अक्षर आकार:

श्री भृगुपञ्चकस्तोत्रम्

Bhrigupanchakastotra

श्री भृगुपञ्चकस्तोत्रम्

द्विजेन्द्रवंशतारकं समस्तदुःखहारकं दरिद्रताविदारकं स्वधर्मसेतुधारकम् । सदैव देवनन्दितं समस्त शास्त्रपण्डितं भजामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ १॥ विरागरागनिर्झरं नमामि वै विदाम्वरं परम्परारविन्दरेणुषट्पदं सिताम्बारम् । सदैव साधनापरं समाधिनिष्ठभूसुरं भजामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ २॥ सनातनं च शाश्वतं समष्टिसौख्यसर्जकं समुन्नतं सुमानसं शिवादिसङ्गसाधकम् । समर्धकं समर्पितं सदैव शान्तिशोधकं नमामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ ३॥ पठामि भार्गवोत्तमं लिखामि तं भृगुं विभु भजामि तं महागुरुं स्पृशामि तं महाप्रभुम् । स्मरामि तं महामुनिं वदामि तं स्वयम्भुवं नमामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ ४॥ अबोधतां विनाशितुं दरिद्रतां विदारितुं प्रबोधतां प्रवाहितु सुमेधतां सुसाधितुम् । विकासवीथि भासितुं भजामि वै भृगुं शिवं नमामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ ५॥ ॥ इति श्री भृगुपञ्चकस्तोत्रम् ॥ --कवि समर्थ श्री Sourced from Sanskrit Jagat