अक्षर आकार:

बलरामकवचम्

balarAmakavacham

बलरामकवचम्

दुर्योधन उवाच - गोपीभ्यः कवचं दत्तं गर्गाचार्येण धीमता ॥ सर्वरक्षाकरं दिव्यं देहि मह्यं महामुने ॥ १॥ प्राड्विपाक उवाच - स्नात्वा जले क्षौमधरः कुशासनः पवित्रपाणिः कृतमन्त्रमार्जनः ॥ स्मृत्वाथ नत्वा बलमच्युताग्रजं संधारयेद्धर्मसमाहितो भवेत् ॥ २॥ गोलोकधामाधिपतिः परेश्वरः परेषु मां पातु पवित्रकीर्तनः ॥ भूमण्डलं सर्षपवद्विलक्ष्यते यन्मूर्ध्नि मां पातु स भूमिमण्डले ॥ ३॥ सेनासु मां रक्षतु सीरपाणिर्युद्धे सदा रक्षतु मां हली च ॥ दुर्गेषु चाव्यान्मुसली सदा मां वनेषु सङ्कर्षण आदिदेवः ॥ ४॥ कलिन्दजावेगहरो जलेषु नीलाम्बरो रक्षतु मां सदाग्नौ ॥ वायौ च रामोऽवतु खे बलश्च महार्णवेऽनन्तवपुः सदा माम् ॥ ५॥ श्रीवासुदेवोऽवतु पर्वतेषु सहस्रशीर्षा च महाविवादे ॥ रोगेषु मां रक्षतु रौहिणेयो मां कामपालोऽवतु वा विपत्सु ॥ ६॥ कामात्सदा रक्षतु धेनुकारिः क्रोधत्सदा मां द्विविदप्रहारी ॥ लोभात्सदा रक्षतु बल्वलारिर्मोहात्सदा मां किल मागधारिः ॥ ७॥ प्रातः सदा रक्षतु वृष्णिधुर्यः प्राह्णे सदा मां मथुरापुरेन्द्रः ॥ मध्यन्दिने गोपसखः प्रपातु स्वराट् पराह्णेऽवतु मां सदैव ॥ ८॥ सायं फणीन्द्रोऽवतु मां सदैव परात्परो रक्षतु मां प्रदोषे ॥ पूर्णे निशीथे च दुरन्तवीर्यः प्रत्यूषकालेऽवतु मां सदैव ॥ ९॥ विदिक्षु मां रक्षतु रेवतीपतिर्दिक्षु प्रलम्बारिरधो यदूद्वहः ॥ ऊर्ध्वं सदा मां बलभद्र आरात्तथा समन्ताद्बलदेव एव हि ॥ १०॥ अन्तः सदाव्यात्पुरुषोत्तमो बहिर्नागेन्द्रलीलोऽवतु मां महाबलः ॥ सदान्तरात्मा च वसन् हरिः स्वयं प्रपातु पूर्णः परमेश्वरो महान् ॥ ११॥ देवासुराणां भयनाशनं च हुताशनं पापचयेन्धनानाम् ॥ विनाशनं विघ्नघटस्य विद्धि सिद्धासनं वर्मवरं बलस्य ॥ १२॥ इति श्रीगर्गसंहितायां बलभद्रखण्डे स्तोत्रकवचवर्णनं नाम द्वादशोऽध्यायः ॥ ग. सं. अधाय १२॥ Garga Samhita, Balabhadrakhanda, Adhaya 12