अक्षर आकार:

चिन्तामणिपार्श्वनाथस्तवनम्

Chintamani Parshvanatha Stavanam

चिन्तामणिपार्श्वनाथस्तवनम्

श्रीशारदाऽऽधारमुखारविन्दं सदाऽनवद्यं नतमौलिपादम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ १॥ निराकृतारातिकृतान्तसङ्गं सन्मण्डलीमण्डितसुन्दराङ्गम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ २॥ शशिप्रभारीतियशोनिवासं समाधिसाम्राज्यसुखावभासम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ३॥ अनल्पकल्याणसुधाब्धिचन्द्रं सभावलीसूनसुभावकेन्द्रम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ४॥ कराकल्पान्तनिवारकारं कारुण्यपुण्याकरशान्तिसारम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ५॥ वाणीरसोल्लासकरीरभूतं निरञ्जनाऽलङ्कृतमुक्तिकान्तम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ६॥ क्रूरोपसर्गं परिहतु मेकं वाञ्छाविधानं विगताऽपसङ्गम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ७॥ निरामयं निर्जितवीरमारं जगद्धितं कृष्णापुरावतारम् । चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ८॥ अविरलकविलक्ष्मीसेनशिष्येन लक्ष्मी- विभरणगुणपूतं सोमसेनेन गीतम् । पठति विगतकामः पार्श्वनाथस्तवं यः सुकृतपदनिधानं स प्रयाति प्रधानम् ॥ ९॥ इति सोमसेनविरचितं चिन्तामणिपार्श्वनाथस्तवनं अष्टकं च सम्पूर्णम् ।