अक्षर आकार:

श्रीबलरामस्तुतिः

Shri Balaramastutih

श्रीबलरामस्तुतिः

निष्पात्याशु हिमांशुमण्डलमधः पीत्वा तदन्तः सुधां कृत्वैनं चषकं हसन्निति हलापानाय कौतूहलात् । भो देव द्विजराजि मादृशि सुरास्पर्शोऽपि न श्रेयसे मां मुञ्चेति तदर्थितो हलधरः पायादपायाज्जगत् ॥ १॥ प्रेमोन्नामितरेवतीमुखगतामास्वाद्य कादम्बरीं उन्मत्तं क्वचिदुत्पतत्क्वचिदपि भ्राम्यत्क्वचित्प्रस्खलत् । रक्तापाङ्गमधीरलाङ्गलमलिश्यामाम्बराडम्बरं क्लेशं नः कवलीकरोतु सकलं पाकाभिरामं महः ॥ २॥ उष्णालु क्वचिदर्कधामनि मनाङ् निद्रालु शीतानिले हालानां गृहयालु चुम्बदसकृल्लज्जालु जायामुखम् । नित्यं निष्पतयालु तिर्यगवनीशय्याशयालु क्षणं गीतेभ्यः स्पृहयालु धाम धवलं दीने दयालु श्रये ॥ ३॥ इति श्रीबलरामस्तुतिः समाप्ता ।