अक्षर आकार:

श्रीदण्डपाण्यष्टकम् अथवा श्रीयक्षराजाष्टकम्

Shri Dandapani or Yaksharaja Ashtakam

श्रीदण्डपाण्यष्टकम् अथवा श्रीयक्षराजाष्टकम्

रत्नगर्भाङ्गजोद्भूत पूर्णभद्रसुशोत्तम । निर्विघ्नं कुरु मे यक्ष काशीवासं शिवाप्तये ॥ १॥ धन्यो यक्षः पूर्णभद्रो धन्या काञ्चनकुण्डला । ययोर्जठरपीठेऽभूर्दण्डपाणे महामते ॥ २॥ जय यक्षपते धीर! जय पिङ्गललोचन । जय पिङ्गजटाभार जय दण्डमहायुध ॥ ३॥ अविमुक्तमहाक्षेत्रसूत्रधारोग्रतापस । दण्डनायक भीमास्य जय विश्वेश्वरप्रिय ॥ ४॥ सौम्यानां सौम्यवदन भीषणानां भयानक । क्षेत्रपापधियां काल महाकाल महाप्रिय ॥ ५॥ जय प्राणद यक्षेन्द्र काशीवासान्न मोक्षद । महारत्नस्फुरद्रश्मिचयचर्चितविग्रह ॥ ६॥ महासम्भ्रान्तिजनक महोद्भान्तिप्रदायक । अभक्तानां च भक्तानां सम्भ्रान्त्युद्भ्रान्तिनाशक ॥ ७॥ प्रान्तनेपथ्यचतुर जयज्ञाननिधिप्रद । जयगौरीपदाब्जाले मोक्षेक्षणविचक्षण ॥ ८॥ यक्षराजाष्टकं पुण्यमिदं नित्यं त्रिकालतः । जपामि मैत्रावरुणे वाराणस्याप्तिकारणम् ॥ ९॥ दण्डपाण्यष्टकं धीमान् जपन्विघ्नैर्नजातुचित् । श्रद्धया परिभूयेत काशीवासफलं लभेत् ॥ १०॥ प्रादुर्भावं दण्डपाणेः श‍ृण्वन् स्तोत्रमिदं गृणन् । विपत्तिमन्यतः प्राप्य काशीं जन्मान्तरे लभेत् ॥ ११॥ इति श्रीस्कन्दप्रणीतम् श्रीदण्डपाण्यष्टकं अथवा श्रीयक्षरजाष्टकं सम्पूर्णम् ।