अक्षर आकार:

श्रीबलरामस्वामीप्रपत्तिः

shrIbalarAmasvAmIprapattiH

श्रीबलरामस्वामीप्रपत्तिः

रीवाराज्यसमीपग्रामपटना विन्ध्याचले सन्निभम्, कौशिक्ये शुचिगोत्रवैष्णवकुले श्रीमिश्रवंशोद्भवम् ॥ शब्दादीन् विषयान् प्रदर्श्य विभवं विस्मार्यदासात्मकम् । श्रीबलरामो विहाय भौतिकसुखं त्यक्त्वा बहिर्निर्गतः ॥ १॥ श्रीकामदगिरिचित्रकूटविपिने श्रीरामदेशिकगुरुं शङ्खचक्रभुजौ ग्रहीति परमं शरणागतिं श्रीहरिम् । क्षन्तव्यं मम मानसञ्च चपलं संसेव्य युष्मानपि, भक्तिप्राप्तगुरुं प्रसन्नवदनं बलरामदेशिकमुनिम् ॥ २॥ श्रीभाष्यादि प्रबन्धपाठपठने आचार्य पदवीं पदे, श्रीपरकाल अहोविलादिवचने विश्वासप्रेमास्पदम् । वेदान्तदेशिकनित्यपादकमले श्रीरामदेशिकपदे, मोक्षमयाचत श्रीनिवासयजने श्रीबलरामदेशिकगुरुम् ॥ ३॥ हरिसदनं भ्रमणं करोति सकलं बदरीवने चागतः । लब्ध्वा ज्ञानविरागभक्तिमतुलां सान्निध्यधानुर्धने । द्वादशवर्षगतो विचिन्य मनसा श्रीचित्रकूटागतः श्रीरामदेशिकपदप्राप्तहर्षिततनुः श्रीबलरामदेशिकगुरुम् ॥ ४॥ पुराणलङ्का च मनोहराणि ददर्श स्वामिन् गुरुपादसेवी । सत्पात्रसम्प्राप्तमठाधिकारं प्रदत्तवान् देशिकरामपूर्वम् । गुरुप्रभावाच्च तपोबलेन मठस्य वृद्धिं प्रकरोति नित्यम् ॥ ५॥ श्रीरामदेशिकपदे विन्यस्तभारं श्रीवेङ्कटेशपदपङ्कज नित्यसेवाम् । वेदान्तदेशिके विरागे निधाय कायं बलरामदेशिकसमानसमर्थकोऽपि ॥ ६॥ कलेवरं कालबलेन हित्वा मार्गेण गतो विकुण्ठे । मनः समाधाय श्रीरङ्गपादे प्रपन्नबलरामसुसूक्ष्मदेहे ॥ ७॥ पुरुषार्थो बलरामस्य बलराममिवापरः । श्रीनिवासपदे निष्ठा दृढा प्रीतिः समर्चने ॥ ८॥ आचार्यबलरामस्य चरितं परमाद्भुतम् । भागवताचार्यदासेन स्वबुद्ध्या सङ्ग्रहीकृतम् ॥ ९॥ इति श्रीबलरामस्वामी प्रपत्तिः ॥