अक्षर आकार:

दत्तात्रेयभक्तिनिरूपणस्तोत्रम्

dattAtreyabhaktinirUpaNastotram

दत्तात्रेयभक्तिनिरूपणस्तोत्रम्

श्रीगणेशाय नमः ॥ प्रयतेः सुलभो भक्त्याऽयमात्मा पुरुषः परः । इति वेदादिनोक्तं तद्भक्तिर्मुख्याऽधुनोच्यते ॥ १॥ निर्विकल्पं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥ २॥ वशीकृते मनस्येषां सगुणव्रह्मशीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ॥ ३॥ इत्युक्तेर्नवधा भक्तिर्वाच्यात्र स्मरणात्मिका । श्रेष्ठार्थ्यान्यत्र च व्याप्ता हृच्छुद्ध्यास्य पदप्रदा ॥ ४॥ सहस्राङ्गात्मकर्माख्यभगवत्स्मरणात्सदा । कृतं कर्माप्यकर्मैव येनैष द्राग्विमुच्यते ॥ ५॥ कृत्वेश्वरे परां भक्तिं भगवत्कीर्तनादपि । सद्भक्तो मायिकं पाशं छित्त्वा याति स सद्गतिम् ॥ ६॥ तद्गुणश्रवणाच्चापि श्रद्धावानबहिर्मुखः । समाहितोऽनसूयुर्ना क्षिप्रं नैष्कर्म्यसिद्धिभाक् ॥ ७॥ वज्राङ्कुशध्वजाब्जाङ्कभगवत्पादसेवनात् । भित्त्वा मायावृतिं सत्त्वशुद्धो याति परं पदम् ॥ ८॥ जलेष्टास्रं कनिष्ठिक्या लिखित्वा तारमन्तरे । पत्रेष्वष्टाक्षरं चैकं हृत्स्थमावाह्य तत्र षट् ॥ ९॥ प्रदर्श्य मुद्रा ऋष्यादीन्स्मृत्वा विन्यस्य चोङ्कृतेः । मात्राः शाखाङ्गेषु भूखवाताग्न्यब्बीजतो हृदा ॥ १०॥ दत्त्वोपचारान् गन्धादीन् जपित्वाऽष्टसहस्रकम् । तर्पयित्वा चाष्टशतमृष्यादीनेकवारतः ॥ ११॥ पुनः सम्पूज्य विन्यस्य तं स्वात्मन्युद्वसेत्परम् । त्रिसन्ध्यमर्चनं त्वेवं यतेरन्यस्य चोच्यते ॥ १२॥ लब्ध्वा पूर्वं स्वगृह्योक्तं द्विजत्वं भक्तिमान्शुचिः । ज्ञात्वा धनर्णसिद्धारिचक्रसिद्धं मनुं गुरोः ॥ १३॥ लब्ध्वाऽर्णसङ्ख्यालक्षां प्राक् पुरश्चर्यां यथाविधि । कृत्वाऽनेनार्चयेदर्चां नियतो नित्यकर्मकृत् ॥ १४॥ लौहीं वा संस्कृतां शैलीं विभोः सास्त्रां सलक्षणाम् । सोऽपि लब्ध्वाखिलान्कामान् देहान्ते तन्मयो भवेत् ॥ १५॥ पुरा नारायणं ब्रह्मा सत्यक्षेत्रे दयानिधिम् । प्रणतोऽपृच्छदेकं किमुपास्यं दैवतं परम् ॥ १६॥ स प्राह मामकं धाम यद्दत्तात्रेयसंज्ञितम् । सदानन्दात्मकं शुद्धं सात्त्विकं तारकं परम् ॥ १७॥ विश्वरूपं जगद्योनिं तदेकोपास्स्व दैवतम् । लकारं वह्निसंयुक्तं सतुण्डाक्षरबिन्दुकम् ॥ १८॥ तदर्चने मनुं विद्धि छन्दो गायत्रिकास्य च । सदाशिवऋषिर्देवो दत्तात्रेयश्चतुर्भुजः ॥ १९॥ मनुरेकाक्षरोऽस्यायं जाप्यो गर्भादितारणः । तारः श्रीदुर्गा क्रों भूमिदत्तैकाक्षरयुङ्मनुः ॥ २०॥ षडक्षरो योगदोऽयं सर्वसम्पत्समृद्धिकृत् । ऋष्यादिः पूर्ववन्न्यासो बीजैः शाखाहृदादिषु ॥ २१॥ दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं विभुम् । आत्ममायारतं देवमवधूतं दिगम्बरम् ॥ २२॥ भस्मोद्धूलितसर्वाङ्गं जटाजूटधरं विभुम् । चतुर्बाहुमुदाराङ्गं प्रफुल्लकमलेक्षणम् ॥ २३॥ ज्ञानयोगनिधिं विश्वगुरुं योगिजनप्रियम् । भक्तानुकम्पिनं सर्वसाक्षिणं सिद्धसेवितम् ॥ २४॥ इत्यौपनिषदं दत्तं ध्यात्वैकाग्र्यं मनुं जपेत् । स वाञ्छितफलं भुक्त्वा परत्र श्रेय आप्नुयात् ॥ २५॥ सैकाक्षरं चतुर्थ्यन्तं दत्तात्रेयं नमोऽन्वितम् । अष्टार्णमन्त्रं गायत्रं विद्धि द्रां बीजमस्य तु ॥ २६॥ चतुर्थी कलिकं शक्तिर्नम आर्षः सदाशिवः । दत्तात्रेयपदस्यार्थः सत्यानन्दचिदात्मकः ॥ २७॥ प्रह्वीभावो नमोऽर्थस्तु पूर्णानन्दैकविग्रहः । तारं सबिन्दुं तुण्डार्णं दुर्गां क्रों तुर्यमेहि च ॥ २८॥ दत्तात्रेयेति सम्बुद्ध्या स्वाहान्तं द्वादशाक्षरम् । सर्वकामदुघं विद्धि गायत्रं भो शिवार्षकम् ॥ २९॥ वराभयदहस्तं यो भजेदाभ्यां महाव्रतः । सर्वान्कामानिहैवाप्त्वा सोऽमृतो भवति धुवम् ॥ ३०॥ ओं बीजं स्वाहात्र शक्तिः सम्बुद्धिः कलिकं क्रमात् । द्वाभ्यां हृदि च के द्वाभ्यां शिखायां क्रियया न्यसेत् ॥ ३१॥ सम्बुद्धिभ्यां स्कन्धचक्षुर्द्वयेऽस्त्रेऽन्त्येन तन्मयः । चतुर्बीजैः सक्रियाख्यान्त्याभ्यां करादिषु ॥ ३२॥ कृत्वा यजेद्देवदेवं यन्त्रन्यस्तमभीष्टदम् । दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक ॥ ३३॥ दिगम्बर मुने बाल पिशाचज्ञानसागर । आनुष्टुभः शिवार्षोऽयं षड्भुजात्रेयदैवतः ॥ ३४॥ द्वाभ्यां द्वाभ्यां हृच्छिरसोः शिखायामेकतो गले । द्वाभ्यामेकैकेन दोर्दृग्द्वये द्वाभ्यां तथास्त्रके ॥ ३५॥ विन्यस्य जपिता दोषमुक्ता सर्वोपकारकृत् । तारं वायुं क्लां कामं क्लं हां दुर्गा ह्रूं च विद्धि सौः ॥ ३६॥ दत्तात्रेयं चतुर्थ्यन्तं स्वाहान्तं षोडशाक्षरम् । वायुस्थाने तु वाग्बीजं नमोऽन्ते योजयाथवा ॥ ३७॥ स्वाहैकत्र नमोऽन्यत्र शक्तिर्बीजं च कीलकम् । तारश्चतुर्थी गायत्री मन्त्रराजः शिवोदितः ॥ ३८॥ हृदि द्वे के त्रीणि शिखायां चैकं कवचे दृशोः । चतुर्थीमन्त्यमस्त्रे च विन्यस्य जपकामदम् ॥ ३९॥ सच्चिदानन्दस्वरूपी सुखी मुक्तो भवत्यतः । सिद्धगन्धर्वादिसङ्गी लक्षजाप्यष्टसिद्धिभाक् ॥ ४०॥ त्रिदेवलोकसञ्चारी कोटिजापि च दत्तवत् । दशकोटिजपी साक्षाज्जरामरणवर्जितः ॥ ४१॥ द्व्यष्टकोटिजपी सिद्धः परकायगतादिकृत् । मन्त्रशक्तिरियं श्लोका अभिगीता इहाप्यमी ॥ ४२॥ खड्गस्तम्भो जलस्तम्भः सैनास्तम्भस्तथैव च । इच्छासिद्धिर्वशित्वं च दिक्पालैः सह भाषणम् ॥ ४३॥ वायुवद्गतिरित्याहुराह्लादित्वं च चन्द्रवत् । अग्निवत्सर्वभक्षत्वं नित्यतृप्तत्वमेव च ॥ ४४॥ सर्वभाषापरिज्ञानं सर्वचित्तावबोधनम् । वापीकूपसमुद्राणां पर्वतानां च चालनम् ॥ ४५॥ दत्तात्रेयमयः स्वच्छो भवेत्स व्यासवत्कविः । इतीदं षोडशार्णस्य माहात्म्यं तत्प्रयत्नतः ॥ ४६॥ प्राणो देयो मनश्चक्षुश्छित्त्वा देयं शिरो वपुः । न देयः षोडशार्णोऽसौ सच्छिष्याय महात्मने ॥ ४७॥ महागुणवते देयः कुप्येत प्रभुरन्यथा । मालाकमण्डलूवाद्यत्रिशूले शङ्खचक्रके ॥ ४८॥ दधानमत्रिवरदं दत्तात्रेयं त्र्यधीश्वरम् । ध्यात्वेत्थं विधिवन्मन्त्रजाप्युक्तफलभाग्भवेत् ॥ ४९॥ ओं नमो भगवान्दत्तात्रेयः स्मरणमात्रसन्तुष्टो महाभयनिवारणो महाज्ञानप्रदः ॥ ५०॥ चिदानन्दात्मा बालोन्मत्तपिशाचवेषो महायोग्यवधूतोऽनसूयानन्दवर्धनोऽत्रिपुत्रः ॥ ५१॥ अं भवबन्धविमोचनो ह्रीं सर्वभूतिदः क्रों असाध्याकर्षण ऐं वाक्प्रदः ॥ ५२॥ क्लीञ्जगत्त्रयवशीकरणः सौः सर्वमनःक्षोभणः श्रीम्महासम्पत्प्रदो ग्लौं भूमण्डलाधिपत्यप्रदः ॥ ५३॥ द्रां चिरजीवी वषड्वशीकुरु वौषडाकर्षय हुं विद्वेषय फड्डुच्चाटय ठः ठः ॥ ५४॥ स्तम्भय खें खें मारय नमः सम्पन्नय स्वाहा पोषय परमन्त्रपरयन्त्रपरतन्त्राणि ॥ ५५॥ छिन्धि ग्रहान्निवारय व्याधीन्विनाशय दुःखं हर दारिद्र्यं विद्रावय देहं पोषय ॥ ५६॥ चित्तं तोषय सर्वमन्त्रस्वरूपः सर्वतन्त्रस्त्ररूपः सर्वपल्लवस्वरूपः ॥ ५७॥ ॐ नमो महासिद्धः स्वाहान्तो मालामन्त्रः । प्रथमान्तां चतुर्थ्या द्विः क्रियाश्च व्याहरेत् ॥ ५८॥ विष्णुनोक्ता इमे मन्त्रा ब्रह्मणे कामधेनवः । प्रयोगग्रहभूतारिकुदृग्रुक्तापभीतिहाः ॥ ५९॥ कामिनोऽभीष्टफलदा देवसान्निध्यकारकाः । तद्वच्च वज्रकवचं दत्तनामसहस्रकम् ॥ ६०॥ एषामन्यतमेनेशं यो वैदिकविधानतः । उपास्ते चित्तशुद्ध्या स मुच्यतेऽत्र परत्र वा ॥ ६१॥ दत्तात्रेयनिवासं तदाचण्डालश्वगोखरम् । ब्रह्मादिस्तम्बपर्यन्तं समदृक् प्रणमेत्सुधीः ॥ ६२॥ चालको भासकोऽस्त्येषां सच्चिदात्मा स्वयम्प्रभः । अस्ति भाति प्रियत्वेन भगवानेव नापरः ॥ ६३॥ यथाधिपे वशा भृत्या निर्माना ईश्वरे तथा । विदध्यात्स्वामिनो दास्यं निरीहं द्वैतदर्शने ॥ ६४॥ सख्योः सख्यं यथा लोके निरीपेक्षं तथाऽऽत्मनः । परात्मनापि सततं समाधेः प्राक् प्रकल्पयेत् ॥ ६५॥ कर्तृत्वादि न मय्येके शुद्धे देहादिसाक्षिणि । इतीक्षणमसन्दिग्धं सर्वस्वात्मनिवेदनम् ॥ ६६॥ अतीत्य वरदेशादीन् काश्यां सन्तोष्य दीपकः । वेदधर्मगुरुं रुग्णं कष्टेन हि महामतिः ॥ ६७॥ श्रीदत्तलीलाश्रवणं नयाचे तुष्ट एव सः । गुरुः शिष्याय यत्प्राह मुक्त्यै तत्सार उच्यते ॥ ६८॥ इति श्रीदत्तात्रेयभक्तिनिरूपणस्तोत्रं सम्पूर्णम् ।