अक्षर आकार:

बलभद्रस्तवराज

balabhadrastavarAja

बलभद्रस्तवराज

दुर्योधन उवाच - स्तोत्रं श्रीबलदेवस्य प्राड्विपाक महामुने । वद मां कृपया साक्षात्सर्वसिद्धिप्रदायकम् ॥ १॥ प्राड्विपाक उवाच - स्तवराजं तु रामस्य वेदव्यासकृतं शुभम् । सर्वसिद्धिप्रदं राजञ्छृणु कैवल्यदं नृणाम् ॥ २॥ देवादिदेव भगवन्कामपाल नमोऽस्तु ते । नमोऽनन्ताय शेषाय साक्षाद्रामाय ते नमः ॥ ३॥ धराधराय पूर्णाय स्वधाम्ने सीरपाणये । सहस्रशिरसे नित्यं नमः सङ्कर्षणाय ते ॥ ४॥ रेवतीरमण त्वं वै बलदेवाच्युताग्रजः । हलायुध प्रलम्बघ्न पाहि मां पुरुषोत्तम ॥ ५॥ बलाय बलभद्राय तालाङ्काय नमो नमः । नीलाम्बराय गौराय रौहणेयाय ते नमः ॥ ६॥ धेनुकारिर्मुष्टिकारिः कूटारिर्बल्वलान्तकः । रुक्म्यरिः कूपकर्णारिः कुम्भाण्डारिस्त्वमेव हि ॥ ७॥ कालिन्दीभेदनोऽसि त्वं हस्तिनापुरकर्षकः । द्विविदारिर्यादवेन्द्रो व्रजमण्डलमण्डनः ॥ ८॥ कंसभ्रातृप्रहन्तासि तीर्थयात्राकरः प्रभुः । दुर्योधनगुरुः साक्षात्पाहि पाहि प्रभो त्वतः ॥ ९॥ जय जयाच्युतदेव परात्पर स्वयमनन्तदिगन्तगतश्रुत । सुरमुनीन्द्रफणीन्द्रवराय ते मुसलिने बलिने हलिने नमः ॥ १०॥ यः पठेत्सततं स्तवनं नरः स तु हरेः परमं पदमाव्रजेत् । जगति सर्वबलं त्वरिमर्दनं भवति तस्य धनं स्वजनं धनम् ॥ ११॥ इति श्रीगर्गसंहितायां बलभद्रखण्डे बलभद्रस्तवराजवर्णनं नामैकादशोऽध्यायः ॥ ग. सं. अधाय ११॥ Garga Samhita, Balabhadrakhanda, Adhaya 11