अक्षर आकार:

भावनाष्टकम्

bhAvanAShTakam

भावनाष्टकम्

अंगनामंगनामन्तरे विग्रहं कुण्डलोद्भासितं दिव्यकर्णद्वयम् । बिभृतं सुस्थितं योगपीठोत्तमे सन्ततं भावये श्रीपतीशात्मजम् ॥ १ मोहनीयाननं श‍ृङ्गपर्वस्थितं काननेषु प्रियावासमत्यद्भुतम् । दीनसंरक्षणकं वासवेनार्चितं सन्ततं भावये श्रीपतीशात्मजम् ॥ २ कोमळम् कुन्तळं स्निग्धमत्यद्भुतं बिभृतं मोहनं नीलवर्णाञ्चितम् । कामदं निर्मलं भूतवृन्दावृतं सन्ततं भावये श्रीपतीशात्मजम् ॥ ३ अंबरं दिव्यनीलद्युतिं शोभनं अंबुवर्णोपमं गात्रशोभाकरम् । बिम्बमत्यद्भुताकारजं बिभृतं सन्ततं भावये श्रीपतीशात्मजम् ॥ ४ वाहनं तुङ्गमश्वोत्तमं सुन्दरं सैन्धवं संश्रितं विश्ववश्याकृतिम् । बान्धवं बन्धुहीनाश्रितं मोहनं सन्ततं भावये श्रीपतीशात्मजम् ॥ ५ भासितं वक्षसा हारमुक्ताञ्चितं देवदेवार्चितं केरळेसुस्थितम् । भूसुरैर्वन्दितं दिव्यपीठस्थितं सन्ततं भावये श्रीपतीशात्मजम् ॥ ६ पावनं पङ्कजं दिव्यपादद्वयं बिभृतं भक्तसंघ प्रशोभ्यंघ्रिकम् । कामदं मोक्षदं तारकं सादरं सन्ततं भावये श्रीपतीशात्मजम् ॥ ७ विग्रहं मङ्गळं सर्वकामार्थदं अग्रिमैर्वन्दितं दीनरक्षात्मकम् । भूषणैर्मण्डितं मालयाराजितं सन्ततं भावये श्रीपतीशात्मजम् ॥ ८ इति भावनाष्टकं सम्पूर्णम् ॥