अक्षर आकार:

दत्तात्मपूजास्तोत्रम्

dattAtmapUjAstotram

दत्तात्मपूजास्तोत्रम्

श्रीगणेशाय नमः ॥ अजितामृत योगनिद्रिताच्युत शक्तेः स्वकृतातिमोहित । द्युमुखे श्रुतिबन्दिगीततो भगवञ्जागृहि जागृहि त्र्यधीट् ॥ १॥ अथ ध्यानम् । यतोऽस्य जनताद्यज स्ववशमाय आद्यो विभुः स्वराट् सकलविद्गुरुः स सुखसच्चिदात्मा प्रभुः । असंसृतिरूप उज्झितमलोऽमुमैक्याप्तये निवर्त्य नयनं निषेधविधिवाक्यतश्चिन्तये ॥ २॥ कार्याक्षमान्वीक्ष्य पृथग्युतान्वा योऽनुप्रविश्यापि विभुर्निजांशात् । निन्ये प्रभुत्वं हि महन्मखांस्तमुपाह्वये त्रीशमवन्यचित्तः ॥ ३॥ अनोजज्जवीयो हृदोऽप्याप्नुवन्नो सुराः पूर्वमर्शत्पराञ्चोऽपि तिष्ठत् । परान्धावतोऽत्येति यद्व्यसनं ते त्र्यधीशाऽर्पितं चित्तमस्तान्यवृत्ति ॥ ४॥ राहोः शीर्षादौपचारिकभिदा विष्णो पदं त्रीश ते प्रत्यक्त्वाच्च निसर्गशुद्धमपि सन् मायांशतोऽशुद्धवत् । भातं मूढधिया तदर्थममलं ज्ञानामृतं यत्नतो ध्यामत्रेऽत्र हिरण्मये विनिहितं पाद्यं गृहाणात्मभ ॥ ५॥ देवाचार्यप्रसादप्रजनितसुरसम्पत्तिसद्रत्नजात- श्रेण्याढ्ये मञ्जुलेऽस्मिन्नतितरविमले भाजने वै विशाले । धृतभजनजलाद्वेष्टृताद्यर्थजाले स्वर्घ्यं सम्पादितं ते त्र्यधिप परम भोः स्वीकुरुष्वाप्तकाम ॥ ६॥ विधिवच्छ्रवणादि यत्कृतं ते त्र्यधिपा भव मे प्रसीद शम्भो । द्विदविधावरणाम्बु तेऽर्पितं सत्कृपयाऽऽचमनं कुरुष्व तेन ॥ ७॥ प्रवचनादिसुदुर्लभता श्रुतेस्त्र्यधिपते त इह श्रुतिविश्रुते । परमभक्तिसुशीतलसज्जलं वपुषि सिक्तमथाप्लुतयेऽस्त्वलम् ॥ ८॥ यत्किञ्चिज्जगति त्रीश तत्त्वयाऽऽवास्यमीश ते । वस्त्रत्वेनार्पितं तेन परानन्दार्हतास्तु मे ॥ ९॥ यद्ब्रह्मसूत्रं त्रिवृतं कृत्वा समन्त्रं त्रिप सस्वन्त्रम् । दत्तं सुमित्रं भजते न चात्र सन्त्रसुपात्रं कुरुमाऽन्यतन्त्रम् ॥ १०॥ आह्लादनं चन्दनमुच्यते तत्सत्यर्तरूपं न ततः परं ते । प्रेष्ठं त्र्यधीशागुण तेन नूनमालेपनं ते प्रकरोमि भक्त्या ॥ ११॥ भगवंस्त्र्यधिप प्रददामि मुदे सुमनः सुमनः सकलार्थविदे । खलु तुभ्यममूल्यमघौघभिदे सुमनः सुमनस्कमनन्यहृदे ॥ १२॥ योगानलेऽत्र बलदर्पपरिग्रहाहङ्काराभिलाषममताप्रतिघांश्च दग्ध्वा । धूपोऽयमुत्तमतमोऽर्पित आर्यशान्तिद्वारा त्र्यधीश पदपर्यवसाय्यसौ ते ॥ १३॥ सोऽहम्भावप्रोज्वलज्ज्ञानदीपो मूलाज्ञानध्वान्तसम्पातहृत्यै । स्थेयान्भास्वाँश्छाश्वतस्त्रीश तुभ्यं स्वात्मज्योतिर्दत्त एतं गृहाण ॥ १४॥ यस्य ब्रह्मक्षत्रे मित्रे ग्रासो मृत्युर्लेह्यं पेयम् । क्वान्वेष्टव्यं तस्मै कस्मै नैवेद्यार्थं दत्तं द्वैतम् ॥ १५॥ त्रीश तेऽद्य परभक्तिवीटिका पञ्चमैकपुरुषार्थसाधिका । निर्विकल्पकसमाधितः पुरा रञ्जिकाऽस्तु भवभञ्जिका वरा ॥ १६॥ त्वं त्रीशाहमहं त्वमित्यवगते स्थेम्ने निदिध्यासना- त्मानस्ते परिदक्षिणा हि विहिता यद्यच्च मे क्रीडितम् । तद्ब्रह्मास्तु चिदन्वयेक्षितुरथो त्वानुस्मरन् व्याहरे- त्तारं तारकमेकमात्मनि यथा शार्दूलविक्रीडितम् ॥ १७॥ असकृदभिहिता तेऽनेकजन्माप्तपुण्यैः प्रणतिविततिरेषा द्वैतशेषा विशेषा । त्वयि विनिहितमेतन्मेज्ञ सर्वं स्वकीयं त्र्यधिप जयतु पूजा त्वद्यशोमालिनीयम् ॥ १८॥ यन्मे न्यूनं सम्मतं स्थूलदृष्ट्या भूमन् तेऽनुक्रोशपीयूषवृष्ट्या । नित्यं प्रेयः स्वप्रभं शालिनीयं तस्याभूत्सम्पूर्णता शालिनीयम् ॥ १९॥ रोधनं द्व्यात्मनः शोधनं द्व्यात्मनः पूजनं त्र्यात्मनो भोजनं स्वात्मनः । यत्र सैषाऽऽत्मपूजाऽस्तु कण्ठे सतां स्रग्विणी मा परा स्त्रीव कण्ठे सताम् ॥ २०॥ इति श्रीमद्वासुदेवानन्दसरस्वतीविरचिताऽऽत्मपूजास्तोत्रं सम्पूर्णम् ।