अक्षर आकार:

श्रीअय्यप्प अथवा धर्मशास्ता त्रिशति नामावलिः

Shri Ayyappa or Dharmashasta Trishati Namavali 300 Names

श्रीअय्यप्प अथवा धर्मशास्ता त्रिशति नामावलिः

श्रीगणेशाय नमः । गिरीशं मरकतश‍ृङ्गवासिनं माहेश्वरं कण्ठे मणिशोभितं चिन्मुद्राङ्कितसत्समाधिस्थितं श्रीशबरिगिरीशं मनसास्मरामि । ॐ शास्त्रे नमः । धर्मशास्त्रे । शरणागतवत्सलाय । श्रीकराय । श्रीनिलयाय । श्रीनिवासनन्दनाय । परमेशात्मजाय । परमात्मने । परमैश्वर्यदायकाय । पुण्यरूपाय । तत्पुरुषाय । निर्वाणसुखदायकाय । पाण्ड्यनाथाय । पुण्यदायकाय । पद्मनाभनन्दनाय । वाञ्छितार्थप्रदाय । पूज्याय । पूर्णेन्दुवदनप्रभाय । पापरहिताय । पापनाशनाय नमः । २० ॐ पुष्पवनविराजिताय नमः । प्राणेश्वराय । प्रियङ्कराय । सर्वमानसेश्वराय । पावनात्मने । चराचरात्मने । परापरज्ञानदायकाय । प्रणवस्वरूपाय । प्राणदायकाय । सर्वोन्नतपदालङ्कृताय । परदेवाय । परमान्नप्रियाय । पादानुपादभक्तसहचराय । परमाणवे । प्रसिद्धाय । परमनिर्भरमानसाय । परमगुरुवराय । श्लाघनीयाय । पम्पापुळिनसम्भवाय । छुरिकायुधधराय नमः । ४० ॐ वाजिवाहनाय नमः । सर्वविश्वविधायकाय । चित्स्वरूपाय । चेतनारूपाय । कैवल्यपददायकाय । चापधराय । बाणधराय । लोकक्षेमतत्पराय । चितिरूपाय । अचिन्त्यरूपाय । नित्ययौवनस्थिताय । रुद्रतनयाय । रौद्ररहिताय । राज्यैश्वर्यकारणाय । इन्द्रवन्द्याय । इष्टदेवाय । कविहृदयविराजिताय । योगासनस्थिताय । चिन्मुद्राङ्किताय । महीपालनतत्पराय नमः । ६० ॐ भक्तरूपाय नमः । भक्तदासाय । बन्धमोचनकारणाय । जगत्सर्वरूपाय । जनिमृतिनाशनाय । जननीपालनतत्पराय । कामरहिताय । कामनाशनाय । निष्कामकर्मकारणाय । क्रोधरहिताय । क्रोधनाशनाय । चराचरशान्तिदायकाय । लोभरहिताय । लोभनाशनाय । दुर्लभज्ञानदायकाय । निर्मोहाय । मोहनाशनाय । सुखभोगपरित्याजिताय । देषरहिताय । वृषनाशनाय नमः । ८० ॐ तत्त्वमसि तत्त्वप्रबोधिताय नमः । रागरहिताय । रागनाशनाय । अहंभावनाशनाय । ब्रह्मचार्यै । ब्राह्मणेश्वराय । गात्रक्षेत्रनिवासिताय । बाणनिपुणाय । अपराजिताय । दुष्टमहिषीनिग्रहकर्त्रे । भूतनाथाय । भूतहितकराय । कीर्तनश्रवणतत्पराय । राजीवलोचनाय । वीराय । दिव्यात्मने । भक्तवत्सलाय । इरुमुडिप्रियाय । कल्पनावल्लभाय । पुण्यापुण्यफलप्रदाय नमः । १०० ॐ दयारूपाय नमः । वानतुल्याय । पन्तळप्रभुपालिताय । दुष्टनाशकराय । दुराचारशमनाय । शिष्टरक्षातत्पराय । दिव्यमनस्विने । शुद्धमनस्विने । साधुमानसविराजिताय । दिव्यज्योतिषे । मकरज्योतिषे । ज्योतिप्रभाकारणाय । तिर्यक् सेविताय । चराचरात्मने । बाललीलातत्पराय । धर्मरूपाय । धनाद्ध्यक्षाय । समस्तैश्वर्यदायकाय । धर्मप्रदाय । अर्थप्रदाय नमः । १२० ॐ कामप्रदाय नमः । मोक्षप्रदाय । ध्यातरूपाय । ध्येयरूपाय । दिव्याभरणभूषिताय । धनरूपाय । धान्यरूपाय । धनधान्यविवर्धिताय । सुन्दराङ्गाय । प्रसन्नवदनाय । सोमार्धधारिनन्दनाय । सर्वेन्द्रियस्थिताय । सदानन्दाय । सर्वसत्सङ्गकारकाय । स्वर्लोकनाथाय । सुप्रसन्नाय । सहस्रार्कप्रभाशोभिताय । सह्याद्रिनिलयाय । सह्याधिपतये । सर्वापमृत्युनिवारकाय नमः । १४० ॐ सुरवन्द्याय नमः । सुरपूजिताय । विशुद्धज्ञानदेहिने । सर्वौषधाय । महाभिषग्वराय । सर्वज्वरार्त्तिनाशनाय । सर्ववन्द्याय । सदावन्द्याय । सर्वोपर्युपस्थिताय । सर्वाधाराय । शबरीवासाय । षड्गुणपरिपूरिताय । सत्यरूपाय । ज्ञानरूपाय । आनन्दरूपाय । सनातनाय । शरच्चन्द्रवदनाय । षडाधारस्थिताय । अष्टादशपदाधिपतये । श्रेयस्कराय नमः । १६० ॐ शान्तिदायकाय नमः । शरणध्वनिश्रवणतल्पराय । शाश्वताय । शैलनिलयाय । शाश्वतैश्वर्यदायकाय । षडाधाराय । योगाधाराय । सहस्राम्बुजस्थिताय । मन्त्ररूपाय । तन्त्ररूपाय । यन्त्ररूपाय । सुरेश्वराय । मध्यमाय । वैखरीरूपाय । पश्यन्ते । सर्वभूतहृदयेश्वराय । मायातीताय । महामतये । अमेयाय । कुसुमप्रियाय नमः । १८० ॐ मणिकण्ठाय नमः । आमोदप्रदाय । श्रीनीलकण्ठनन्दनाय । अतुल्ययौवनयुक्ताय । अप्राप्तयौवनाय । अनितरशक्तिवैभवाय । निर्मलचित्ताय । एकदेवाय । परमैश्वर्यनिलयाय । निश्चलचित्ताय । निरुपमाय । नारदादिसंसेविताय । नित्याय । निर्मलचरिताय । निर्विकल्पाय । निरामयाय । विप्रपूजिताय । विप्रवन्दिताय । दुर्भ्यवलोकनायकाय । वरदाय नमः । २०० ॐ वननिवासाय नमः । व्याघ्रोपर्युपस्थिताय । वनजाताय । वनराजाय । वन्यमृगसंसेविताय । विश्वपूजिताय । विश्ववन्दिताय । सर्वविश्वैकरक्षकाय । वित्तदायकाय । विद्यादायकाय । विविधाकाराय । हितकराय । वावर् मित्राय । वन्यमृगेश्वराय । दुर्दशानिवारकाय । कल्याणरूपाय । कमनीयरूपाय । रत्नाभरणभूषिताय । करिमुखसोदराय । षण्मुखसोदराय नमः । २२० ॐ चतुर्मुखादिवन्दिताय नमः । घृताभिषेकप्रियाय । पुष्पाभिषेकप्रियाय । भस्माभिषेकप्रियाय । वनेश्वराय । सङ्गीतप्रियाय । काव्यसंस्थिताय । कालारिप्रियनन्दनाय । कान्तमानसाय । कारण्वेश्वराय । करुणामृतसागराय । करिमलवासाय । नीलिमलवासाय । उत्तुङ्गश‍ृङ्गवासिताय । कोमळाकाराय । कोमळाननाय । भक्तहृदयविराजिताय । कामरूपाय । प्रियङ्कराय । लोकमाताप्रियमानसाय नमः । २४० ॐ कालातीताय नमः । गुणातीताय । वाञ्छितफलदायकाय । करुणासागराय । करुणानिधये । काञ्चनगेहवासिने । कल्पनातीताय । केरळेश्वराय । दिव्यकाञ्चनविग्रहाय । कलिकालजाताय । कलिहीनाय । कलिकालजनरक्षकाय । अनन्ताय । आद्यन्तहीनाय । पम्पातीरविराजिताय । अमितप्रभाय । नित्यप्रभाय । अर्कप्रभाकारकाय । अवस्थाहेतवे । अवस्थारहिताय नमः । २६० ॐ अकालमृत्युनिवारकाय नमः । अमराय । अज्ञानान्तकाय । शैवविष्णुशक्तिसमन्विताय । अर्काय । अनघाय । अनिलाय । अष्टादशसोपानोपर्युपस्थिताय । अद्वैताय । द्वैतरहिताय । केवलज्ञानदायकाय । अन्नदानप्रभवे । विभवे । अन्नरूपाय । ऊर्जकारणाय । आधारसूनवे । मोहिनिसूनुवे । अनन्तगुणपूरिताय । आत्मरूपाय । आत्मानन्ददायकाय नमः । २८० ॐ परब्रह्मस्वरूपकाय नमः । रणवीराय । रामेश्वरराजे । रामेश्वरप्रियनन्दनाय । तारेश्वराय । नवग्रहेश्वराय नम । सर्वशक्तिसमन्विताय । योगाधाराय । तुरियाय । सदाचारतत्पराय । योगीश्वराय । योगाचार्याय । षडाधारोपर्युपस्थिताय । महायोगिने । दिव्ययोगिने । योगाचारतत्पराय । ब्रह्मात्मैक्यस्वरूपाय । अनाथबान्धवाय । बृहद्भावनावैभवाय । सर्वभूतानां सर्वथा जाग्रत्स्वप्नसुषुप्तिसाक्षिदेवो श्रीहरिहरनन्दनाय । तुभ्यं नमः । ३०१ इति श्रीहरिदासविरचितं श्री शबरिगिरीश्वर-प्रीतिविधायकं श्रीधर्मशास्तात्रिशती नामावलि सम्पूर्णम् ।