अक्षर आकार:

श्रीभूवराहस्तुतिः

Shri Bhuvarahastutih

श्रीभूवराहस्तुतिः

(श्रीभूवराहक्षेत्रे) जायते वरमहः पदपद्मप्रेक्षणेन तव नम्रजनानाम् । भूवराह करुणामृतराशे त्वां वराह इति तत्कथयन्ति ॥ १॥ राजराजपरिपूजितपाद प्राणनाथ सरिदीश्वरपुत्र्याः । श्रीवराहपुरसंस्थितलोकान्भूवराह परिपाहि कृपाब्धे ॥ २॥ इति श्रीश‍ृङ्गेरी जगद्गुरु श्रीसदाशिवाभिनवनृसिंहभारती- श्रीपादैः विरचिता श्रीभूवराहस्तुतिः सम्पूर्णा ।