बलरामसहस्रनामस्तोत्रम्
दुर्योधन उवाच - बलभद्रस्य देवस्य प्राड्विपाक महामुने । नाम्नां सहस्रं मे ब्रूहि गुह्यं देवगणैरपि ॥ १॥ प्राड्विपाक उवाच - साधु साधु महाराज साधु ते विमलं यशः । यत्पृच्छसे परमिदं गर्गोक्तं देवदुर्लभम् ॥ २॥ नाम्नां सहस्रं दिव्यानां वक्ष्यामि तव चाग्रतः । गर्गाचार्येण गोपीभ्यो दत्तं कृष्णातटे शुभे ॥ ३॥ ॐ अस्य श्रीबलभद्रसहस्रनामस्त्रोत्रमन्त्रस्य गर्गाचार्य ऋषिः अनुष्टुप् छन्दः सङ्कर्षणः परमात्मा देवता बलभद्र इति बीजं रेवतीति शक्तिः अनन्त इति कीलकं बलभद्रप्रीत्यर्थे जपे विनियोगः ॥ अथ ध्यानम् । स्फुरदमलकिरीटं किङ्किणीकङ्कणार्हं चलदलककपोलं कुण्डलश्रीमुखाब्जम् । तुहिनगिरिमनोज्ञं नीलमेघाम्बराढ्यं हलमुसलविशालं कामपालं समीडे ॥ ४॥ॐ बलभद्रो रामभद्रो रामः सङ्कर्षणोऽच्युतः । रेवतीरमणो देवः कामपालो हलायुधः ॥ ५॥ नीलाम्बरः श्वेतवर्णो बलदेवोऽच्युताग्रजः । प्रलम्बघ्नो महावीरो रौहिणेयः प्रतापवान् ॥ ६॥ तालाङ्को मुसली हली हरिर्यदुवरो बली । सीरपाणिः पद्मपाणिर्लगुडी वेणुवादनः ॥ ७॥ कालिन्दिभेदनो वीरो बलः प्रबल ऊर्ध्वगः । वासुदेवकलानन्तः सहस्रवदनः स्वराट् ॥ ८॥ वसुर्वसुमतीभर्ता वासुदेवो वसूत्तमः । यदूत्तमो यादवेन्द्रो माधवो वृष्णिवल्लभः ॥ ९॥ द्वारकेशो माथुरेशो दानी मानी महामनाः । पूर्णः पुराणः पुरुषः परेशः परमेश्वरः ॥ १०॥ परिपूर्णतमः साक्षात्परमः पुरुषोत्तमः । अनन्तः शाश्वतः शेषो भगवान्प्रकृतेः परः ॥ ११॥ जीवात्मा परमात्मा च ह्यन्तरात्मा ध्रुवोऽव्ययः । चतुर्व्यूहश्चतुर्वेदश्चतुर्मूर्तिश्चतुष्पदः ॥ १२॥ प्रधानं प्रकृतिः साक्षी सङ्घातः सङ्घवान् सखी । महामना बुद्धिसखश्चेतोऽहंकार आवृतः ॥ १३॥ इन्द्रियेशो देवातात्मा ज्ञानं कर्म च शर्म च । अद्वितीयो द्वितीयश्च निराकारो निरञ्जनः ॥ १४॥ विराट् सम्राट् महौघश्च धारः स्थास्नुश्चरिष्णुमान् । फणीन्द्रः फणिराजश्च सहस्रफणमण्डितः ॥ १५॥ फणीश्वरः फणी स्फूर्तिः फूत्कारी चीत्करः प्रभुः । मणिहारो मणिधरो वितली सुतली तली ॥ १६॥ अतली सुतलेशश्च पातालश्च तलातलः । रसातलो भोगितलः स्फुरद्दन्तो महातलः ॥ १७॥ वासुकिः शङ्खचूडाभो देवदत्तो धनञ्जयः । कम्बलाश्वो वेगतरो धृतराष्ट्रो महाभुजः ॥ १८॥ वारुणीमदमत्ताङ्गो मदघूर्णितलोचनः । पद्माक्षः पद्ममाली च वनमाली मधुश्रवाः ॥ १९॥ कोटिकन्दर्पलावण्यो नागकन्यासमर्चितः । नूपुरी कटिसूत्री च कटकी कनकाङ्गदी ॥ २०॥ मुकुटी कुण्डली दण्डी शिखण्डी खण्डमण्डली । कलिः कलिप्रियः कालो निवातकवचेश्वरः ॥ २१॥ संहारकद्रुर्द्रवयुः कालाग्निः प्रलयो लयः । महाहिः पाणिनिः शास्त्रभाष्यकारः पतञ्जलिः ॥ २२॥ कात्यायनः पक्विमाभः स्फोटायन उरङ्गमः । वैकुण्ठो याज्ञिको यज्ञो वामनो हरिणो हरिः ॥ २३॥ कृष्णो विष्णुर्महाविष्णुः प्रभविष्णुर्विशेषवित् । हंसो योगेश्वरः कूर्मो वाराहो नारदो मुनिः ॥ २४॥ सनकः कपिलो मत्स्यः कमठो देवमङ्गलः । दत्तात्रेयः पृथुर्वृद्ध ऋषभो भार्गवोत्तमः ॥ २५॥ धन्वन्तरिर्नृसिंहश्च कलिर्नारायणो नरः । रामचन्द्रो राघवेन्द्रः कोशलेन्द्रो रघूद्वहः ॥ २६॥ काकुत्स्थः करुणासिंधू राजेन्द्रः सर्वलक्षणः । शूरो दाशरथिस्त्राता कौसल्यानन्दवर्द्धनः ॥ २७॥ सौमित्रिर्भरतो धन्वी शत्रुघ्नः शत्रुतापनः । निषङ्गी कवची खड्गी शरी ज्याहतकोष्ठकः ॥ २८॥ बद्धगोधाङ्गुलित्राणः शम्भुकोदण्डभञ्जनः । यज्ञत्राता यज्ञभर्ता मारीचवधकारकः ॥ २९॥ असुरारिस्ताटकारिर्विभीषणसहायकृत् । पितृवाक्यकरो हर्षी विराधारिर्वनेचरः ॥ ३०॥ मुनिर्मुनिप्रियश्चित्रकूटारण्यनिवासकृत् । कबन्धहा दण्डकेशो रामो राजीवलोचनः ॥ ३१॥ मतङ्गवनसञ्चारी नेता पञ्चवटीपतिः । सुग्रीवः सुग्रीवसखो हनुमत्प्रीतमानसः ॥ ३२॥ सेतुबन्धो रावणारिर्लंकादहनतत्परः । रावण्यरिः पुष्पकस्थो जानकीविरहातुरः ॥ ३३॥ अयोध्याधिपतिः श्रीमाँल्लवणारिः सुरार्चितः । सूर्यवंशी चन्द्रवंशी वंशीवाद्यविशारदः ॥ ३४॥ गोपतिर्गोपवृन्देशो गोपो गोपीशतावृतः । गोकुलेशो गोपपुत्रो गोपालो गोगणाश्रयः ॥ ३५॥ पूतनारिर्बकारिश्च तृणावर्तनिपातकः । अघारिर्धेनुकारिश्च प्रलम्बारिर्व्रजेश्वरः ॥ ३६॥ अरिष्टहा केशिशत्रुर्व्योमासुरविनाशकृत् । अग्निपानो दुग्धपानो वृन्दावनलताश्रितः ॥ ३७॥ यशोमतीसुतो भव्यो रोहिणीलालितः शिशुः । रासमण्डलमध्यस्थो रासमण्डलमण्डनः ॥ ३८॥ गोपिकाशतयूथार्थी शङ्खचूडवधोद्यतः । गोवर्धनसमुद्धर्ता शक्रजिद्व्रजरक्षकः ॥ ३९॥ वृषभानुवरो नन्द आनन्दो नन्दवर्धनः । नन्दराजसुतः श्रीशः कंसारिः कालियान्तकः ॥ ४०॥ रजकारिर्मुष्टिकारिः कंसकोदण्डभञ्जनः । चाणूरारिः कूटहन्ता शलारिस्तोशलान्तकः ॥ ४१॥ कंसभ्रातृनिहन्ता च मल्लयुद्धप्रवर्तकः । गजहन्ता कंसहन्ता कालहन्ता कलङ्कहा ॥ ४२॥ मागधारिर्यवनहा पाण्डुपुत्रसहायकृत् । चतुर्भुजः श्यामलाङ्गः सौम्यश्चौपगविप्रियः ॥ ४३॥ युद्धभृदुद्धवसखा मन्त्री मन्त्रविशारदः । वीरहा वीरमथनः शङ्खचक्रगदाधरः ॥ ४४॥ रेवतीचित्तहर्ता च रेवतीहर्षवर्द्धनः । रेवतीप्राणनाथश्च रेवतीप्रियकारकः ॥ ४५॥ ज्योतिर्ज्योतिष्मतीभर्ता रैवताद्रिविहारकृत् । धृतिनाथो धनाध्यक्षो दानाध्यक्षो धनेश्वरः ॥ ४६॥ मैथिलार्चितपादाब्जो मानदो भक्तवत्सलः । दुर्योधनगुरुर्गुर्वीगदाशिक्षाकरः क्षमी ॥ ४७॥ मुरारिर्मदनो मन्दोऽनिरुद्धो धन्विनां वरः । कल्पवृक्षः कल्पवृक्षी कल्पवृक्षवनप्रभुः ॥ ४८॥ स्यमन्तकमणिर्मान्यो गाण्डीवी कौरवेश्वरः । कुम्भाण्डखण्डनकरः कूपकर्णप्रहारकृत् ॥ ४९॥ सेव्यो रैवतजामाता मधुमाधवसेवितः । बलिष्ठपुष्टसर्वाङ्गो हृष्टः पुष्टः प्रहर्षितः ॥ ५०॥ वाराणसीगतः क्रुद्धः सर्वः पौण्ड्रकघातकः । सुनन्दी शिखरी शिल्पी द्विविदाङ्गनिषूदनः ॥ ५१॥ हस्तिनापुरसङ्कर्षी रथी कौरवपूजितः । विश्वकर्मा विश्वधर्मा देवशर्मा दयानिधिः ॥ ५२॥ महाराजच्छत्रधरो महाराजोपलक्षणः । सिद्धगीतः सिद्धकथः शुक्लचामरवीजितः ॥ ५३॥ ताराक्षः कीरनासश्च बिम्बोष्ठः सुस्मितच्छविः । करीन्द्रकरदोर्दण्डः प्रचण्डो मेघमण्डलः ॥ ५४॥ कपाटवक्षाः पीनांसः पद्मपादस्फुरद्द्युतिः । महविभूतिर्भूतेशो बन्धमोक्षी समीक्षणः ॥ ५५॥ चैद्यशत्रुः शत्रुसन्धो दन्तवक्त्रनिषूदकः । अजातशत्रुः पापघ्नो हरिदाससहायकृत् ॥ ५६॥ शालबाहुः शाल्वहन्ता तीर्थयायी जनेश्वरः । नैमिषारण्ययात्रार्थी गोमतीतीरवासकृत् ॥ ५७॥ गण्डकीस्नानवान्स्रग्वी वैजयन्तीविराजितः । अम्लानपङ्कजधरो विपाशी शोणसम्प्लुतः ॥ ५८॥ प्रयागतीर्थराजश्च सरयूः सेतुबन्धनः । गयाशिरश्च धनदः पौलस्त्यः पुलहाश्रमः ॥ ५९॥ गङ्गासागरसङ्गार्थी सप्तगोदावरीपतिः । वेणि भीमरथी गोदा ताम्रपर्णी वटोदका ॥ ६०॥ कृतमाला महापुण्या कावेरी च पयस्विनी । प्रतीची सुप्रभा वेणी त्रिवेणी सरयूपमा ॥ ६१॥ कृष्णा पंपा नर्मदा च गङ्गा भागीरथी नदी । सिद्धाश्रमः प्रभासश्च बिन्दुर्बिन्दुसरोवरः ॥ ६२॥ पुष्करः सैन्धवो जम्बू नरनारायणाश्रमः । कुरुक्षेत्रपती रामो जामदग्न्यो महामुनिः ॥ ६३॥ इल्वलात्मजहन्ता च सुदामासौख्यदायकः । विश्वजिद्विश्वनाथश्च त्रिलोकविजयी जयी ॥ ६४॥ वसन्तमालतीकर्षी गदो गद्यो गदाग्रजः । गुणार्णवो गुणनिधिर्गुणपात्रो गुणाकरः ॥ ६५॥ रङ्गवल्लीजलाकारो निर्गुणः सगुणो बृहत् । दृष्टः श्रुतो भवद्भूतो भविष्यच्चाल्पविग्रहः ॥ ६६॥ अनादिरादिरानन्दः प्रत्यग्धामा निरन्तरः । गुणातीतः समः साम्यः समदृङ्निर्विकल्पकः ॥ ६७॥ गूढाव्यूढो गुणो गौणो गुणाभासो गुणावृतः । नित्योऽक्षरो निर्विकारोऽक्षरोऽजस्रसुखोऽमृतः ॥ ६८॥ सर्वगः सर्ववित्सार्थः समबुद्धिः समप्रभः । अक्लेद्योऽच्छेद्य आपूर्णो शोष्यो दाह्यो निवर्तकः ॥ ६९॥ ब्रह्म ब्रह्मधरो ब्रह्मा ज्ञापको व्यापकः कविः । अध्यात्मकोऽधिभूतश्चाधिदैवः स्वाश्रयाश्रयः ॥ ७०॥ महावायुर्महावीरश्चेष्टारूपतनुस्थितः । प्रेरको बोधको बोधी त्रयोविंशतिको गणः ॥ ७१॥ अंशांशश्च नरावेशोऽवतारो भूपरिस्थितः । महर्जनस्तपःसत्यं भूर्भुवःस्वरिति त्रिधा ॥ ७२॥ नैमित्तिकः प्राकृतिक आत्यन्तिकमयो लयः । सर्गो विसर्गः सर्गादिर्निरोधो रोध ऊतिमान् ॥ ७३॥ मन्वन्तरावतारश्च मनुर्मनुसुतोऽनघः । स्वयम्भूः शाम्भवः शङ्कुः स्वायम्भुवसहायकृत् ॥ ७४॥ सुरालयो देवगिरिर्मेरुर्हेमार्चितो गिरिः । गिरीशो गणनाथश्च गौरीशो गिरिगह्वरः ॥ ७५॥ विन्ध्यस्त्रिकूटो मैनाकः सुवेलः पारिभद्रकः । पतङ्गः शिशिरः कङ्को जारुधिः शैलसत्तमः ॥ ७६॥ कालञ्जरो बृहत्सानुर्दरीभृन्नन्दिकेश्वरः । सन्तानस्तरुराजश्च मन्दारः पारिजातकः ॥ ७७॥ जयन्तकृज्जयन्ताङ्गो जयन्तीदिग्जयाकुलः । वृत्रहा देवलोकश्च शशी कुमुदबान्धवः ॥ ७८॥ नक्षत्रेशः सुधासिन्धुर्मृगः पुष्यः पुनर्वसुः । हस्तोऽभिजिच्च श्रवणो वैधृतिर्भास्करोदयः ॥ ७९॥ ऐन्द्रः साध्यः शुभः शुक्लो व्यतीपातो ध्रुवः सितः । शिशुमारो देवमयो ब्रह्मलोको विलक्षणः ॥ ८०॥ रामो वैकुण्ठनाथश्च व्यापी वैकुण्ठनायकः । श्वेतद्वीपो जितपदो लोकालोकाचलाश्रितः ॥ ८१॥ भूमिर्वैकुण्ठदेवश्च कोटिब्रह्माण्डकारकः । असङ्ख्यब्रह्माण्डपतिर्गोलोकेशो गवां पतिः ॥ ८२॥ गोलोकधामधिषणो गोपिकाकण्ठभूषणः । श्रीधारः श्रीधरो लीलाधरो गिरिधरो धुरी ॥ ८३॥ कुन्तधारी त्रिशूली च बीभत्सी घर्घरस्वनः । शूलसूच्यर्पितगजो गजचर्मधरो गजी ॥ ८४॥ अन्त्रमाली मुण्डमाली व्याली दण्डकमण्डलुः । वेतालभृद्भूतसङ्घः कूष्माण्डगणसंवृतः ॥ ८५॥ प्रमथेशः पशुपतिर्मृडानीशो मृडो वृषः । कृतान्तकालसङ्घारिः कूटः कल्पान्तभैरवः ॥ ८६॥ षडाननो वीरभद्रो दक्षयज्ञविघातकः । खर्पराशी विषाशी च शक्तिहस्तः शिवार्थदः ॥ ८७॥ पिनाकटङ्कारकरश्चलज्झङ्कारनूपुरः । पण्डितस्तर्कविद्वान्वै वेदपाठी श्रुतीश्वरः ॥ ८८॥ वेदान्तकृत्साङ्ख्यशास्त्री मीमांसी कणनामभाक् । काणादिर्गौतमो वादी वादो नैयायिको नयः ॥ ८९॥ वैशेषिको धर्मशास्त्री सर्वशास्त्रार्थतत्त्वगः । वैयाकरणकृच्छन्दो वैयासः प्राकृतिर्वचः ॥ ९०॥ पाराशरीसंहितावित्काव्यकृन्नाटकप्रदः । पौराणिकः स्मृतिकरो वैद्यो विद्याविशारदः ॥ ९१॥ अलङ्कारो लक्षणार्थो व्यङ्ग्यविद्धनवद्ध्वनिः । वाक्यस्फोटः पदस्फोटः स्फोटवृत्तिश्च सार्थवित् ॥ ९२॥ शृङ्गार उज्ज्वलः स्वच्छोऽद्भुतो हास्यो भयानकः । अश्वत्थो यवभोजी च यवक्रीतो यवाशनः ॥ ९३॥ प्रह्लादरक्षकः स्निग्ध ऐलवंशविवर्द्धनः । गताधिरंबरीषाङ्गो विगाधिर्गाधिनां वरः ॥ ९४॥ नानामणिसमाकीर्णो नानारत्नविभूषणः । नानापुष्पधरः पुष्पी पुष्पधन्वा प्रपुष्पितः ॥ ९५॥ नानाचन्दनगन्धाढ्यो नानापुष्परसार्चितः । नानावर्णमयो वर्णो नानावस्त्रधरः सदा ॥ ९६॥ नानापद्मकरः कौशी नानाकौशेयवेषधृक् । रत्नकम्बलधारी च धौतवस्त्रसमावृतः ॥ ९७॥ उत्तरीयधरः पर्णो घनकञ्चुकसङ्घवान् । पीतोष्णीषः सितोष्णीषो रक्तोष्णीषो दिगम्बरः ॥ ९८॥ दिव्याङ्गो दिव्यरचनो दिव्यलोकविलोकितः । सर्वोपमो निरुपमो गोलोकाङ्कीकृताङ्गणः ॥ ९९॥ कृतस्वोत्सङ्गगो लोकः कुण्डलीभूत आस्थितः । माथुरो माथुरादर्शी चलत्खञ्जनलोचनः ॥ १००॥ दधिहर्ता दुग्धहरो नवनीतसिताशनः । तक्रभुक् तक्रहारी च दधिचौर्यकृतश्रमः ॥ १०१॥ प्रभावतीबद्धकरो दामी दामोदरो दमी । सिकताभूमिचारी च बालकेलिर्व्रजार्भकः ॥ १०२॥ धूलिधूसरसर्वाङ्गः काकपक्षधरः सुधीः । मुक्तकेशो वत्सवृन्दः कालिन्दीकूलवीक्षणः ॥ १०३॥ जलकोलाहली कूली पङ्कप्राङ्गणलेपकः । श्रीवृन्दावनसञ्चारी वंशीवटतटस्थितः ॥ १०४॥ महावननिवासी च लोहार्गलवनाधिपः । साधुः प्रियतमः साध्यः साध्वीशो गतसाध्वसः ॥ १०५॥ रङ्गनाथो विठ्ठलेशो मुक्तिनाथोऽघनाशकः । सुकिर्तिः सुयशाः स्फीतो यशस्वी रङ्गरञ्जनः ॥ १०६॥ रागषट्को रागपुत्रो रागिणीरमणोत्सुकः । दीपको मेघमल्हारः श्रीरागो मालकोशकः ॥ १०७॥ हिन्दोलो भैरवाख्यश्च स्वरजातिस्मरो मृदुः । तालो मानप्रमाणश्च स्वरगम्यः कलाक्षरः ॥ १०८॥ शमी श्यामी शतानन्दः शतयामः शतक्रतुः । जागरः सुप्त आसुप्तः सुषुप्तः स्वप्न उर्वरः ॥ १०९॥ ऊर्जः स्फूर्जो निर्जरश्च विज्वरो ज्वरवर्जितः । ज्वरजिज्ज्वरकर्ता च ज्वरयुक् त्रिज्वरो ज्वरः ॥ ११०॥ जाम्बवान् जम्बुकाशङ्की जम्बूद्वीपो द्विपारिहा । शाल्मलिः शाल्मलिद्वीपः प्लक्षः प्लक्षवनेश्वरः ॥ १११॥ कुशधारी कुशः कौशी कौशिकः कुशविग्रहः । कुशस्थलीपतिः काशीनाथो भैरवशासनः ॥ ११२॥ दाशार्हः सात्वतो वृष्णिर्भोजोऽन्धकनिवासकृत् । अन्धको दुन्दुभिर्द्योतः प्रद्योतः सात्वतां पतिः ॥ ११३॥ शूरसेनोऽनुविषयो भोजवृष्ण्यन्धकेश्वरः । आहुकः सर्वनीतिज्ञ उग्रसेनो महोग्रवाक् ॥ ११४॥ उग्रसेनप्रियः प्रार्थ्यः पार्थो यदुसभापतिः । सुधर्माधिपतिः सत्त्वं वृष्णिचक्रावृतो भिषक् ॥ ११५॥ सभाशीलः सभादीपः सभाग्निश्च सभारविः । सभाचन्द्रः सभाभासः सभादेवः सभापतिः ॥ ११६॥ प्रजार्थदः प्रजाभर्ता प्रजापालनतत्परः । द्वारकादुर्गसञ्चारी द्वारकाग्रहविग्रहः ॥ ११७॥ द्वारकादुःखसंहर्ता द्वारकाजनमङ्गलः । जगन्माता जगत्त्राता जगद्भर्ता जगत्पिता ॥ ११८॥ जगद्बन्धुर्जगद्भ्राता जगन्मित्रो जगत्सखः । ब्रह्मण्यदेवो ब्रह्मण्यो ब्रह्मपादरजो दधत् ॥ ११९॥ ब्रह्मपादरजःस्पर्शी ब्रह्मपादनिषेवकः । विप्राङ्घ्रिजलपूताङ्गो विप्रसेवापरायणः ॥ १२०॥ विप्रमुख्यो विप्रहितो विप्रगीतमहाकथः । विप्रपादजलार्द्राङ्गो विप्रपादोदकप्रियः ॥ १२१॥ विप्रभक्तो विप्रगुरुर्विप्रो विप्रपदानुगः । अक्षौहिणीवृतो योद्धा प्रतिमापञ्चसंयुतः ॥ १२२॥ चतुरोंऽगिराः पद्मवर्ती सामन्तोद्धृतपादुकः । गजकोटिप्रयायी च रथकोटिजयध्वजः ॥ १२३॥ महारथश्चातिरथो जैत्रं स्यन्दनमास्थितः । नारायणास्त्री ब्रह्मास्त्री रणश्लाघी रणोद्भटः ॥ १२४॥ मदोत्कटो युद्धवीरो देवासुरभङ्करः । करिकर्णमरुत्प्रेजत्कुन्तलव्याप्तकुण्डलः ॥ १२५॥ अग्रगो वीरसम्मर्दो मर्दलो रणदुर्मदः । भटः प्रतिभटः प्रोच्यो बाणवर्षी सुतोयदः ॥ १२६॥ खड्गखण्डितसर्वाङ्गः षोडशाब्दः षडक्षरः । वीरघोषः क्लिष्टवपुर्वज्राङ्गो वज्रभेदनः ॥ १२७॥ रुग्णवज्रो भग्नदण्डः शत्रुनिर्भत्सनोद्यतः । अट्टहासः पट्टधरः पट्टराज्ञीपतिः पटुः ॥ १२८॥ कलः पटहवादित्रो हुङ्कारो गर्जितस्वनः । साधुर्भक्तपराधीनः स्वतन्त्रः साधुभूषणः ॥ १२९॥ अस्वतन्त्रः साधुमयः साधुग्रस्तमना मनाक् । साधुप्रियः साधुधनः साधुज्ञातिः सुधाघनः ॥ १३०॥ साधुचारी साधुचित्तः साधुवासी शुभास्पदः । इति नाम्नां सहस्रं तु बलभद्रस्य कीर्तितम् ॥ १३१॥ सर्वसिद्धिप्रदं नॄणां चतुर्वर्गफलप्रदम् । शतवारं पठेद्यस्तु स विद्यावान् भवेदिह ॥ १३२॥ इन्दिरां च विभूतिं चाभिजनं रूपमेव च । बलमोजश्च पठनात्सर्वं प्राप्नोति मानवः ॥ १३३॥ गङ्गाकूलेऽथ कालिन्दिकूले देवालये तथा । सहस्रावर्तपाठेन बलात्सिद्धिः प्रजायते ॥ १३४॥ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । बन्धात्प्रमुच्यते बद्धो रोगी रोगान्निवर्तते ॥ १३५॥ अयुतावर्तपाठे च पुरश्चर्याविधानतः । होमतर्पणगोदानविप्रार्चनकृतोद्यमात् ॥ १३६॥ पटलं पद्धतिं स्तोत्रं कवचं तु विधाय च । महामण्डलभर्ता स्यान्मण्डितो मण्डलेश्वरैः ॥ १३७॥ मत्तेभकर्णप्रहिता मदगन्धेन विह्वला । अलङ्करोति तद्द्वारां भ्रमद्भृङ्गावली भृशम् ॥ १३८॥ निष्कारणः पठेद्यस्तु प्रीत्यर्थं रेवतीपतेः । नाम्नां सहस्रं राजेन्द्र स जीवन्मुक्त उच्यते ॥ १३९॥ सदा वसेत्तस्य गृहे बलभद्रोऽच्युताग्रजः । महापातक्यपि जनः पठेन्नामसहस्रकम् ॥ १४०॥ छित्त्वा मेरुसमं पापं भुक्त्वा सर्वसुखं त्विह । परात्परं महाराज गोलोकं धाम याति हि ॥ १४१॥ श्रीनारद उवाच - इति श्रुत्वाच्युताग्रजस्य बलदेवस्य पञ्चाङ्गं धृतिमान् धार्तराष्ट्रः सपर्यया सहितया परया भक्त्या प्राड्विपाकं पूजयामास ॥ तमनुज्ञाप्याशिषं दत्वा प्राड्विपाको मुनीन्द्रो गजाह्वयात्स्वाश्रमं जगाम ॥ १४२॥ भगवतोऽनन्तस्य बलभद्रस्य परब्रह्मणः कथां यः शृणुते श्रावयते तयाऽऽनन्दमयो भवति ॥ १४३॥ इदं मया ते कथितं नृपेन्द्र सर्वार्थदं श्रीबलभद्रखण्डम् । शृणोति यो धाम हरेः स याति विशोकमानन्दमखण्डरूपम् ॥ १४४॥ इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादे बलभद्रसहस्रनामवर्णनं नाम त्रयोदशोऽध्यायः ॥ ग. सं. अधाय १३॥ Garga Samhita, Balabhadrakhanda, Adhaya 13