अक्षर आकार:

अद्वैतं दत्तात्रेयवर्मस्तोत्रं

advaitaM dattAtreyavarmastotraM

अद्वैतं दत्तात्रेयवर्मस्तोत्रं

ध्यात्वा भक्ताभयकरं समष्टिव्यष्टिचालकम् । दत्तात्रेयं पठेद्वर्म सर्वरक्षाकरं परम् ॥ १॥ स्वसत्तनुप्रणामे मे प्रणमय्य शिरोऽवतु । व्यर्थात्तिरः पुरःकम्पाद् दुर्भराच्च द्युमूर्धकः ॥ २॥ स्वपादतुलसीगन्धप्रीतिदानेन पातु मे । नासत्यनासिको घ्राणमितरघ्राणतर्पणात् ॥ ३॥ नेत्रे स्वसाधुमूर्तीर्मे भास्कराक्षः प्रदर्श्य च । रूपलावण्यसौन्दर्यवीक्षणात्परिरक्षतु ॥ ४॥ सुश्लोको दिक्ष्रुतिः श्रोत्रे श्रावयित्वा स्वकं यशः । श्राव्यं च द्विविधं पातु शब्दात्कर्णकषायदात् ॥ ५॥ उच्चारयित्वा मधुरान्स्वगुणान्लोकशोकहान् । जिह्वां पावकवाक्पातु रसास्वाददुरुक्तितः ॥ ६॥ स्वालयक्षेत्रतीर्थेषु गमयित्वा पदौ मम । उरुक्रमपदः पातु व्यर्थपर्यटनादकात् ॥ ७॥ रजोहरः स्वसत्पादरजस्तीर्थाप्लुतानि मे । कृत्वाङ्गानि हरिः पातु सुस्पर्शालेपनादितः ॥ ८॥ चन्द्रचेताः स्वमननाल्हाददानेन मे मनः । दुःखदाद्यन्तवत्स्पर्शसङ्कल्पायासतोऽवतु ॥ ९॥ चित्तं साक्ष्यनुसन्धानं कारयित्वा पुमीश्वरः । मरीचिकोपमद्वैतानुसन्धानात्सदावतु ॥ १०॥ ग्राहयित्वातीन्द्रियकं बुद्धिं मे निश्चयात्मिकाम् । दुस्तर्कात्पातु जीवात्मा धीव्याप्त्यस्ततमाः स्वभूः ॥ ११॥ हरो देहेन्द्रियप्राणमनोधीभ्यो विलक्षणः । सोऽहमित्यनुभाव्याहङ्कारात्पातु दुराग्रहात् ॥ १२॥ सर्वाशाभ्यः सदा माव्याद्विष्णुः सर्वात्मकोऽपि च । वर्जितं कवचेनाव्याद्रक्षाहीनं च यत्स्थलम् ॥ १३॥ यो नह्यादात्मनीदं सन्सनद्धः कवची भवेत् । साम्राज्यसंस्थः कामाद्यरीन् जित्वा द्वैतसंविदि ॥ १४॥ संसारदुःस्वप्नहरं नष्टात्मधनदायकम् । त्रिदोषोत्पातशमनं दुर्दृग्बाधादिवारणम् ॥ १५॥ यस्याङ्गे वर्म कण्ठे च माला गीतायुधं करे । जराप्रदर्शितपथं प्रचण्डामयसैनिकम् ॥ १६॥ प्राप्तं मृत्युरिपुं चाप्यविगणय्य स एव हि । पदाक्रम्य सुखी यायात्प्रसिद्धं ब्रह्मलोककम् ॥ १७॥ इति श्री परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयवर्माख्यकवचं सम्पूर्णम् ॥