अक्षर आकार:

श्रीदत्तात्रेय अष्टचक्रबीजस्तोत्रम्

Dattatreya aShTachakrabIjastotram

श्रीदत्तात्रेय अष्टचक्रबीजस्तोत्रम्

दिगंबरं भस्मसुगन्धलेपनं चक्रं त्रिशूलं डमरुं गदां च । पद्मासनस्थं ऋषिदेववन्दितं दत्तात्रेयध्यानमभीष्टसिद्धिदम् ॥ १॥ मूलाधारे वारिजपद्मे सचतुष्के वंशंषंसं वर्णविशालैः सुविशालैः । रक्तं वर्णं श्रीभगवतं गणनाथं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ २॥ स्वाधिष्ठाने षट्दलपद्मे तनुलिंगे बालान्तैस्तद्वर्णविशालैः सुविशालैः । पीतं वर्णं वाक्पतिरूपं द्रुहिणं तं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ३॥ नाभौ पद्मे पत्रदशांके डफवर्णे लक्ष्मीकान्तं गरूढारूढं मणिपूरे । नीलवर्णं निर्गुणरूपं निगमाक्षं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ४॥ हृत्पद्मांते द्वादशपत्रे कठवर्णे अनाहतांते वृषभारूढं शिवरूपम् । सर्गस्थित्यंतां कुर्वाणं धवलांगं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ५ ॥ कंठस्थाने चक्रविशुद्धे कमलान्ते चंद्राकारे षोडशपत्रे स्वरवर्णे मायाधीशं जीवशिवं तं भगवंतं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ६॥ आज्ञाचक्रे भृकुटिस्थाने द्विदलान्ते हं क्षं बीजं ज्ञानसमुद्रं गुरूमूर्तिं विद्युत्वर्णं ज्ञानमयं तं निटिलाक्षं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ७॥ मूर्ध्निस्थाने वारिजपद्मे शशिबीजं शुभ्रं वर्णं पत्रसहस्रे ललनाख्ये हं बीजाख्यं वर्णसहस्रं तूर्यांतं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ८॥ ब्रह्मानन्दं ब्रह्ममुकुन्दं भगवन्तं ब्रह्मज्ञानं ज्ञानमयं तं स्वयमेव परमात्मानं ब्रह्ममुनीद्रं भसिताङ्गं दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ९॥ इति श्रीमद्शङ्कराचार्यविरचितं श्रीदत्तात्रेय अष्टचक्रबीजस्तोत्रं सम्पूर्णम् ।