अक्षर आकार:

श्रीदत्तात्रेयवज्रकवचम्

shrIdattAtreyavajrakavacham

श्रीदत्तात्रेयवज्रकवचम्

श्रीगणेशाय नमः । श्रीदत्तात्रेयाय नमः । ऋषय ऊचुः । कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास कलौ युगे । धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ १॥ व्यास उवाच । श‍ृण्वन्तुऋषयः सर्वे शीघ्रं सङ्कल्पसाधनम् । सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥ २॥ गौरीश‍ृङ्गे हिमवतः कल्पवृक्षोपशोभितम् । दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम् ॥ ३॥ रत्नसिंहासनासिनं प्रसन्नं परमेश्वरम् । मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती ॥ ४॥ श्रीदेव्युवाच । देवदेव महादेव लोकशङ्कर शङ्कर । मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नशः ॥ ५॥ तन्त्रजालान्यनेकानि मया त्वत्तः श्रुतानि वै । इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम् ॥ ६॥ इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वरः । करेणामृज्य सन्तोषात्पार्वतीं प्रत्यभाषत ॥ ७॥ मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते । इत्युक्त्वा वृषमारुह्य पार्वत्या सह शङ्करः ॥ ८॥ ययौ भूमण्डलं द्रष्टुं गौर्याश्चित्राणि दर्शयन् । क्वचित् विन्ध्याचलप्रान्ते महारण्ये सुदुर्गमे ॥ ९॥ तत्र व्याहर्तुमायान्तं भिल्लं परशुधारिणम् । वर्ध्यमानं महाव्याघ्रं नखदण्ष्ट्राभिरावृतम् ॥ १०॥ अतीव चित्रचारित्र्यं वज्रकायसमायुतम् । अप्रयत्नमनायासमखिलं सुखमास्थितम् ॥ ११॥ पलायन्तं मृगं पश्चाद्व्याघ्रो भीत्या पलायितः । एतदाश्चर्यमालोक्य पार्वती प्राह शङ्करम् ॥ १२॥ श्रीपार्वत्युवाच । किमाश्चर्यं किमाश्चर्यमग्रे शम्भो निरीक्ष्यताम् । इत्युक्तः स ततः शम्भुर्दृष्ट्वा प्राह पुराणवित् ॥ १३॥ श्रीशङ्कर उवाच । गौरि वक्ष्यामि ते चित्रमवाङ्मानसगोचरम् । अदृष्टपूर्वमस्माभिर्नास्ति किञ्चन्न कुत्रचित् ॥ १४॥ मया सम्यक् समासेन वक्ष्यते श‍ृणु पार्वति । अयं दूरश्रवा नाम भिल्लः परमधार्मिकः ॥ १५॥ समित्कुशप्रसूनानि कन्दमूलफलादिकम् । प्रत्यहं विपिनं गत्वा समादाय प्रयासतः ॥ १६॥ प्रिये पूर्वं मुनीन्द्रेभ्यः प्रयच्छति न वाञ्छति । तेऽपि तस्मिन्नपि दयां कुर्वते सर्वमौनिनः ॥ १७॥ दलादनो महायोगी वसन्नेव निजाश्रमे । कदाचिदस्मरत् सिद्धं दत्तात्रेयं दिगम्बरम् ॥ १८॥ दत्तात्रेयः स्मर्तृगामी चेतिहासं परीक्षितुम् । तत्क्षणात्सोऽपि योगीन्द्रो दत्तात्रेयः समुत्थितः ॥ १९॥ तं दृष्ट्वाऽऽश्चर्यतोषाभ्यां दलादनमहामुनिः । सम्पूज्याग्रे निषीदन्तं दत्तात्रेयमुवाच तम् ॥ २०॥ मयोपहूतः सम्प्राप्तो दत्तात्रेय महामुने । स्मर्तृगामी त्वमित्येतत् किंवदन्ती परीक्षितुम् ॥ २१॥ मयाद्य संस्मृतोऽसि त्वमपराधं क्षमस्व मे । दत्तात्रेयो मुनिं प्राह मम प्रकृतिरीदृशी ॥ २२॥ अभक्त्या वा सुभक्त्या वा यः स्मरेन्मामनन्यधीः । तदानीं तमुपागत्य ददामि तदभीप्सितम् ॥ २३॥ दत्तात्रेयो मुनिं प्राह दलादनमुनीश्वरम् । यदिष्टं तद्वृणीष्व त्वं यत् प्राप्तोऽहं त्वया स्मृतः ॥ २४॥ दत्तात्रेयं मुनिः प्राह मया किमपि नोच्यते । त्वच्चित्ते यत्स्थितं तन्मे प्रयच्छ मुनिपुङ्गव ॥ २५॥ श्रीदत्तात्रेय उवाच । ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम् । तथ्येत्यङ्गीकृतवते दलादनमुनये मुनिः ॥ २६॥ स्ववज्रकवचं प्राह ऋषिच्छन्दःपुरःसरम् । न्यासं ध्यानं फलं तत्र प्रयोजनमशेषतः ॥ २७॥ अस्य श्रीदत्तात्रेयवज्रकवचस्तोत्रमन्त्रस्य, किरातरूपी महारुद्र ऋषिः, अनुष्टुप् छन्दः, श्रीदत्तात्रेयो देवता, द्रां बीजं, आं शक्तिः, क्रौं कीलकं, ॐ आत्मने नमः । ॐ द्रीं मनसे नमः । ॐ आं द्रीं श्रीं सौः ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्लः । श्रीदत्तात्रेयप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ द्रां अङ्गुष्ठाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः । ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः । ॐ द्रौं कनिष्ठिकाभ्यां नमः । ॐ द्रः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि न्यासः । ॐ भूर्भुवःस्वरोमिति दिग्बन्धः । अथ ध्यानम् । जददङ्कुरकन्दाय सच्चिदानन्दमूर्तये । दत्तात्रेयाय योगीन्द्रचन्द्राय परमात्मने ॥ कदा योगी कदा भोगी कदा नग्नः पिशाचवत् । दत्तात्रेयो हरिः साक्षाद्भुक्तिमुक्तिप्रदायकः ॥ वाराणसीपुरस्नायी कोल्हापुरजपादरः । माहुरीपुरभिक्षाशी सह्यशायी दिगम्बर ॥ इन्द्रनीलसमाकारश्चन्द्रकान्तिसमद्युतिः । वैडुर्यसदृशस्फूर्तिश्चलत्किञ्चिज्जटाधरः ॥ स्निग्धधावल्ययुक्ताक्षोऽत्यन्तनीलकनीनिकः । भ्रूवक्षःश्मश्रुनीलाङ्कः सशाङ्कसदृशाननः ॥ हासनिर्जितनीहारः कण्ठनिर्जितकम्बुकः । मांसलांसो दीर्घबाहुः पाणिनिर्जितपल्लवः ॥ विशालपीनवक्षाश्च ताम्रपाणिर्दलोदरः । पृथुलश्रोणिललितो विशालजघनस्थलः ॥ रम्भास्तम्भोपमानोरुर्जानुपूर्वैकजङ्घकः । गूढगुल्फः कूर्मपृष्ठोलसत्पादोषरिस्थलः ॥ रक्तारविन्दसदृशरमणीयपदाधरः । चर्माम्बरधरो योगी स्मर्तृगामी क्षणे क्षणे ॥ ज्ञानोपदेशनीरतो विपद्धरणदीक्षितः । सिद्धासनसमासीन ऋजुकायो हसन्मुखः ॥ वामहस्तेन वरदो दक्षिणेनाभयङ्करः । बालोन्मत्तपिशाचीभिः क्वचिद्युक्तः परीक्षितः ॥ त्यागी भोगी महायोगी नित्यानन्दो निरञ्जनः । सर्वरूपी सर्वदाता सर्वगः सर्वकामदः ॥ भस्मोद्धूलितसर्वाङ्गो महापातकनाशनः । भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशयः ॥ एवं ध्यात्वाऽनन्यचित्तो मद्वज्रकवचं पठेत् । मामेव पश्यन्सर्वत्र स मया सह सङ्चरेत् ॥ दिगम्बरं भस्मसुगन्धलेपनं चक्रं त्रिशूलं डमरुं गदायुधम् । पद्मासनं योगिमुनीन्द्रवन्दितं दत्तेति नामस्मरणेन नित्यम् ॥ (अथ पञ्चोपचारैः संपूज्य ॐ द्रां इति अष्टोत्तरशतवारं जपेत्) ॐ द्रां । ॐ दत्तात्रेयः शिरः पातु सहस्राब्जेषु संस्थितः । भालं पात्वानसूयेयश्चन्द्रमण्डलमध्यगः ॥ २८॥ कूर्चं मनोमयः पातु हं क्षं द्विदलपद्मभूः । ज्योतिरूपोऽक्षिणी पातु पातु शब्दात्मकः श्रुती ॥ २९॥ नासिकां पातु गन्धात्मा मुखं पातु रसात्मकः । जिह्वां वेदात्मकः पातु दन्तोष्ठौ पातु धार्मिकः ॥ ३०॥ कपोलावत्रिभूः पातु पात्वशेषं ममात्ववित् । स्वरात्मा षोडशाराब्जस्थितः स्वात्माऽवताद्गलम् ॥ ३१॥ स्कन्धौ चन्द्रानुजः पातु भुजौ पातु कृतादिभूः । जत्रुणी शत्रुजित् पातु पातु वक्षःस्थलं हरिः ॥ ३२॥ कादिठान्तद्वादशारपद्मगो मरुदात्मकः । योगीश्वरेश्वरः पातु हृदयं हृदयस्थितः ॥ ३३॥ पार्श्वे हरिः पार्श्ववर्ती पातु पार्श्वस्थितः स्मृतः । हठयोगादियोगज्ञः कुक्षी पातु कृपानिधिः ॥ ३४॥ डकारादिफकारान्तदशारसरसीरुहे । नाभिस्थले वर्तमानो नाभिं वह्न्यात्मकोऽवतु ॥ ३५॥ वह्नितत्वमयो योगी रक्षतान्मणिपूरकम् । कटिं कटिस्थब्रह्माण्डवासुदेवात्मकोऽवतु ॥ ३६॥ वकारादिलकारान्तषट्पत्राम्बुजबोधकः । जलतत्वमयो योगी स्वाधिष्ठानं ममावतु ॥ ३७॥ सिद्धासनसमासीन ऊरू सिद्धेश्वरोऽवतु । वादिसान्तचतुष्पत्रसरोरुहनिबोधकः ॥ ३८॥ मूलाधारं महीरूपो रक्षताद्वीर्यनिग्रही । पृष्ठं च सर्वतः पातु जान्युन्यस्तकराम्बुजः ॥ ३९॥ जङ्घे पात्ववधूतेन्द्रः पात्वङ्घ्री तीर्थपावनः । सर्वाङ्गं पातु सर्वात्मा रोमाण्यवतु केशवः ॥ ४०॥ चर्म चर्माम्बरः पातु रक्तं भक्तिप्रियोऽवतु । मांसं मांसकरः पातु मज्जां मज्जात्मकोऽवतु ॥ ४१॥ अस्थीनि स्थिरधीः पायान्मेधां वेधाः प्रपालयेत् । शुक्रं सुखकरः पातु चित्तं पातु दृढाकृतिः ॥ ४२॥ मनोबुद्धिमहङ्कारं हृषीकेशात्मकोऽवतु । कर्मेन्द्रियाणि पात्वीशः पातु ज्ञानेन्द्रियाण्यजः ॥ ४३॥ बन्धून् बन्धूत्तमः पायाच्छत्रुभ्यः पातु शत्रुजित् । गृहारामधनक्षेत्रपुत्रादीञ्छङ्करोऽवतु ॥ ४४॥ भार्यां प्रकृतिवित् पातु पश्वादीन्पातु शार्ङ्गभृत् । प्राणान्पातु प्रधानज्ञो भक्ष्यादीन्पातु भास्करः ॥ ४५॥ सुखं चन्द्रात्मकः पातु दुःखात् पातु पुरान्तकः । पशून्पशूपतिः पातु भूतिं भूतेश्वरो मम ॥ ४६॥ प्राच्यां विषहरः पातु पात्वाग्नेय्यां मखात्मकः । याम्यां धर्मात्मकः पातु नैऋत्यां सर्ववैरिहृत् ॥ ४७॥ वराहः पातु वारुण्यां वायव्यां प्राणदोऽवतु । कौबेर्यां धनदः पातु पात्वैशान्यां महागुरुः ॥ ४८॥ उर्ध्वं पातु महासिद्धः पात्वधस्ताज्जटाधरः । ॐ द्रां । मन्त्रजपः । ॐ द्रां अङ्गुष्ठाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः । ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः । ॐ द्रौं कनिष्ठिकाभ्यां नमः । ॐ द्रः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि न्यासः । ॐ भूर्भुवःस्वरोमिति दिग्बन्धः । रक्षाहीनं तु यत्स्थानं रक्षत्वादिमुनीश्वरः ॥ ४९॥ एतन्मे वज्रकवचं यः पठेच्छृणुयादपि । वज्रकायश्चिरञ्जीवी दत्तात्रेयोऽहमब्रुवम् ॥ ५०॥ त्यागी भोगी महायोगी सुखदुःखविवर्जितः । सर्वत्रसिद्धसङ्कल्पो जीवन्मुक्तोऽद्य वर्तते ॥ ५२॥ इत्युक्त्वान्तर्दधे योगी दत्तात्रेयो दिगम्बरः । दलादनोऽपि तज्जप्त्वा जीवन्मुक्तः स वर्तते ॥ ५३॥ भिल्लो दूरश्रवा नाम तदानीं श्रुतवादिनम् । सकृच्छ्रवणमात्रेण वज्राङ्गोऽभवदप्यसौ ॥ ५४॥ इत्येतद्वज्रकवचं दत्तात्रेयस्य योगिनः । श्रुत्वाशेषं शम्भुमुखात् पुनरप्याह पार्वती ॥ ५५॥ पार्वत्युवाच । एतत्कवचमाहात्म्यं वद विस्तरतो मम । कुत्र केन कदा जाप्यं किं यजाप्यं कथं कथम् ॥ ५६॥ उवाच शम्भुस्तत्सर्वं पार्वत्या विनयोदितम् । श्रीशिव उवाच । श्रुणु पार्वति वक्ष्यामि समाहितमनाविलम् ॥ ५७॥ धर्मार्थकाममोक्षाणामिदमेव परायणम् । हस्त्यश्वरथपादातिसर्वैश्वर्यप्रदायकम् ॥ ५८॥ पुत्रमित्रकलत्रादिसर्वसन्तोषसाधनम् । वेदशास्त्रादिविद्यानां निधानं परमं हि तत् ॥ ५९॥ सङ्गीतशास्त्रसाहित्यसत्कवित्वविधायकम् । बुद्धिविद्यास्मृतिप्रज्ञामतिप्रौढिप्रदायकम् ॥ ६०॥ सर्वसन्तोषकरणं सर्वदुःखनिवारणम् । शत्रु संहारकं शीघ्रं यशःकीर्तिविवर्धनम् ॥ ६१॥ अष्टसंख्या महारोगाः सन्निपातास्त्रयोदश । षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगकाः ॥ ६२॥ अष्टादश तु कुष्ठानि गुल्मान्यष्टविधान्यपि । अशीतिर्वातरोगाश्च चत्वारिशत्तु पैत्तिकाः ॥ ६३॥ विंशतिश्लेष्मरोगाश्च क्षयचातुर्थिकादयः । मन्त्रयन्त्रकुयोगाद्याः कल्पतन्त्रादिनिर्मिताः ॥ ६४॥ ब्रह्मराक्षसवेतालकूष्माण्डादिग्रहोद्भवाः । सङ्गजाः देशकालस्थास्तापत्रयसमुत्थिताः ॥ ६५॥ नवग्रहसमुद्भूता महापातकसम्भवाः । सर्वे रोगाः प्रणश्यन्ति सहस्रावर्तनाद्ध्रुवम् ॥ ६६॥ अयुतावृत्तिमात्रेण वन्ध्या पुत्रवती भवेत् । अयुतद्वितयावृत्त्या ह्यपमृत्युजयो भवेत् ॥ ६७॥ अयुतत्रितयाच्चैव खेचरत्वं प्रजायते । सहस्रादयुतादर्वाक् सर्वकार्याणि साधयेत् ॥ ६८॥ लक्षावृत्या कार्यसिद्धिर्भवेत्येव न संशयः । विषवृक्षस्य मूलेषु तिष्ठन् वै दक्षिणामुखः ॥ ६९॥ कुरुते मासमात्रेण वैरिणं विकलेन्द्रियम् । औदुम्बरतरोर्मूले वृद्धिकामेन जाप्यते ॥ ७०॥ श्रीवक्षमूले श्रीकामी तिन्तिणी शान्तिकर्मणि । ओजस्कामोऽश्वत्थमूले स्त्रीकामैः सहकारके ॥ ७१॥ ज्ञानार्थी तुलसीमूले गर्भगेहे सुतार्थिभिः । धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके ॥ ७२॥ देवालये सर्वकामैस्तत्काले सर्वदर्शितम् । नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत् ॥ ७३॥ युद्धे वा शास्त्रवादे वा सहस्रेण जयो भवेत् । कण्ठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत् ॥ ७४॥ ज्वरापस्मारकुष्ठादितापज्वरनिवारणम् । यत्र यत्स्यात्स्थिरं यद्यत्प्रसन्नं तन्निवर्तते ॥ ७५॥ तेन तत्र हि जप्तव्यं ततः सिद्धिर्भवेद्ध्रुवम् । इत्युक्त्वान् च शिवो गौर्ये रहस्यं परमं शुभं ॥ ७६॥ यः पठेत् वज्रकवचं दत्तात्रेयोसमो भवेत् । एवं शिवेन कथितं हिमवत्सुतायै प्रोक्तं ॥ ७७॥ दलादमुनयेऽत्रिसुतेनपूर्वम् यः कोऽपि वज्रकवचं । पठतीह लोके दत्तोपमश्चरति योगिवरश्चिरायुः ॥ ७८॥ ॥ इति श्रीरुद्रयामले हिमवत्खण्डे उमामहेश्वरसंवादे श्रीदत्तात्रेयवज्रकवचस्तोत्रं सम्पूर्णम् ॥