अक्षर आकार:

श्रीदत्तात्रेयाष्टोत्तरशतनामावलिः २

Shri Dattatreya Ashtottarashata Namavali 2

श्रीदत्तात्रेयाष्टोत्तरशतनामावलिः २

ॐ अनसूयासुताय नमः । दत्ताय । अत्रिपुत्राय । महामुनये । योगीन्द्राय । पुण्यपुरुषाय । देवेशाय । जगदीश्वराय । परमात्मने । परस्मै ब्रह्मणे । सदानन्दाय । जगद्गुरवे । नित्यतृप्ताय । निर्विकाराय । निर्विकल्पाय । निरञ्जनाय । गुणात्मकाय । गुणातीताय । ब्रह्मविष्णुशिवात्मकाय । नानारूपधराय नमः । (२०) ॐ नित्याय नमः । शान्ताय । दान्ताय । कृपानिधये । भक्तिप्रियाय । भवहराय । भगवते । भवनाशनाय । आदिदेवाय । महादेवाय । सर्वेशाय । भुवनेश्वराय । वेदान्तवेद्याय । वरदाय । विश्वरूपाय । अव्ययाय । हरये । सच्चिदानन्दाय । सर्वेशाय । योगीशाय नमः । (४०) ॐ भक्तवत्सलाय नमः । दिगम्बराय । दिव्यमूर्तये । दिव्यविभूतिविभूषणाय । अनादिसिद्धाय । सुलभाय । भक्तवाञ्छितदायकाय । एकाय । अनेकाय । अद्वितीयाय । निगमागमपण्डिताय । भुक्तिमुक्तिप्रदात्रे । कार्तवीर्यवरप्रदाय । शाश्वताङ्गाय । विशुद्धात्मने । विश्वात्मने । विश्वतोमुखाय । सर्वेश्वराय । सदातुष्टाय । सर्वमङ्गलदायकाय नमः । (६०) ॐ निष्कलङ्काय नमः । निराभासाय । निर्विकल्पाय । निराश्रयाय । पुरुषोत्तमाय । लोकनाथाय । पुराणपुरुषाय । अनघाय । अपारमहिम्ने । अनन्ताय । आद्यन्तरहिताकृतये । संसारवनदानाग्नये । भवसागरतारकाय । श्रीनिवासाय । विशालाक्षाय । क्षीराब्धिशयनाय । अच्युताय । सर्वपापक्षयकराय । तापत्रयनिवारणाय । लोकेशाय नमः । (८०) ॐ सर्वभूतेशाय नमः । व्यापकाय । करुणामयाय । ब्रह्मादिवन्दितपदाय । मुनिवन्द्याय । स्तुतिप्रियाय । नामरूपक्रियातीताय । निःस्पृहाय । निर्मलात्मकाय । मायाधीशाय । महात्मने । महादेवाय । महेश्वराय । व्याघ्रचर्माम्बरधराय । नागकुण्डलभूषणाय । सर्वज्ञाय । करुणासिन्धवे । सर्पहाराय नमः । (१००) ॐ सदाशिवाय नमः । सह्याद्रिवासाय । सर्वात्मने । भवबन्धविमोचनाय । विश्वम्भराय । विश्वनाथाय । जगन्नाथाय । जगत्प्रभवे नमः । (१०८) इति श्रीदत्तात्रेयाष्टोत्तरशतनामावलिः समाप्ता ।