अक्षर आकार:

श्रीबलरामस्तोत्रम्

shrIbalarAmastotram

श्रीबलरामस्तोत्रम्

श्रीगणेशाय नमः । श्रीः जय राम सदाराम सच्चिदानन्दविग्रह । अविद्यापङ्कगलितनिर्मलाकार ते नमः ॥ १॥ जयाखिलजगद्भारधारण श्रमवर्जित । तापत्रयविकर्षाय हलं कलयते सदा ॥ २॥ प्रपन्नदीनत्राणाय बलरामाय ते नमः । त्वमेवेश पराशेषकलुषक्षालनप्रभुः ॥ ३॥ प्रपन्नकरुणासिन्धो भक्तप्रिय नमोऽस्तुते । चराचरा फणाग्रेण धृता येन वसुन्धरा ॥ ४॥ मामुद्धरास्मद्दुष्पाराद्भवाम्भोधेरपारतः । परापराणां परमं परमेश नमोऽस्तु ते ॥ ५॥ इमं स्तवं यः पठति बलरामाधिदैवतम् । बलिष्ठः सर्वकार्येषु गरिष्ठः सोऽभिजायते ॥ ६॥ इति श्रीबलरामस्तोत्रम् ।