अक्षर आकार:

भज यतिराजम्

Bhaja Yatirajam

भज यतिराजम्

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो । भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ भज यतिराजं ... श्रीरङ्गेशयजयाश्रयकेतुः श्रितजनसंरक्षणजीवातुः । भवभयजलधेरेव हि सेतुः पद्मानेतुः प्रणतौ हेतुः ॥ १॥ भज यतिराजं ... आदौ जगदाधारः शेषः तदनु सुमित्रानन्दनवेषः । तदुपरि धृतहलमुसलविशेषः तदनन्तरमभवद्गुरुरेषः ॥ २॥ भज यतिराजं ... भुङ्क्ते वैषयिकं सुखमन्यः प्रचकास्त्येव अनश्नन्नन्यः । इति यस्तत्वं प्राह वदान्यः तस्मादधिकः को नु वदान्यः ॥ ३॥ भज यतिराजं ... नष्टे नयने कस्यालोकः चित्ते मत्ते कस्य विवेकः । क्षीणे पुण्ये कः सुरलोकः कामे धूते कस्तव शोकः ॥ ४॥ भज यतिराजं ... निशि वनितासुखनिद्रालोलः प्रातः परदूषणपटुशीलः । अन्तर्याति निजायुष्कालः किं जानाति नरः पशुलीलः ॥ ५॥ भज यतिराजं ... केचिल्लीलालालसगतयः केचिद्बालालालितरतयः । केचिद्दोलायितहमतयः केऽपि न सन्त्यर्चितयतिपतयः ॥ ६॥ भज यतिराजं ... यावानबलो जरया देहः तावान् प्रबलो विषये मोहः । वचसि विरक्तिः श्रुतिपरिवाहः मनसि हितस्त्वपरोऽपि विवाहः ॥ ७॥ भज यतिराजं ... कलुषनिकायं ललनाकायं पश्यन्मुह्यसि सायं सायम् । जहि जहि हेयं तद्व्यवसायं स्मर निरपायं चरमोपायम् ॥ ८॥ भज यतिराजं ... रात्रिंदिवमपि भिक्षाचर्या कलहायैवागच्छति भार्या । मध्ये बान्धवसेवा कार्या कथय कदा तव देवसपर्या ॥ ९॥ भज यतिराजं ... अन्धं नयनं भूमौ शयनं मन्दं वचनं मलिनं वदनम् । तस्मिन् काले गोप्तुं सदनं वाञ्छसि दत्ततनूजानयनम् ॥ १०॥ भज यतिराजं ... तालच्छदकृतकुब्जकुटीरः प्रतिगृहसन्ध्याकबलाहारः । विविधपटच्चरभारः क्रूरः सोऽपि विधातृसमाहङ्कारः ॥ ११॥ भज यतिराजं ... मन्त्रद्रव्यविशुद्धो यागः सर्वारम्भविरागस्त्यागः । कर्तुं शक्यो न कलौ योगः किन्तु यतीशगुणामृतभोगः ॥ १२॥ भज यतिराजं ... उपरि महोपलवर्षासारो मार्गे कण्टककर्दमपूरः । कक्षे भारः शिरसि किशोरः सुखयति घोरः कं संसारः ॥ १३॥ भज यतिराजं ... भजसि वृथा विषयेषु दुराशां विविधविचित्रमनोरथपाशाम् । कियदपि लभसे न हि तत्रैकं किन्तु व्रजसि महान्तं शोकम् ॥ १४॥ भज यतिराजं ... कश्चन लोके करपुटपात्रः पातुं सुतमाश्रितमठसत्रः । तस्मिन्वृद्धे तं सकलत्रः शपति हि रण्डासुत इति पुत्रः ॥ १५॥ भज यतिराजं ... मनुजपतिं वा दिगधिपतिं वा जलजभवं वा जगदधिपं वा । ममताहङ्कृतिमलिनो लोको निन्दति निन्दति निन्दत्येव ॥ १६॥ भज यतिराजं ... पापहतो वा पुण्ययुतो वा सुरनरतिर्यग्जातिगतो वा । रामानुजपदतीर्थान्मुक्तिं विन्दति विन्दति विन्दत्येव ॥ १७॥ भज यतिराजं ... गुणगुणिनोर्भेदः किल नित्यः चिदचिद्द्वयपरभेदः सत्यः । तद्द्वयदेहो हरिरिति तत्त्वं पश्य विशिष्टाद्वैतं तत्त्वं ॥ १८॥ भज यतिराजं ... यतिपतिपदजलगणिकासेकः चतुरक्षरपदयुग्मविवेकः । यस्य तु सालनगर्यवलोकः तस्य पदेन हतो यमलोकः ॥ १९॥ भज यतिराजं ... चिन्तय सर्वं चिदचिद्रूपं तनुरिति तस्य हरेरनुरूपम् । तस्मात् कस्मिन्कलयसि कोपं पश्चाद्भजसि दुरापं तापम् ॥ २०॥ भज यतिराजं ... यश्चतुरक्षरमन्त्ररहस्यं वेद तमेव वृणीहि सदस्यम् । तच्चरणद्वयदास्यमुपास्यं तद्विपरीतं मतमपहास्यम् ॥ २१॥ भज यतिराजं ... वैष्णवकुलगुणदूषणचिन्तां मा कुरु निजकुलशीलाहन्ताम् । यतिपतिरेव हि गुरुरेतेषामिति जानीहि महत्वं तेषाम् ॥ २२॥ भज यतिराजं ... सुमसुकुमारं शोभितमारं रतिसुखसारं युवतिशरीरम् । गतजीवितमतिघोरविकारं दृष्ट्वा गच्छसि दूरं दूरम् ॥ २३॥ भज यतिराजं ... विद्यानिपुणा वयमित्यन्ये हृद्या धनिनो वयमित्यन्ये । सत्कुलजाता वयमित्यन्ये तेषु कलिं परिपूर्णं मन्ये ॥ २४॥ भज यतिराजं ... यमकिङ्करकरमूले शूले पतदभियाति हि फाले फाले । दहति तनुं प्रतिकूले काले कं रमयसि तत्काले बाले ॥ २५॥ भज यतिराजं ... नरवाहनगजतुरगारूड्ःआः नारीसुतपोषणगुणमूढाः । नानारञ्जकविद्याप्रौढाः नागरिकाः किं यतयो मूढाः ॥ २६॥ भज यतिराजं ... यस्य मुखस्था यतिपतिसूक्तिः तस्य करस्था विलसति मुक्तिः । नरके पतितं नवनवयुक्तिः नहि रक्षति सामान्यनिरुक्तिः ॥ २७॥ भज यतिराजं ... श्रुतिशिरसामत्यन्तविदूष्यं सूत्रानभिमतमतिवैदुष्यम् । प्रथमम् मङ्गलमनृतविशेष्यं प्रलपसि किं प्राकृतकृतभाष्यं ॥ २८॥ भज यतिराजं ... तस्करजारविदूषकधूर्ता मस्करिमौनिदिगम्बरवृत्ताः । गुप्तधनीकृत धनमदमत्ताः गुरवः किं परवञ्चकचित्ताः ॥ २९॥ भज यतिराजं ... कान्तिमतीसुकुमारकुमारं केशवयज्वकिशोरमुदारम् । यज्व पाठभेद सिंह रामानुजमहिराडवतारं मूकान्धानपि मोक्षयितारम् ॥ ३०॥ भज यतिराजं ... काषायाम्बरकवचितगात्रं कलितकमण्डलुदण्डपवित्रं । विधृतशिखाहरिणाजिनसूत्रं व्याख्यातद्वैपायनसूत्रम् ॥ ३१॥ भज यतिराजं ... यामुनपूर्णकृपोज्ज्वलगात्रं रामाब्जाक्षमुनीक्षणपात्रम् । कोमलशठरिपुपदयुगमात्रं श्रीमाधवसेनापतिमित्रम् ॥ ३२॥ भज यतिराजं ... सालग्रामे सर्वहितार्थं येनास्थापि गुरोः पदतीर्थम् । तत्कुलदैवतहितपुरुषार्थं सकलोपायाधिकचरमार्थम् ॥ ३३॥ भज यतिराजं ... प्रवचनसक्तः प्रज्ञायुक्तः परहितसक्तः परमविरक्तः । नानादैवतभक्त्या युक्तः न भवति मुक्तो भवति न मुक्तः ॥ ३४॥ भज यतिराजं ... सन्त्यज सकलमुपायाचरणं व्रज रामानुजचरनौ शरणाम् । पश्यसि तमसः पारं नित्यं सत्यं सत्यं पुनरपि सत्यम्॥ ३५॥ भज यतिराजं ... भगवद्रामानुजषट्त्रिंशः सालग्रामगुरूत्तमवंश्यः । कौण्डिन्यः कविराह पवित्रं रङ्गार्यो यतिराजस्तोत्रम् ॥ ३६॥ भज यतिराजं ... See the translation (except 25) at http://antaryami.net/darpanam/2013/05/12/bhaja-yathiraja-sthothram/