अक्षर आकार:

श्रीदत्तापराधक्षमापणस्तोत्रम्

shrIdattAparAdhakShamApaNastotram

श्रीदत्तापराधक्षमापणस्तोत्रम्

दत्तात्रेयं त्वां नमामि प्रसीद त्वं सर्वात्मा सर्वकर्ता न वेद । कोऽप्यन्तं ते सर्वदेवाधिदेव ज्ञाताऽज्ञातान्मेऽपराधान् क्षमस्व ॥ १॥ त्वदुद्भवत्वात्वदधीनधीत्वात्तवमेव मे वन्द्य उपास्य आत्मन् । अथापि मौढ्यात् स्मरणं न ते मे कृतं क्षमस्व प्रियकृन्महात्मन् ॥ २॥ भोगापवर्गप्रदमार्तबंधुं कारूण्यसिन्धुं परिहाय बन्धुम् । हिताय चाऽन्यं परिमार्गयन्ति हा मादृशो नष्टदृशो विमूढाः ॥ ३॥ न मत्समो यद्यपि पापकर्ता न त्वत्समोऽथापि हि पापहर्ता । न मत्समोऽन्यो दयनीय आर्य न त्वत्समः क्वापि दयालुवर्यः ॥ ४॥ अनाथनाथोऽसि सुदीनबन्धो श्रीशाऽनुकम्पामृतपूर्णसिन्धो । त्वत्पादभक्तिं तव दासदास्यं त्वदीयमंत्रार्थदृढैकनिष्ठाम् ॥ ५॥ गुरूस्मृतिं निर्मलबुद्धिमाधिव्याधिक्षयं मे विजय च देहि । इष्टार्थसिद्धिं वरलोकवश्यं धनान्नवृद्धिं वरगोसमृद्धिम् ॥ ६॥ पुत्रादिलब्धिं म उदारतां च देहीश मे चास्त्वभय हि सर्वतः । ब्रह्मा-ऽग्नि-भूम्यो नम ओषधीभ्यो वाचे नमो वाक्पतये च विष्णवे ॥ ७॥ शान्ताऽस्तु भूर्नः शिवमन्तरिक्ष द्यौश्चाऽभयं नोऽस्तु दिश शिवाश्च । आपश्च विद्युत्परिपान्तु देवाः श सर्वतो मेऽभयमस्तु शान्तिः ॥ ८॥ ॥इति श्रीवासुदेवानन्दसरस्वतीविरचितं दत्तापराधक्षमापणस्तोत्रं सम्पूर्णम् ॥