अक्षर आकार:

श्रीचक्रराज मङ्गळम्

shrI chakrarAja mangaLam

श्रीचक्रराज मङ्गळम्

मङ्गळं चक्रराजाय महनीय गुणाब्धये पद्मनाभ करांभोज परिष्काराय मङ्गळम् ॥ १॥ काशी विप्लोषकाराय कल्याणगुण शालिने । मालि प्रमथनायास्तु महाधीराय मङ्गळम् ॥ २॥ गजेंद्रार्ति हरायास्थु ग्राह द्वेधाद्वकारिणे । दिनाधीश तिरोधान कर्त्रे दीप्ताय मङ्गळम् ॥ ३॥ चित्राकार स्वचाराय चित्त निर्वृति कारिणे । नरकासुर संहर्त्रे नानारूपाय मङ्गळम् ॥ ४॥ चण्डास्त्राञ्चित दोर्दण्ड खण्डितामरशत्रवे । चामीकर निभाङ्गाय चारुनेत्राय मङ्गळम् ॥ ५॥ चैत्यासुर शिरोहर्त्रे चन्द्राह्ळाद कराय ते । श्रीमते चक्रराजाय श्रितार्तिघ्नाय मङ्गळम् ॥ ६॥ ॥ श्री चक्रराज मङ्गळम् समाप्तम् ॥ ॥ श्रीमते सुदर्शनाय नमः ॥