अक्षर आकार:

चित्रकूट मङ्गलानुशासनम्

chitrakUTa mangalAnushAsanam

चित्रकूट मङ्गलानुशासनम्

शरणागतसन्त्राणनिपुणाय महात्मने । अयोध्याजनभाग्याय रामचन्द्राय मङ्गलम् ॥ १॥ कौसल्यानन्दकन्दाय कल्याणगुणसिन्धवे । शरण्याय वरेण्याय रामभद्राय मङ्गलम् ॥ २॥ कौशिकाख्यमहायोगिसन्देशसफलीकृते । कृतिने नातितुष्टाय रामभद्राय मङ्गलम् ॥ ३॥ वैदेहीवदनाम्भोजलोलम्बायितचेतसे । भद्राणामपि भद्राय रामभद्राय मङ्गलम् ॥ ४॥ गौतमाश्रमसाफल्यनिदानपदपांसवे । दाशकीशादिमित्राय रामभद्राय मङ्गलम् ॥ ५॥ महापातकनिर्मुक्तिहेतुसेतुविधायिने । शिक्षितासुरजालाय रामभद्राय मङ्गलम् ॥ ६॥ विभीषणपरित्राणसंहृष्टमनसेविताम् । प्राप्तसीताय रामय रामभद्राय मङ्गलम् ॥ ७॥ इति चित्रकूट मङ्गलानुशासनं सम्पूर्णम् ।