अक्षर आकार:

श्रीदत्तहृदय

Shri Dattahridaya

श्रीदत्तहृदय

श्रीगणेशाय नमः । अथ श्रीदत्तहृदय प्रारम्भः । श्रीपार्वत्युवाच - देव शङ्कर सर्वेश भक्तानामभयप्रद ॥ विज्ञप्तिं श‍ृणु मे शम्भो नराणां हितकारणम् ॥ १॥ ईश्वर उवाच - वद प्रिये महाभागे भक्तानुग्रहकारिणि ॥ २॥ पार्वत्युवाच - देवदेवस्य दत्तस्य हृदयं ब्रूहि मे प्रभो ॥ सर्वारिष्टहरं पुण्यं जनानां मुक्तिमार्गदम् ॥ ३॥ ईश्वर उवाच - श‍ृणु देवि महाभागे हृदयं परमाद्भुतम् ॥ ४॥ अस्य श्रीदत्तात्रेयहृदयस्तोत्रमन्त्रस्य, श्रीभगवान् ईश्वरो ऋषिः, अनुष्टुप् छन्दः, श्रीचित्स्वरूपी दत्तात्रेयो देवता, ॐ बीजं, ह्रीं शक्तिः, क्रौं कीलकम्, (ममाभीष्ट) दत्तप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ अथ करन्यासः । ॐ द्रां अङ्गुष्ठाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः । ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः । ॐ द्रौं कनिष्ठिकाभ्यां नमः । ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥ अथ अङ्गन्यासः । ॐ द्रां हृदयाय नमः । ॐ द्रीं शिरसे स्वाहा ॥ ॐ द्रूं शिखायै वषट् ॥ ॐ द्रैं कवचाय हुं ॥ ॐ द्रौं नेत्रत्रयाय वौषट् ॥ ॐ द्रः अस्त्राय फट् ॥ ॐ भूर्भुवः स्वरोमिति दिग्बन्धः ॥ ध्यानम् । बालचन्द्रसुशुभे च किरीटे पुष्पहारमणियुक्तवक्षकम् पीतवस्त्रपरिशोभितमध्यं प्रणमाम्यनुसुयोद्भवदत्तम् ॥ १॥ दत्तं सनातनं नित्यं निर्विकल्पं निरामयम् । हरिं शिवं महादेवं सर्वभूतोपकारकम् ॥ २॥ नारायणं महाविष्णुं सर्गस्थित्यन्तकारिणम् । निराकारं च सर्वेशं कार्तवीर्य वरप्रदम् ॥ ३॥ अत्रिपुत्रं महातेजं मुनिवन्द्यं जनार्दनम् । द्राम्बीजं वरदं शुद्धं ह्रीं बीजेन समन्वितम् ॥ ४॥ शरण्यं शाश्वतं युक्तं मायया च गुणान्वितम् । त्रिगुणं त्रिगुणातीतं त्रियामापतिमौलिकम् ॥ ५॥ रामं रमापतिं कृष्णं गोविन्दं पीतवाससम् । दिगम्बरं नागहारं व्याघ्रचर्मोत्तरीयकम् ॥ ६॥ भस्मगन्धादिलिप्ताङ्गं मायामुक्तं जगत्पतिम् । निर्गुणं च गुणोपेतं विश्वव्यापिनमीश्वरम् ॥ ७॥ ध्यात्वा देवं महात्मानं विश्ववन्द्यं प्रभुं गुरुम् । किरीटकुण्डलाभ्यां च युक्तं राजीवलोचनम् ॥ ८॥ चन्द्रानुजं चन्द्रवक्त्रं रुद्रं इन्द्रादिवन्दितम् । अनुसूयाकलत्रं च दिनेशममराधिपम् ॥ ९॥ योगीश देवदेवेश अब्जजन्मादिवन्दित । नारायण विरूपाक्ष दत्तात्रेया नमोऽस्तु ते ॥ १०॥ अनन्त कमलाकान्त औदुम्बरस्थित प्रभो । निरञ्जन महायोगिन् दत्तायेत्र नमोऽस्तु ते ॥ ११॥ महाबाहो मुनिमणे सर्वविद्याविशारद । स्थावरं जङ्गमानां च दत्तात्रेय नमोऽस्तु ते ॥ १२॥ ऐंद्र्यां त्रातु महावीर्यो वन्ह्यां प्रणवपूर्वकम् । याम्यां दत्तात्रयो रक्षेन्नैऋत्यां भक्तवत्सलः ॥ १३॥ प्रतीच्यां पातु योगीशो योगिनां हृदये स्थितः । आनिल्यां वरदः शम्भुः कौबेर्यां जगतः प्रभुः ॥ १४॥ एकाक्षरो महामन्त्रः सर्वमन्त्रेषु विश्रुतः । अष्टाक्षरः सर्वसिद्धिः सर्वतन्त्रेषु गोपितः ॥ १५॥ ईशान्यां पातु मे रामो ऊर्ध्वं पातु महामुनिः । षडक्षरो महामन्त्रः पात्वधस्ताज्जगत्पिता ॥ १६॥ एवं पङ्क्तिदशो रक्षेद्यदुराजवरप्रदः । अकारादिक्षकारान्तं सदा रक्षेद्विभुः स्वयम् ॥ १७॥ आदिनाथस्य दत्तस्य हृदयं सर्वकामदम् । दत्तं दत्त पुनर्दत्तं योवदेद्भक्तिसंयुतः ॥ १८॥ तस्य पापानि सर्वाणि क्षयं यान्ति न संशयः । या इदं पठते नित्यं हृदयं सर्वकामदम् ॥ १९॥ पिशाचशाकिनीभूताडाकिनी शाकिनी तथा । ब्रह्मराक्षसवेताला झोटिङ्गा बालभूतकाः ॥ २०॥ गच्छन्ति पठनाद्देवि नात्र कार्या विचारणा । अपवर्गप्रदं साक्षात् मनोरथप्रपूरकम् ॥ २१॥ एकवारं द्विवारं च त्रिवारं च पठेन्नरः । जन्ममृत्युं च दुःखं च सुखं प्राप्नोति भक्तिमान् ॥ २२॥ गोपनीयं प्रयत्नेन जननीजारवत्प्रिये । नदेयं दुर्हृदे स्तोत्रं हृदयाख्यं च भामिनि ॥ २३॥ गुरुभक्ताय दातव्यं अन्यथा नप्रकाशयेत् । तव स्नेहाच्च कथित भक्तिं ज्ञात्वा मया शुभे ॥ २४॥ दत्तात्रेयस्य कृपया सभवेद्दीर्घमायुकः ॥ २५॥ इति श्रीरुद्रयामले शिवपार्वतीसंवादे दत्तहृदयस्तोत्रं सम्पूर्णम् ॥