अक्षर आकार:

श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम् २

Shri Dattatreya Ashtottarashata Namastotram 2

श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम् २

अस्य श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य, ब्रह्मविष्णुमहेश्वरा ऋषयः । श्रीदत्तात्रेयो देवता । अनुष्टुप्छन्दः । श्रीदत्तात्रेयप्रीत्यर्थे नामपरायणे विनियोगः । ॐ द्रां द्रीं द्रूं द्रैं द्रौं द्रः । इति करहृदयादिन्यासौ । ध्यानम्- दिगम्बरं भस्मविलोपिताङ्गं चक्रं त्रिशूलं डमरुं गदां च । पद्माननं योगिमुनीन्द्र वन्द्यं ध्यायामि तं दत्तमभीष्टसिद्ध्यै ॥ लमित्यादि पञ्चपूजाः । ॐ अनसूयासुतो दत्तो ह्यत्रिपुत्रो महामुनिः । योगीन्द्रः पुण्यपुरुषो देवेशो जगदीश्वरः ॥ १॥ परमात्मा परं ब्रह्म सदानन्दो जगद्गुरुः । नित्यतृप्तो निर्विकारो निर्विकल्पो निरञ्जनः ॥ २॥ गुणात्मको गुणातीतो ब्रह्मविष्णुशिवात्मकः । नानारूपधरो नित्यः शान्तो दान्तः कृपानिधिः ॥ ३॥ भक्तप्रियो भवहरो भगवान्भवनाशनः । आदिदेवो महादेवः सर्वेशो भुवनेश्वरः ॥ ४॥ वेदान्तवेद्यो वरदो विश्वरूपोऽव्ययो हरिः । सच्चिदानन्दः सर्वेशो योगीशो भक्तवत्सलः ॥ ५॥ दिगम्बरो दिव्यमूतिर्दिव्यभूतिविभूषणः । अनादिसिद्धः सुलभो भक्तवाच्छितदायकः ॥ ६॥ एकोऽनेको ह्यद्वितीयो निगमागमपण्डितः । भुक्तिमुक्तिप्रदाता च कार्तवीर्यवरप्रदः ॥ ७॥ शाश्वताङ्गो विशुद्धात्मा विश्वात्मा विश्वतो मुखः । सर्वेश्वरः सदातुष्टः सर्वमङ्गलदायकः ॥ ८॥ निष्कलङ्को निराभासो निर्विकल्पो निराश्रयः । पुरुषोत्तमो लोकनाथः पुराणपुरुषोऽनघः ॥ ९॥ अपारमहिमाऽनन्तो ह्याद्यन्तरहिताकृतिः । संसारवनदावाग्निर्भवसागरतारकः ॥ १०॥ श्रीनिवासो विशालाक्षः क्षीराब्धिशयनोऽच्युतः । सर्वपापक्षयकरस्तापत्रयनिवारणः ॥ ११॥ लोकेशः सर्वभूतेशो व्यापकः करुणामयः । ब्रह्मादिवन्दितपदो मुनिवन्द्यः स्तुतिप्रियः ॥ १२॥ नामरूपक्रियातीतो निःस्पृहो निर्मलात्मकः । मायाधीशो महात्मा च महादेवो महेश्वरः ॥ १३॥ व्याघ्नचर्माम्बरधरो नागकुण्डभूषणः । सर्वलक्षणसम्पूर्णः सर्वसिद्धिप्रदायकः ॥ १४॥ सर्वज्ञः करुणासिन्धुः सर्पहारः सदाशिवः । सह्याद्रिवासः सर्वात्मा भवबन्धविमोचनः ॥ १५॥ विश्वम्भरो विश्वनाथो जगन्नाथो जगत्प्रभुः । नित्यं पठति यो भक्त्या सर्वपापैः प्रमुच्यते ॥ १६॥ सर्वदुःखप्रशमनं सर्वारिष्टनिवारणम् । भोगमोक्षप्रदं नृणां दत्तसायुज्यदायकम् ॥ १७॥ पठन्ति ये प्रयत्नेन सत्यं सत्यं वदाम्यहम् । इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम् । इति श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रं (२) सम्पूर्णम् ।