अक्षर आकार:

श्रीचन्द्रशेखरेन्द्रसरस्वतीस्तुती

shrI chandrashekharendrasarasvatI stuti

श्रीचन्द्रशेखरेन्द्रसरस्वतीस्तुती

श्रुतिस्मृतिपुराणोक्तधर्ममार्गरतं गुरुम् । भक्तानां हितवक्तारं नमस्ते चित्तशुद्धये ॥ १॥ अद्वैतानन्दभरितं साधूनामुपकारिणम् । सर्वशास्त्रविदं शान्तं नमस्ते चित्तशुद्धये ॥ २॥ धर्मभक्तिज्ञानमार्गप्रचारे बद्धकङ्कणम् । अनुग्रहप्रदातारं नमस्ते चित्तशुद्धये ॥ ३॥ भगवत्पादपादाब्जविनिवेशितचेतसः । श्रीचन्द्रशेखरगुरोः प्रसादो मयि जायताम् ॥ ४॥ क्षेत्रतीर्थकथाभिज्ञः सच्चिदानन्दविग्रहः । चन्द्रशेखरवर्यो मे सन्निधत्ता सदा हृदि ॥ ५॥ पोषणे वेदशास्त्राणां दत्तचित्तमहर्निशम् । क्षेत्रयात्रारतं वन्दे सद्गुरुं चन्द्रशेखरम् ॥ ६॥ वेदज्ञान् वेदभाष्यज्ञान् कर्तुं यस्य समुद्यमः । गुरुर्यस्य महादेवः तं वन्दे चन्द्रशेखरम् ॥ ७॥ मणिवाचकगोदादि भक्तिवागमृतैर्भृशम् । बालानां भगवद्भक्तिं वर्धयंतं गुरुं भजे ॥ ८॥ लघूपदेशैर्नास्तिक्यभावमर्दन कोविदम् । शिवं स्मितमुखं शान्तं प्रणतोऽस्मि जगद्गुरुम् ॥ ९॥ विनयेन प्रार्थयेऽहं विद्यां बोधय मे गुरो । मार्गमन्यं न जानेऽहं भवन्तं शरणं गतः ॥ १०॥ इति श्री विजयेन्द्रसरस्वति रचितम् श्री चन्द्रशेखरेन्द्र सरस्वती स्तुति सम्पूर्णम्॥ The phrase vedaj~nAn vedabhAShyaj~nAn says that he turned people who (merely) knew Vedas (by recitation) into ones who knew the commentary, thus developed understanding of what they recited. AS.