अक्षर आकार:

श्रीदत्तात्रेयध्यानम्

Shri Dattatreya Dhyanam

श्रीदत्तात्रेयध्यानम्

दत्तात्रेयं शिवं शान्तं सच्चिदानन्दमद्वयम् । आत्मरूपं परं दिव्यमवण्यमुपास्महे ॥ १॥ दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं प्रभुम् । आत्ममायारतं देवं अवधूतं दिगम्बरम् ॥ २॥ भस्मोद्धूलितसर्वाङ्गं जटाजूटधरं विभुम् । चतुर्बाहुमुदाराङ्गं प्रफुल्लकमलेक्षणम् ॥ ३॥ ज्ञानयोगनिधिं विश्वगुरुं योगिजनप्रियम् । भक्तानुकम्पनं सर्वसाक्षिणं सिद्धसेवितम् ॥ ४॥ जटाधरं पाण्डुरङ्गं शूलहस्तं कृपानिधिम् । सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ ५॥ माला कमण्डलुरधः करपद्मयुग्मे मध्यस्थपाणियुगले डमरुत्रिशूले । यन्न्यस्त ऊर्ध्वकरयोः शुभशङ्खचक्रे वन्दे तमत्रिवरदं भुजषट्क युक्तम् ॥ ६॥ इति श्रीदत्तात्रेयध्यानं सम्पूर्णम् ।