अक्षर आकार:

श्रीदत्तात्रेयकवचम्

shrI Dattatreyakavacham

श्रीदत्तात्रेयकवचम्

श्रीपादः पातु मे पादावूरू सिद्धासनस्थितः । पायाद्दिगम्बरो गुह्यं नृहरिः पातु मे कटिम् ॥ १॥ नाभिं पातु जगत्स्रष्टोदरं पातु दलोदरः । कृपालुः पातु हृदयं षड्भुजः पातु मे भुजौ ॥ २॥ स्रक्कुण्डीशूलडमरुशङ्खचक्रधरः करान् । पातु कण्ठं कम्बुकण्ठः सुमुखः पातु मे मुखम् ॥ ३॥ जिह्वां मे वेदवाक्पातु नेत्रे मे पातु दिव्यदृक् । नासिकां पातु गन्धात्मा पातु पुण्यश्रवाः श्रुती ॥ ४॥ ललाटं पातु हंसात्मा शिरः पातु जटाधरः । कर्मेन्द्रियाणि पात्वीशः पातु ज्ञानेन्द्रियाण्यजः ॥ ५॥ सर्वान्तरोऽन्तकरणं प्राणान्मे पातु योगिराट् । उपरिष्टादधस्ताच्च पृष्ठतः पार्श्वतोऽग्रजः ॥ ६॥ अन्तर्बहिश्च मां नित्यं नानारूपधरोऽवतु । वर्जितं कवचेनाव्यात्स्थानं मे दिव्यदर्शनः ॥ ७॥ राजतः शत्रुतो हिंस्राद् दुष्प्रयोगादितोऽघतः । आधिव्याधिभयार्तिभ्यो दत्तात्रेयः सदावतु ॥ ८॥ धनधान्यगृहक्षेत्रस्त्रीपुत्रपशुकिङ्करान् । ज्ञातींश्च पातु नित्यं मेऽनसूयानन्दवर्धनः ॥ ९॥ बालोन्मत्तपिशाचाभो द्युनिट्सन्धिषु पातु माम् । भूतभौतिकमृत्युभ्यो हरिः पातु दिगम्बरः ॥ १०॥ य एतद्दत्तकवचं सन्नह्याद्भक्तिभावितः । सर्वानर्थविनिर्मुक्तो ग्रहपीडाविवर्जितः ॥ ११॥ भूतप्रेतपिशाचाद्यैर्देवैरप्यपराजितः । भुक्त्वात्र दिव्यभोगान्स देहान्ते तत्पदं व्रजेत् ॥ १२॥ इति श्रीमद् परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयकवचं सम्पूर्णम् ।