अक्षर आकार:

श्रीदत्तात्रेयापराधक्षमापणस्तोत्रम् २

shrIDattatreya aparAdhakShamApaNastotram 2

श्रीदत्तात्रेयापराधक्षमापणस्तोत्रम् २

रसज्ञावशातारकं स्वादुलभ्यम् गृहीतं कदाचिन्न ते नाम दत्त । क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ १॥ वियोन्यन्तरे दैवदार्ढ्या विभोप्राग् गृहीतं कदाचिन्न ते नाम दत्त । क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ २॥ मया मातृगर्भस्थितिप्राप्तकष्टात् गृहीतं कदाचिन्न ते नाम दत्त । क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ३॥ मया जातमात्रेण संमोहितेन गृहीतं कदाचिन्न ते नाम दत्त । क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ४॥ मया क्रीडनासक्तचित्तेन बाल्ये गृहीतं कदाचिन्न ते नाम दत्त । क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ५॥ मया यौवनेऽज्ञानतो भोगतोषाद् गृहीतं कदाचिन्न ते नाम दत्त । क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ६॥ मया स्थाविरेनिघ्नसर्वेन्द्रियेण गृहीतं कदाचिन्न ते नाम दत्त । क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ७॥ हृषीकेश मे वाङ्मनःकायजातम् हरेज्ञानतोऽज्ञानतो विश्वसाक्षिन् । क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ८॥ स्मृतो ध्यात आवाहितोऽस्यर्चितो वा न गीतः स्तुतो वन्दितो वा न जप्तः । क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ९॥ दयाब्धिर्भवाद्दङ्न सागाश्च मादृग् भवत्यात्पमन्तोर्भवान्मे शरण्यः । यथालम्बनं भूर्हि भूनिःसृतांघ्रे रिति प्रार्थितं दत्तशिष्येण सारम् ॥ १०॥ ॥ इति परमपूज्य श्रीमद् वासुदेवानन्दसरस्वती स्वामीमहाराजकृत अपराधक्षमापन स्तोत्रं सम्पूर्णम् ॥