अक्षर आकार:

श्रीचन्द्रशेखरेन्द्रसरस्वतीदशकम्

Shri Chandrashekharendrasarasvati Dashaka

श्रीचन्द्रशेखरेन्द्रसरस्वतीदशकम्

काञ्चीकामकोटिपीठाधीशश्रीचन्द्रशेखरेन्द्रसरस्वतीदशकम् । अथवा काञ्ची पेरियवा दशकस्तोत्रम् । नमस्ते लोकगुरवे काञ्चीपीठाधिपाय च । दिव्यज्ञानस्वरूपाय वराभयकराय च ॥ १॥ शिवप्रकाशरूपाय लोकानां पापहारिणे । सकृत्कटाक्षपातेन सर्वाशुभहृते नमः ॥२॥ बुद्धिमत्सु वरिष्ठाय ज्योतिस्तेजोमयाय च । नमः सङ्कटनाशाय नमो मोक्षप्रदाय च ॥ ३॥ आपद्बान्धवरूपाय अनाथरक्षकाय च । नमः प्रत्यक्षदेवाय शोकमोहविनाशिने ॥ ४॥ परमाचार्यदेवाय सर्वदारिद्र्यनाशिने । चन्द्रमौलीशकामाक्षीप्रियभक्ताय ते नमः॥ ५॥ आर्तानामार्तिहन्त्रे च भीतानां भीतिनाशिने । संसारार्णवपोताय श्रीजगद्गुरवे नमः ॥ ६॥ भक्तानां मुक्तिदात्रे च नमः शङ्करमूर्तये । अपारकरुणामूर्ते परमात्मन् नमोऽस्तु ते ॥ ७॥ वेदवेदान्तविज्ञाय विद्वज्जनहिताय च । सर्वेश्वर नमस्तुभ्यं सर्ववेदज्ञमूर्तये ॥ ८॥ श्रीचन्द्रशेखरेन्द्राय यतये ते नमो नमः । सर्वसौभाग्यदात्रे च श्रीकाञ्चीगुरवे नमः ॥ ९॥ कैवल्यनवनीताय सत्यसंरक्षकाय च । श्रीकाञ्चीकामकोट्याख्यपीठाधीशाय ते नमः ॥ १०॥ फलश्रुतिः । सद्गुरोर्दशकस्तोत्रं यः पठेद्भक्तिपूर्वकम् । सर्वाभीष्टान् प्रपद्येत अष्टसिद्धीस्तथैव च ॥ प्रातःकाले पठेन्नित्यं रोगशोकप्रशान्तये । एककालं पठेन्नित्यं पापशत्रुविनाशनम् ॥ द्विवारं यः पठेन्नित्यं आयुरारोग्यवर्धनम् । त्रिवारं यः पठेन्नित्यं सर्वकार्येषु सिद्धिदम् ॥ श्रीजगद्गुरोर्नित्यस्मरणेन सर्वेषां सर्वमङ्गलानि भवन्तु ॥