॥ त्वमेव सृष्टवान्सर्वान्दत्तात्रेय दयानिधे । वयं दीनतराः पुत्रास्तवाकल्पाः स्वरक्षणे ॥ २०॥ जयतु जयतु दत्तो देवसङ्घाभिपूज्यो जयतु जयतु भद्रो भद्रदो भावुकेज्यः । जयतु जयतु नित्यो निर्मलज्ञानवेद्यो जयतु जयतु सत्यः सत्यसंधोऽनवद्यः ॥ २१॥ यद्यहं तव पुत्रः स्यां पिता माता त्वमेव मे । दयास्तन्यामृतेनाशु मातस्त्वमभिषिञ्च माम् ॥ २२॥ ईशाभिन्ननिमित्तोपादनात्स्रष्टुरस्य ते । जगद्योने सुतो नाहं दत्त मां परिपाह्यतः ॥ २३॥ तव वत्सस्य मे वाक्यं सूक्तं वाऽसूक्तमप्यहो । क्षन्तव्यं मेऽपराधश्च त्वत्तोऽन्या न गतिर्हि मे ॥ २४॥ अनन्यगतिकस्यास्य बालस्य मम ते पितः । न सर्वथोचितोपेक्षा दोषाणां गणनापि च ॥ २५॥ अज्ञानित्वादकल्पत्वाद्दोषा मम पदे पदे । भवन्ति किं करोमीश करुणावरुणालय ॥ २६॥ अथापि मेऽपराधैश्चेदायास्यन्तर्विषादताम् । पदाहतार्भकेणापि माता रुष्यति किं भुवि ॥ २७॥ रङ्कमङ्कगतं दीनं ताडयन्तं पदेन च । माता त्यजति किं बालं प्रत्युताश्वासयत्यहो ॥ २८॥ तादृशं मामकल्पं चेन्नाश्वासयसि भो प्रभो । अहहा बत दीनस्य त्वां विना मम का गतिः ॥ २९॥ शिशुर्नायं शठः स्वार्थीत्यपि नायातु तेऽन्तरम् । लोके हि क्षुधिता बालाः स्मरन्ति निजमातरम् ॥ ३०॥ जीवनं भिन्नयोः पित्रोर्लोक एकतराच्छिशोः । त्वं तूभयं दत्त मम माऽस्तु निर्दयता मयि ॥ ३१॥ स्तवनेन न शक्तोऽस्मि त्वां प्रसादयितुं प्रभो । ब्रह्माद्याश्चकितास्तत्र मन्दोऽहं शक्नुयां कथम् ॥ ३२॥ दत्त त्वद्बालवाक्यानि सूक्तासूक्तानि यानि च । तानि स्वीकुरु सर्वज्ञ दयालो भक्तभावन ॥ ३३॥ ये त्वा शरणमापन्नाः कृतार्था अभवन्हि ते । एतद्विचार्य मनसा दत्त त्वां शरणं गतः ॥ ३४॥ त्वन्निष्ठास्त्वत्परा भक्तास्तव ते सुखभागिनः । इति शास्त्रानुरोधेन दत्त त्वां शरणं गतः ॥ ३५॥ स्वभक्ताननुगृह्णाति भगवान् भक्तवत्सलः । इति सञ्चित्य सञ्चित्य कथञ्चिद्धारयाम्यसून् ॥ ३६॥ त्वद्भक्तस्त्वदधीनोऽहमस्मि तुभ्यं समर्पितम् । तनुं मनो धनं चापि कृपां कुरु ममोपरि ॥ ३७॥ त्वयि भक्तिं नैव जाने न जानेऽर्चनपद्धतिम् । कृतं न दानधर्मादि प्रसादं कुरु केवलम् ॥ ३८॥ ब्रह्मचर्यादि नाचीर्णं नाधीता विधितः श्रुतिः । गार्हस्थ्यं विधिना दत्त न कृतं तत्प्रसीद मे ॥ ३९॥ न साधुसङ्गमो मेऽस्ति न कृतं वृद्धसेवनम् । न शास्त्रशासनं दत्त केवलं त्वं दयां कुरु ॥ ४०॥ ज्ञातेऽपि धर्मे नहि मे प्रवृत्ति- र्ज्ञातेऽप्यधर्मे न ततो निवृत्तिः ॥ श्रीदत्तनाथेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ ४१॥ कृतिः सेवा गतिर्यात्रा स्मृतिश्चिन्ता स्तुतिर्वचः । भवन्तु दत्त मे नित्यं त्वदीया एव सर्वथा ॥ ४२॥ प्रतिज्ञा ते न भक्ता मे नश्यन्तीति सुनिश्चितम् । श्रीदत्त चित्त आनीय जीवनं धारयाम्यहम् ॥ ४३॥ दत्तोऽहं ते मयेतीश आत्मदानेन योऽभवत् । अनसूयात्रिपुत्रः स श्रीदत्तः शरणं मम ॥ ४४॥ कार्तवीर्यार्जुनायादाद्योगर्धिमुभयीं प्रभुः । अव्याहतगतिं चासौ श्रीदत्तः शरणं मम ॥ ४५॥ आन्वीक्षिकीमलर्काय विकल्पत्यागपूर्वकम् । योऽदादाचार्यवर्यः स श्रीदत्तः शरणं मम ॥ ४६॥ चतुर्विंशतिगुर्वाप्तं हेयोपादेयलक्षणं । ज्ञानं यो यदवेऽदात्स श्रीदत्तः शरणं मम ॥ ४७॥ मदालसागर्भरत्नालर्काय प्राहिणोच्च यः । योगपूर्वात्मविज्ञानं श्रीदत्तः शरणं मम ॥ ४८॥ आयुराजाय सत्पुत्रं सेवाधर्मपराय यः । प्रददौ सद्गतिं चैष श्रीदत्तः शरणं मम ॥ ४९॥ लोकोपकृतये विष्णुदत्तविप्राय योऽर्पयत् । विद्यास्तच्छ्राद्धभुग्यः स श्रीदत्तः शरणं मम ॥ ५०॥ भर्त्रा सहानुगमनविधिं यः प्राह सर्ववित् । राममात्रे रेणुकायै श्रीदत्तः शरणं मम ॥ ५१॥ समूलमाह्निकं कर्म सोमकीर्तिनृपाय यः । मोक्षोपयोगि सकलं श्रीदत्तः शरणं मम ॥ ५२॥ नामधारक भक्ताय निर्विण्णाय व्यदर्शयत् । तुष्टः स्तुत्या स्वरूपं स श्रीदत्तः शरणं मम ॥ ५३॥ यः कलिब्रह्मसंवादमिषेणाह युगस्थितीः । गुरुसेवां च सिद्धाऽऽस्याच्छ्रीदत्तः शरणं मम ॥ ५४॥ दुर्वासःशापमाश्रुत्य योऽम्बरीषार्थमव्ययः । नानावतारधारी स श्रीदत्तः शरणं मम ॥ ५५॥ अनसूयासतीदुग्धास्वादायेव त्रिरूपतः । अवातरदजो योऽपि श्रीदत्तः शरणं मम ॥ ५६॥ पीठापुरे यः सुमतिब्राह्मणीभक्तितोऽभवत् । श्रीपादस्तत्सुतस्त्राता श्रीदत्तः शरणं मम ॥ ५७॥ प्रकाशयामास सिद्धमुखात्स्थापनमादितः । महाबलेश्वरस्यैष श्रीदत्तः शरणं मम ॥ ५८॥ चण्डाल्यपि यतो मुक्ता गोकर्णे तत्र योऽवसत् । लिङ्गतीर्थमये त्र्यब्दं श्रीदत्तः शरणं मम ॥ ५९॥ कृष्णाद्वीपे कुरुपुरे कुपुत्रं जननीयुतम् । यो हि मृत्योरपाच्छ्रीपाच्छ्रीदत्तः शरणं मम ॥ ६०॥ रजकायापि दास्यन्यो राज्यं कुरुपुरे प्रभुः । तिरोऽभूदज्ञदृष्ट्या स श्रीदत्तः शरणं मम ॥ ६१॥ विश्वासघातिनश्चोरान्स्वभक्तघ्नान्निहत्य यः । जीवयामास भक्तं स श्रीदत्तः शरणं मम ॥ ६२॥ करञ्जनगरेऽम्बायाः प्रदोषव्रतसिद्धये । योऽभूत्सुतो नृहर्याख्यः श्रीदत्तः शरणं मम ॥ ६३॥ मूको भूत्वा व्रतात्पश्चाद्वदन्वेदान्स्वमातरम् । प्रव्रजन् बोधयामास श्रीदत्तः शरणं मम ॥ ६४॥ काशीवासी स संन्यासी निराशीष्ट्वप्रदो वृषम् । वैदिकं विशदीकुर्वन् श्रीदत्तः शरणं मम ॥ ६५॥ भूमिं प्रदक्षिणीकृत्य सशिष्यो वीक्ष्य मातरम् । जहार द्विजशूलार्तिं श्रीदत्तः शरणं मम ॥ ६६॥ शिष्यत्वेनोररीकृत्य सायंदेवं ररक्ष यः ॥ भीते च क्रूरयवनाच्छ्रीदत्तः शरणं मम ॥ ६७॥ प्रेरयत्तीर्थयात्रायै तीर्थरूपोऽपि यः स्वकान् । सम्यग्धर्ममुपादिश्य श्रीदत्तः शरणं मम ॥ ६८॥ सशिष्यः पर्यलीक्षेत्रे वैद्यनाथसमीपतः । स्थित्वोद्दधार मूढो यः श्रीदत्तः शरणं मम ॥ ६९॥ विद्वत्सुतमविद्यं यो आगतं लोकनिन्दितम् । छिन्नजिह्वं बुधं चक्रे श्रीदत्तः शरणं मम ॥ ७०॥ नृसिंहवाटिकास्थो यः प्रददौ शाकभुङ्-निधिम् । दरिद्रब्राह्मणायासौ श्रीदत्तः शरणं मम ॥ ७१॥ भक्ताय त्रिस्थलीयात्रां दर्शयामास यः क्षणात् । चकार वरदं क्षेत्रं स श्रीदत्तः शरणं मम ॥ ७२॥ प्रेतार्तिं वारयित्वा यो ब्राह्मण्यै भक्तिभावितः । ददौ पुत्रौ स गतिदः श्रीदत्तः शरणं मम ॥ ७३॥ तत्त्वं यो मृतपुत्रायै बोधयित्वाप्यजीवयत् । मृतं कल्पद्रुमस्थः स श्रीदत्तः शरणं मम ॥ ७४॥ दोहयामास भिक्षार्थं यो वन्ध्यां महिषीं प्रभुः । दारिद्र्यदावदावः स श्रीदत्तः शरणं मम ॥ ७५॥ राजप्रार्थित एत्यास्थान्मठे यो गाणगापुरे । ब्रह्मरक्षः समुद्धर्ता श्रीदत्तः शरणं मम ॥ ७६॥ विश्वरूपं निन्दकाय शिबिकास्थः स्वलङ्कृतः । गर्वहा दर्शयद्यः स श्रीदत्तः शरणं मम ॥ ७७॥ त्रिविक्रमेण चानीतौ गर्वितौ ब्राह्मणद्विषौ । बोधयामास तौ यः स श्रीदत्तः शरणं मम ॥ ७८॥ उक्त्वा चतुर्वेदशाखातदङ्गादिकमीश्वरः । विप्रगर्वहरो यः स श्रीदत्तः शरणं मम ॥ ७९॥ सप्तजन्मविदं सप्तरेखोल्लङ्घनतो ददौ । यो हीनाय श्रुतिस्फूर्तिः श्रीदत्तः शरणं मम ॥ ८०॥ त्रिविक्रमायाह कर्मगतिं दत्तविदा पुनः । वियुक्तं पतितं चक्रे श्रीदत्तः शरणं मम ॥ ८१॥ रक्षसे वामदेवेन भस्ममाहात्म्यमुद्गतिम् । उक्तां त्रिविक्रमायाह श्रीदत्तः शरणं मम ॥ ८२॥ गोपीनाथसुतो रुग्णो मृतस्तत्स्त्री शुशोच ताम् । बोधयामास यो योगी श्रीदत्तः शरणं मम ॥ ८३॥ गुर्वगस्त्यर्षिसंवादरूपं स्त्रीधर्ममाह यः । रूपान्तरेण स प्राज्ञः श्रीदत्तः शरणं मम ॥ ८४॥ विधवाधर्ममादिश्यानुगमं चाक्षभस्मदः । अजीवयन्मृतं विप्रं श्रीदत्तः शरणं मम ॥ ८५॥ वेश्यासत्यै तु रुद्राक्षमाहात्म्ययुतमीट्-कृतम् । प्रसादं प्राह यः सत्यै श्रीदत्तः शरणं मम ॥ ८६॥ शतरुद्रीयमाहात्म्यं मृतराट् सुतजीवनम् । सत्यै शशंस स गुरुः श्रीदत्तः शरणं मम ॥ ८७॥ कचाख्यानं स्त्रियो मंत्रानर्हतार्थसुभाग्यदम् । सोमव्रतं च यः प्राह श्रीदत्तः शरणं मम ॥ ८८॥ ब्राह्मण्या दुःस्वभावं यो निवार्याह्निकमुत्तमम् । शशंस ब्राह्मणायासौ श्रीदत्तः शरणं मम ॥ ८९॥ गार्हस्थधर्मं विप्राय प्रत्यवायजिहासया । क्रममुक्त्यै य ऊचे स श्रीदत्तः शरणं मम ॥ ९०॥ त्रिपुंपर्याप्तपाकेन भोजयामास यो नृणाम् । सिद्धश्चतुःसहस्राणि श्रीदत्तः शरणं मम ॥ ९१॥ अश्वत्थसेवामादिश्य पुत्रौ योऽदात्फलप्रदः । चित्रकृद्-वृद्धवन्ध्यायै श्रीदत्तः शरणं मम ॥ ९२॥ कारयित्वा शुष्ककाष्ठसेवां तद्-वृक्षतां नयन् । विप्रकुष्ठं जहारासौ श्रीदत्तः शरणं मम ॥ ९३॥ भजन्तं कष्टतोऽप्याह सायंदेवं परीक्ष्य यः । गुरुसेवाविधानं स श्रीदत्तः शरणं मम ॥ ९४॥ शिवतोषकरीं काशीयात्रां भक्ताय योऽवदत् । सविधिं विहितां त्वष्ट्रा श्रीदत्तः शरणं मम ॥ ९५॥ कौण्डिण्यधर्मविहितमनंतव्रतमाह यः । कारयामास तद्योऽपि श्रीदत्तः शरणं मम ॥ ९६॥ श्रीशैलं तंतुकायासौ योगगत्या व्यदर्शयत् । शिवरात्रिव्रताहे स श्रीदत्तः शरणं मम ॥ ९७॥ ज्ञापयित्वाप्यर्मत्यत्वं स्वस्य दृष्ट्या चकार यः । विकुष्ठं नन्दिशर्माणं श्रीदत्तः शरणं मम ॥ ९८॥ नरकेसरिणे स्वप्ने स्वं कल्लेश्वरलिङ्गगम् । दर्शयित्वानुजग्राह श्रीदत्तः शरणं मम ॥ ९९॥ अष्टमूर्तिधरोऽप्यष्टग्रामगो भक्तवत्सलः । दीपावल्युत्सवेऽभूत्स श्रीदत्तः शरणं मम ॥ १००॥ अपक्वं छेदयित्वापि क्षेत्रे शतगुणं ततः । धान्यं शूद्राय योऽदात्स श्रीदत्तः शरणं मम ॥ १०१॥ गाणगापुरके क्षेत्रे योऽष्टतीर्थान्यदर्शयत् । भक्तेभ्यो भीमरथ्यां स श्रीदत्तः शरणं मम ॥ १०२॥ पूर्वदत्तवरायादाद्राज्यं स्फोटकरुग्घरः । म्लेच्छाय दृष्टिं चेष्टं स श्रीदत्तः शरणं मम ॥ १०३॥ श्रीशैलयात्रामिषेण वरदः पुष्पपीठगः । कलौ तिरोऽभवद्यः स श्रीदत्तः शरणं मम ॥ १०४॥ निद्रामातृपुरेऽस्य सह्यशिखरे पोठं मिमंक्षापुरे काश्याख्ये करहाटकेऽर्घ्यमवरे भिक्षास्य कोलापुरे । पाञ्चाले भुजिरस्य विठ्ठलपुरे पत्रं विचित्रं पुरे गांधर्वे युजिराचमः कुरुपुरे दूरे स्मृतो नान्तरे ॥ १०५॥ अमलकमलवक्त्रः पद्मपत्राभनेत्रः परविरतिकलत्रः सर्वथा यः स्वतन्त्रः । स च परमपवित्रः सत्कमण्डल्वमत्रः परमरुचिरगात्रो योऽनसूयात्रिपुत्रः ॥ १०६॥ नमस्ते समस्तेष्टदात्रे विधात्रे नमस्ते समस्तेडिताघौघहर्त्रे । नमस्ते समस्तेङ्गितज्ञाय भर्त्रे नमस्ते समस्तेष्टकर्त्रेऽकहर्त्रे ॥ १०७॥ नमो नमस्तेऽस्तु पुरान्तकाय नमो नमस्तेऽस्त्वसुरान्तकाय । नमो नमस्तेऽस्तु खलान्तकाय दत्ताय भक्तार्तिविनाशकाय ॥ १०८॥ श्रीदत्तदेवेश्वर मे प्रसीद श्रीदत्तसर्वेश्वर मे प्रसीद । प्रसीद योगेश्वर देहि योगं त्वदीयभक्तेः कुरु मा वियोगम् ॥ १०९॥ श्रीदत्तो जयतीह दत्तमनिशं ध्यायामि दत्तेन मे हृच्छुद्धिर्विहिता ततोऽस्तु सततं दत्ताय तुभ्यं नमः । दत्तान्नास्ति परायणं श्रुतिमतं दत्तस्य दासोऽस्म्यहम् । श्रीदत्ते परभक्तिरस्तु मम भो दत्त प्रसीदेश्वर ॥ ११०॥ ॥ इति श्री परमहंस परिव्राजकाचार्य श्री श्री श्री वासुदेवानन्द सरस्वती यति वरेण्य विरचितं श्री दत्त भावसुधारस स्तोत्रं सम्पूर्णम् ॥