अक्षर आकार:

श्रीदत्तात्रेयद्वादशनामस्तोत्रम्

Shri Dattatreya Dvadasha Nama Stotram

श्रीदत्तात्रेयद्वादशनामस्तोत्रम्

श्री गणेशाय नमः । अस्य श्रीदत्तात्रेयद्वादशनामस्तोत्रमन्त्रस्य परमहंस ऋषिः । श्रीदत्तात्रेय परमात्मा देवता । अनुष्टुप्छन्दः । सकलकामनासिद्ध्यर्थे जपे विनियोगः । प्रथमस्तु महायोगी द्वितीयः प्रभुरीश्वरः । तृतीयश्च त्रिमूर्तिश्च चतुर्थो ज्ञानसागरः ॥ १॥ पञ्चमो ज्ञानविज्ञानं षष्ठस्यात् सर्वमङ्गलम् । सप्तमो पुण्डरीकाक्षो अष्टमो देववल्लभः ॥ २॥ नवमो नन्ददेवेशो दशमो नन्ददायकः । एकादशो महारुद्रः द्वादशो करुणाकरः ॥ ३॥ एतानि द्वादशनामानि दत्तात्रेय महात्मनः । मन्त्रराजेति विख्यातं दत्तात्रेय हरः पराः ॥ ४॥ क्षयोपस्मार कुष्ठादि तापज्वरनिवारणम् । राजद्वारे पथेऽघोरे सङ्ग्रामेषु जलान्तरे ॥ ५॥ गिरे गृहान्तरेऽरण्ये व्याघ्रचोरभयादिषु । आवर्तने सहस्रेषु लभन्ते वाञ्छितं फलम् ॥ ६॥ त्रिकालं यः पठेन्नित्यं मोक्षसिद्धिमवाप्नुयात् । दत्तात्रेय सदा रक्षेत् यशः सत्यं न संशयः ॥ ७॥ विद्यार्थी लभते विद्यां रोगी रोगात् प्रमुच्यते । अपुत्रो लभते पुत्रं दरिद्रि लभते धनम् ॥ ८॥ अभार्यो लभते भार्यां सुखार्थी लभते सुखम् । मुच्यते सर्वपापेभ्यो सर्वत्र विजयी भवेत् ॥ ९॥ इति श्रीदत्तात्रेयद्वादशनामस्तोत्रं सम्पूर्णम् ॥ श्रीदत्तात्रेयार्पणमस्तु ॥