अक्षर आकार:

श्रीदत्तात्रेयस्तुतिः

Shri Dattatreya Stuti

श्रीदत्तात्रेयस्तुतिः

जगत्सत्यं वा नो न च तनुरहं वा तनुरहं अहं भूमा नो वा मनुत इति यो नोऽद्वयरसः । न माया नोऽविद्या स्पृशति किल यं तं सुविमलं गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ १॥ त्रिमूर्तीनां मायारहितमतिशुद्धं निजपदं परं सच्चित्सौख्यं प्रकटितमहोऽत्र त्रिवदनैः । निजब्रह्मैक्यं यद्विहरति वितन्वन् य इह तं गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ २॥ तपस्तेपेऽत्रिर्यत्तनुजजनने भक्तिवशतः तया प्रीत्या दत्तः स्फुटतरपरात्मैव कृपया । ददात्यात्मानं यो ह्यतिकरुणया तं सुखनिधिं गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ ३॥ विभुर्यो नित्यो वाऽक्षरमिति च वा ब्रह्म परमं वरेण्यं सत्यं वा तनुविभवः पाशरहितः । स्वभक्तानां मुक्त्यै सगुण इति यस्तं श्रुतिनुतं गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ ४॥ न भोगैर्नो दानं च खलु तथा यागनिचयै- र्न शास्त्रैर्नो योगैर्बहुविधानैर्न वशगः । कलौ भक्त्या प्रीतो भवति च वशो यस्तमभयं गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ ५॥ न माया नोऽविद्या जगदिदमहो जैवमथवा न पिण्डं ब्रह्माण्डं भवति न जनुर्यस्य दयया । दयासिन्धुर्यस्तं भवदलनदक्षं मुनिनुतं गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ ६॥। भवेद्यः सन्तुष्टः स्मरणमपि चेद्वा यदि कृतं निजं ज्ञानं दत्वा विषयविषपाशान् दलति यः । जगत्सेतुर्यो वै भवजलनिधिं तर्तुमिह तं गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ ७॥ न माया नोऽविद्या न च मम तु जीवेशकलना न विश्वं नो पिण्डं न च मम जनिर्वा मृतिरपि । नरो नो नारी वा न च मम विकारः क्वचिदिति गुरुं दत्तात्रेयं भज नतमनोऽभीष्टवरदम् ॥ ८॥ इति समर्थानुगृहीत महात्मा श्री श्रीधरस्वामीविरचिता श्रीदत्तात्रेयस्तुतिः समाप्ता ।