अक्षर आकार:

श्रीदत्तात्रेयस्तवः

Shri Dattatreyastavah

श्रीदत्तात्रेयस्तवः

दत्तात्रेयपदाब्जं वित्ताधीशाधिदेववर्येड्यम् । हृत्तापहारचतुरं चित्तामलभावसिद्धये नौमि ॥ १॥ अनसूयासुतमीडे वनसञ्चारप्रसक्तचेतस्कम् । कनक्नप्रदाननिरतं वनमालाभूषितग्रीवम् ॥ २॥ अविमुक्तस्नानरतं कोह्लापुरमध्यमन्त्रजपशीलम् । सह्याद्रिशयनलोलं माधूकरभैक्ष्यभोजनं वन्दे ॥ ३॥ आशाम्बरं प्रपद्ये पाशापहमाशु पादनम्राणाम् । केशावधूतसूर्यं काशाग्रचलन्मनोनिरोधाय ॥ ४॥ औदुम्बरतरुमूले कृतवासं कृष्णभक्तिदानरतम् । औदुम्बरादिदिव्यक्षेत्रावासं नमामि योगीशम् ॥ ५॥ शरदिन्दुतुल्यवदनं करराजद्बोधमुद्रमतिसुलभम् । तरणाय भवपयोधेः शरणं यास्यामि दत्तयोगीन्द्रम् ॥ ६॥ कृतवीर्यपुत्रदेशिकमिन्दुप्रतिमानवदनकञ्जातम् । बिम्बाधरमनसूयामुखपद्मार्कं नमामि गुरुदत्तम् ॥ ७॥ कृत्ताघवृन्द नमतां चित्ताम्बुजमध्यसंस्थ भक्तानाम् । दत्तात्रेय कृपाब्धे यत्ताक्षाराध्यचरण मां पाहि ॥ ८॥ क्रव्यादवैरिरूपो नव्याम्बुदसन्निकाशदेहरुचिः । भव्याय भवतु योगी निर्व्याजदयासुधाम्बुधिः कोऽपि ॥ ९॥ गतिविजितमत्तनागं मतिदानधुरन्धरं प्रणम्रेभ्यः । यतिततिपूजितपादं पतितावनदीक्षमेनमाकलये ॥ १०॥ गोरक्षकमुखयोगिभिरादरतः सेव्यमानपदपद्मम् । गोब्राह्मणहितकारणमत्रेः सुतमातनोमि हृत्पद्मे ॥ ११॥ घुटिकाञ्जनमुखसिद्धीर्घटिकातः प्राप्नुवन्ति यद्भक्ताः । स्फटिकाक्षमालिकाढ्यं तडिदाभं नौमि तं दत्तम् ॥ १२॥ दिननाथतुल्यवसनं दिष्ट्यैकप्राप्यचरणपाथोजम् । दिवि भुवि पाताले च प्रचरन्तं नौमि योगिनं कञ्चित् ॥ १३॥ बालोन्मत्तसदृक्षं कालोत्पन्नाशनेन सन्तुष्टम् । मालोल्लसद्गलतटं कालोच्छित्त्यै नमामि दत्तमुनिम् ॥ १४॥ भरताग्रजभक्ताग्र्यं भद्राणि दिशन्तमाशु नम्रेभ्यः । भवभीतिभञ्जनचणं दत्तात्रेयं नमामि मोदेन ॥ १५॥ भवनीकृतानतहृदं भक्ताज्ञानेभदलनपञ्चास्यम् । भसितावलिप्तगात्रं भव्यकरं नौमि दत्तमुनिवर्यम् ॥ १६॥ यस्याष्टविधा मन्त्राः शीघ्रं सिद्धिप्रदायकास्तिष्ये । तस्याङ्घ्रिपङ्कजमहं दत्तात्रेयस्य नौमि योगीशः ॥ १७॥ यागादिकर्मलभ्यं भोगालिं नम्रपङ्क्तये ददतम् । योगाधिरूढमनिशं नागाधिपशायिनं नमस्यामि ॥ १८॥ रवधूतहंसगर्वं नवनवकविताप्रदानधौरेयम् । विधिहरिशिवस्वरूपं प्रवणं वन्दे नतावने कञ्चित् ॥ १९॥ वैराग्यदाननिरतं तीरातिक्रान्तवैभवोपेतम् । काराबन्धविमोचकमैरावतयायिसेवितं नौमि ॥ २०॥ शरणागतपरिरक्षणनिरतं तरुणं तमालसमदेहम् । सरसिजसदृक्षनयनं शरणं यास्यामि दत्तमुनिनाथम् ॥ २१॥ कथितागमार्थसारं मथिताखिलदुःखकारणाविद्यम् । पथि परमे स्थितमनिशं शिथिलितपापौघमाश्रये दत्तम् ॥ २२॥ शीर्षत्रयेण सहितं शीर्षं वेदत्रयस्य नतलोकान् । सम्बोधयन्तमनिशं भावयतु स्वान्तमादराद्यमिनम् ॥ २३॥ स्मृतिमात्रतुष्टहृदयं मतिदं तरसाङ्घ्रिनम्रलोकाय । शितिकण्ठमित्रमीडे कृतिनां प्रत्यक्षमन्वहं दत्तम् ॥ २४॥ गोरक्षाद्यैर्मुख्यसुशिष्यैः परिवीतं गोविप्राणां पोषणसक्तं करुणाब्धिम् । गोलक्ष्मीशाम्बुजभवगिरिजासखरूपं दत्तात्रेयश्रीपदपद्मं प्रणतोऽस्मि ॥ २५॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीदत्तात्रेयस्तवः सम्पूर्णः ।