अक्षर आकार:

श्रीब्रह्मण्यतीर्थपञ्चरत्नमालिकास्तोत्रम्

Shri Brahmanyatirtha Pancharatnamalika Stotram

श्रीब्रह्मण्यतीर्थपञ्चरत्नमालिकास्तोत्रम्

वन्दे ब्रह्मण्यतीर्थं शुभतमचरितं सेवितश्रीसमेतम् शान्तं दान्तं महान्तं गुरुगुणभरितं योगिसङ्घैरुपेतम् । कामक्रोधाद्यतीतं कुमतिभिरजितं कल्मषाम्भोधिपोतम् धीरं भूदेवगीतं शुभजनमहितं धन्यमानं विनीतम् ॥ १॥ माद्यन्मायिगजेन्द्रपञ्चवदनः प्रख्यातकीर्तिर्महान् श्रीमद्विट्ठलपादपद्ममधुपः सर्वेष्टचिन्तामणिः । निर्व्याजोरुदयाकटाक्षलसितो ज्ञानादिभाग्योज्वलः श्रीब्रह्मण्ययतीन्द्र मस्तकमणिः पायादपायात्स माम् ॥ २॥ भिभ्रत्काषायचेलं विलसिततुलसीपङ्कजाक्षादिमालम् धूताज्ञानाघजालं मृदुवचनकलं चारुसौन्दर्यशीलम् । आर्तत्राणैकलोलं प्रणतमुनिकुलं वैष्णवाग्र्यानुकूलम् ब्रह्मण्यार्यं दयालुं स्मितमुखकमलं तं भजेलम् ॥ ३॥ यद्वृन्दावनदर्शनेन नितरां पापानि यान्ति क्षयम् यद्वृन्दावनमृत्तिका सुविधृता तापत्र यध्वंसिनी । यद्वृन्दावनसेवया भुवि जनः प्राप्नोति विद्यां सुखम् सर्वारिष्टनिवृत्तयेस्तु स च मे ब्रह्मण्यतीर्थो गुरुः ॥ ४॥ कुष्ठश्वेतोरुगुल्म क्षयकठिणतरव्याधिवैद्याधिनाथो भूतप्रेतग्रहोच्चाटनकुशलमहामन्त्र मूर्तिर्मुनीन्द्रः । सर्वाभीष्टप्रदाता सरससुहृदयःपुण्यचारित्रनामा भूयाद्ब्रह्मण्यतीर्थो गुरुकुलतिलको भूयसे श्रेयसे मे ॥ ५॥ इति श्रीमद्व्यासराजविरचितं श्रीब्रह्मण्यतीर्थ पञ्चरत्नमालिकास्तोत्रं सम्पूर्णम् ।