अक्षर आकार:

श्रीचन्द्रशेखरभारत्यष्टोत्तरशतनामावलिः

Shri Chandrashekhara Bharati Ashtottara Shatanamavali

श्रीचन्द्रशेखरभारत्यष्टोत्तरशतनामावलिः

सदात्मध्याननिरतं विषयेभ्यः पराङ्मुखम् । नौमिशास्त्रेषु निष्णातं चन्द्रशेखरभारतीम् ॥ श्रीश‍ृङ्गपुरपीठेशाय नमः । श्रीविद्याजपतत्पराय नमः । सुनन्दनाश्वयुक्कृष्णमघर्क्षैकादशीभवाय नमः । प्लवाब्दसितमाघीयपञ्चमीप्राप्तमौञ्जिकाय नमः । परीधाविशरच्चैत्रप्राप्ततुर्याश्रमक्रमाय नमः । चन्द्रशेखरशब्दाद्यभारत्याख्याविराजिताय नमः । शङ्करादिगुरूत्तंसपारम्पर्यक्रमागताय नमः । चन्द्रमौलिपदाम्भोजचञ्चरीकहृदम्बुजाय नमः । शारदापदपाथोजमरन्दास्वादलोलुपाय नमः । सुरत्नगर्भहेरम्बसमाराधनलालसाय नमः । १० देशिकाङ्घ्रिसमाक्रान्तहृदयाख्यगुहान्तराय नमः । श्रुतिस्मृतिपुराणादिशास्त्रप्रामाण्यबद्धधिये नमः । श्रौतस्मार्तसदाचारधर्मपालनतत्पराय नमः । तत्त्वमस्यादिवाक्यार्थपरिचिन्तनमानसाय नमः । विद्वद्बृन्दपरिश्लाघ्यपाण्डित्यपरिशोभिताय नमः । दक्षिणामूर्तिसन्मन्त्रजपध्यानपरायणाय नमः । विविधार्तिपरिक्लिन्नजनसन्दोहदुःखहृदे नमः । नन्दिताशेषविबुधाय नमः । निन्दिताखिलदुर्मताय नमः । विविधागमतत्त्वज्ञाय नमः । २० विनयाभरणोज्ज्वलाय नमः । विशुद्धाद्वैतसन्देष्ट्रे नमः । विशुद्धात्मपरायणाय नमः । विश्ववन्द्याय नमः । विश्वगुरवे नमः । विजितेन्द्रियसंहतये नमः । वीतरागाय नमः । वीतभयाय नमः । वित्तलोभविवर्जिताय नमः । नन्दिताशेषभुवनाय नमः । ३० निन्दिताखिलसंसृतये नमः । सत्यवादिने नमः । सत्यरताय नमः । सत्यधर्मपरायणाय नमः । विषयारये नमः । विधेयात्मने नमः । विविक्ताशासुसेवनाय नमः । विवेकिने नमः । विमलस्वान्ताय नमः । विगताविद्यबन्धनाय नमः । ४० नतलोकहितैषिणे नमः । नम्रहृत्तापहारकाय नमः । नम्राज्ञानतमोभानवे नमः । नतसंशयकृन्तनाय नमः । नित्यतृप्ताय नमः । निरीहाय नमः । निर्गुणध्यानतत्पराय नमः । शान्तवेषाय नमः । शान्तमनसे नमः । शान्तिदान्तिगुणालयाय नमः । ५० मितभाषिणे नमः । मिताहाराय नमः । अमितानन्दतुन्दिलाय नमः । गुरुभक्ताय नमः । गुरुन्यस्तभाराय नमः । गुरुपदानुगाय नमः । हासपूर्वाभिभाषिणे नमः । हंसमन्त्रार्थचिन्तकाय नमः । निश्चिन्ताय नमः । निरहङ्काराय नमः । ६० निर्मोहाय नमः । मोहनाशकाय नमः । निर्ममाय नमः । ममताहन्त्रे नमः । निष्पापाय नमः । पापनाशकाय नमः । कृतज्ञाय नमः । कीर्तिमते नमः । पापागभिदुराकृतये नमः । सत्यसन्धाय नमः । ७० सत्यतपसे नमः । सत्यज्ञानसुखात्मधिये नमः । वेदशास्त्रार्थतत्त्वज्ञाय नमः । वेदवेदान्तपारगाय नमः । विशालहृदयाय नमः । वाग्मिने नमः । वाचस्पतिसदृङ्मतये नमः । नृसिंहारामनिलयाय नमः । नृसिंहाराधनप्रियाय नमः । नृपाल्यर्चितपादाब्जाय नमः । ८० कृष्णराजहिते रताय नमः । विच्छिन्नहृदयग्रन्थये नमः । ज़्विच्छिन्नाखिलसंशयाय नमः । विद्वच्छिरोभूषणाय नमः । विद्वद्बृन्ददृढाश्रयाय नमः । भूतिभूषितसर्वाङ्गाय नमः । नतभूतिप्रदायकाय नमः । त्रिपुण्ड्रविलसत्फालाय नमः । रुद्राक्षैकविभूषणाय नमः । कौसुम्भवसनोपेताय नमः । ९० करलग्नकमण्डलवे नमः । वेणुदण्डलसद्धस्ताय नमः । अप्पवित्रसमन्विताय नमः । दाक्षिण्यनिलयाय नमः । दक्षाय नमः । दक्षिणाशामठाधिपाय नमः । वर्णसङ्करसञ्जातसन्तापाविष्टमानसाय नमः । शिष्यप्रबोधनपटवे नमः । नम्रास्तिक्यप्रवर्धकाय नमः । नतालिहितसन्देष्ट्रे नमः । १०० विनेयेष्टप्रदायकाय नमः । हितशत्रुसमाय नमः । श्रीमते नमः । समलोष्टाश्मकाञ्चनाय नमः । व्याख्यानभद्रपीठस्थाय नमः । शास्त्रव्याख्यानकौतुकाय नमः । जगतीतलविख्याताय नमः । जगद्गुरवे नमः । १०८ श्रीचन्द्रशेखरभारतीमहास्वामिने नमः । इति श्रीमज्जगद्गुरु श्रीचन्द्रशेखरभारतीमहास्वामिनां अष्टोत्तरशतनामावलिः समाप्ता ॥