अक्षर आकार:

श्रीमहास्वामि अष्टोत्तरशतनामावलिः

shrImahAsvAmi aShTottarashatanAmAvaliH

श्रीमहास्वामि अष्टोत्तरशतनामावलिः

श्रीकाञ्चीकामकोटिपीठाधिपति जगद्गुरु श्रीमच्चन्द्रशेखरेन्द्रसरस्वती महास्वमि श्रीचरणारविन्द अष्टोत्तरशतनामावलिः (श्री मठ पाठ) श्रीचन्द्रशेखरेन्द्रास्मदाचार्याय नमो नमः । श्रीचन्द्रमौलिपादाब्जमधुपाय नमो नमः । आचार्यपादाधिष्ठानाभिषिक्ताय नमो नमः । सर्वज्ञाचार्यभगवत्स्वरूपाय नमो नमः । अष्टाङ्गयोगिसन्निष्ठागरिष्ठाय नमो नमः । ५ सनकादि महायोगिसदृशाय नमो नमः । महादेवेन्द्रहस्ताब्जसञ्जाताय नमो नमः । महायोगिविनिर्भेध्यमहत्वाय नमो नमः । कामकोटि महापीठाधीश्वराय नमो नमः । कलिदोषनिवृत्त्येककारणाय नमो नमः । १० श्रीशङ्करपदाम्भोजचिन्तनाय नमो नमः । भारतीकृतजिह्वाग्रनर्तनाय नमो नमः । करुणारसकल्लोलकटाक्षाय नमो नमः । कान्तिनिर्जितसुर्येन्दुकम्राभाय नमो नमः । अमन्दानन्दकृन्मन्दगमनाय नमो नमः । १५ अद्वैतानन्दभरितचिद्रूपाय नमो नमः । कटितटलसच्चारुकाषायाय नमो नमः । कटाक्षमात्रमोक्षेच्छाजनकाय नमो नमः । बाहुदण्डलसद्वेणुदण्डकाय नमो नमः । फालभागलसद्भूतिपुण्ड्रकाय नमो नमः । २० दरहासस्फुरद्दिव्यमुखाब्जाय नमो नमः । सुधामधुरिमामञ्जुभाषणाय नमो नमः । तपनीयतिरस्कारिशरीराय नमो नमः । तपः प्रभाविराजत्सन्नेत्रकाय नमो नमः । सङ्गीतानन्दसन्दोहसर्वस्वाय नमो नमः । २५ संसाराम्बुधिनिर्मग्नतारकाय नमो नमः । मस्तकोल्लासिरुद्राक्षमकुटाय नमो नमः । साक्षात्परशिवामोघदर्शनाय नमो नमः । चक्षुर्गतमहातेजोऽत्युज्ज्वलाय नमो नमः । साक्षात्कृतजगन्मातृस्वरूपाय नमो नमः । ३० क्वचिद्बालजनात्यन्तसुलभाय नमो नमः । क्वचिन्महाजनातीवदुष्प्रापाय नमो नमः । गोब्राह्मणहितासक्तमानसाय नमो नमः । गुरुमण्डलसम्भाव्यविदेहाय नमो नमः । भावनामात्रसन्तुष्टहृदयाय नमो नमः । ३५ भव्यातिभव्यदिव्यश्रीपदाब्जाय नमो नमः । व्यक्ताव्यक्ततरानेकचित्कलाय नमो नमः । रक्तशुक्लप्रभामिश्रपादुकाय नमो नमः । भक्तमानसराजीवभवनाय नमो नमः । भक्तलोचनराजीवभास्कराय नमो नमः । ४० भक्तकामलताकल्पपादपाय नमो नमः । भुक्तिमुक्तिप्रदानेकशक्तिदाय नमो नमः । शरणागतदीनार्तरक्षकाय नमो नमः । शमादिषट्कसम्पत्प्रदायकाय नमो नमः । सर्वदा सर्वथा लोकसौख्यदाय नमो नमः । ४५ सदा नवनवाकाङ्क्ष्यदर्शनाय नमो नमः । सर्वहृत्पद्मसञ्चारनिपुणाय नमो नमः । सर्वेङ्गितपरिज्ञानसमर्थाय नमो नमः । स्वप्नदर्शनभक्तेष्टसिद्धिदाय नमो नमः । सर्ववस्तुविभाव्यात्मसद्रूपाय नमो नमः । ५० दीनभक्तावनैकान्तदीक्षिताय नमो नमः । ज्ञानयोगबलैश्वर्यमानिताय नमो नमः । भावमाधुर्यकलिताभयदाय नमो नमः । सर्वभूतगणामेयसौहार्दाय नमो नमः । मूकीभूतानेकलोकवाक्प्रदाय नमो नमः । ५५ शीतलीकृतहृत्तापसेवकाय नमो नमः । भोगमोक्षप्रदानेकयोगज्ञाय नमो नमः । शीघ्रसिद्धिकरानेकशिक्षणाय नमो नमः । अमानित्वादिमुख्यार्थसिद्धिदाय नमो नमः । अखण्डैकरसानन्दप्रबोधाय नमो नमः । ६० नित्यानित्यविवेकप्रदायकाय नमो नमः । प्रत्येकगरसाखण्डचित्सुखाय नमो नमः । इहामुत्रार्थवैराग्यसिद्धिदाय नमो नमः । महामोहनिवृत्त्यर्थमन्त्रदाय नमो नमः । क्षेत्रक्षेत्रज्ञप्रत्येकदृष्टिदाय नमो नमः । ६५ क्षयवृद्धिविहीनात्मसौख्यदाय नमो नमः । तूलाज्ञानविहीनात्मतृप्तिदाय नमो नमः । मूलाज्ञानबाधितात्ममुक्तिदाय नमो नमः । भ्रान्तिमेघोच्चाटनप्रभञ्जनाय नमो नमः । शान्तिवृष्टिप्रदामोघजलदाय नमो नमः । ७० एककालकृतानेकदर्शनाय नमो नमः । एकान्तभक्तसंवेद्यस्वगताय नमो नमः । श्रीचक्ररथनिर्माणसुप्रथाय नमो नमः । श्रीकल्याणकरामेयसुश्लोकाय नमो नमः । आश्रिताश्रयणीयत्वप्रापकाय नमो नमः । ७५ अखिलाण्डेश्वरीकर्णभूषकाय नमो नमः । सशिष्यगणयात्राविधायकाय नमो नमः । साधुसङ्घनुतामेयचरणाय नमो नमः । अभिन्नात्मैक्यविज्ञानप्रबोधाय नमो नमः । भिन्नाभिन्नमतैश्चापि पूजिताय नमो नमः । ८० तत्तद्विपाकसद्बोधदायकाय नमो नमः । तत्तद्भाषाप्रकटितस्वगीताय नमो नमः । तत्र तत्र कृतानेकसत्कार्याय नमो नमः । चित्र चित्रप्रभावप्रसिद्धिकाय नमो नमः । लोकानुग्रहकृत्कर्मनिष्ठिताय नमो नमः । ८५ लोकोद्धृतिमहद्भूरिनियमाय नमो नमः । सर्ववेदान्तसिद्धान्तसम्मताय नमो नमः । कर्मब्रह्मात्मकरणमर्मज्ञाय नमो नमः । वर्णाश्रमसदाचाररक्षकाय नमो नमः । धर्मार्थकाममोक्षप्रदायकाय नमो नमः । ९० पदवाक्यप्रमाणादिपारीणाय नमो नमः । पादमूलनतानेकपण्डिताय नमो नमः । वेदशास्त्रार्थसद्गोष्ठीविलासाय नमो नमः । वेदशास्त्रपुराणादिविचाराय नमो नमः । वेदवेदाङ्गतत्त्वप्रबोधकाय नमो नमः । ९५ वेदमार्गप्रमाणप्रख्यापकाय नमो नमः । निर्णिद्रतेजोविजितनिद्राढ्याय नमो नमः । निरन्तरमहानन्दसम्पूर्णाय नमो नमः । स्वभावमधुरोदारगाम्भीर्याय नमो नमः । सहजानन्दसम्पूर्णसागराय नमो नमः । १०० नादबिन्दुकलातीतवैभवाय नमो नमः । वादभेदविहीनात्मबोधकाय नमो नमः । द्वादशान्तमहापीठनिषण्णाय नमो नमः । देशकालापरिच्छिन्नदृग्रूपाय नमो नमः । निर्मानशान्तिमहितनिश्चलाय नमो नमः । १०५ निर्लक्ष्यलक्ष्यसंलक्ष्यनिर्लेपाय नमो नमः । श्रीषोडशान्तकमलसुस्थिताय नमो नमः । श्रीचन्द्रशेखरेन्द्रश्रीसरस्वत्यै नमो नमः । १०८ Ravi Venkatraman,