अक्षर आकार:

अवधूताष्टकं स्वामीशुकदेवस्तुतिः च

avadhUtAShTakam

अवधूताष्टकं स्वामीशुकदेवस्तुतिः च

श्री परमात्मने नमः ॥ अथ परमहंस शिरोमणि-अवधूत-श्रीस्वामीशुकदेवस्तुतिः निर्वासनं निराकाङ्क्षं सर्वदोषविवर्जितम् । निरालम्बं निरातङ्कं ह्यवधूतं नमाम्यहम् ॥ १॥ निर्ममं निरहङ्कारं समलोष्टाश्मकाञ्चनम् । समदुःखसुखं धीरं ह्यवधूतं नमाम्यहम् ॥ २॥ अविनाशिनमात्मानं ह्येकं विज्ञाय तत्वतः । वीतरागभयक्रोधं ह्यवधूतं नमाम्यहम् ॥ ३॥ नाहं देहो न मे देहो जीवो नाहमहं हि चित् । एवं विज्ञाय सन्तुष्टम् ह्यवधूतं नमाम्यहम् ॥ ४॥ समस्तं कल्पनामात्रं ह्यात्मा मुक्तः सनातनः । इति विज्ञाय सन्तुष्टं ह्यवधूतं नमाम्यहम् ॥ ५॥ ज्ञानाग्निदग्धकर्माणं कामसङ्कल्पवर्जितम् । हेयोपादेयहीनं तं ह्यवधूतं नमाम्यहम् ॥ ६॥ व्यामोहमात्रविरतौ स्वरूपादानमात्रतः । वीतशोकं निरायासं ह्यवधूतं नमाम्यहम् ॥ ७॥ आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ । उदासीनं सुखासीनं ह्यवधूतं नमाम्यहम् ॥ ८॥ स्वभावेनैव यो योगी सुखं भोगं न वाञ्छति । यदृच्छालाभसन्तुष्टं ह्यवधूतं नमाम्यहम् ॥ ९॥ नैव निन्दाप्रशंसाभ्यां यस्य विक्रियते मनः । आत्मक्रीडं महात्मानं ह्यवधूतं नमाम्यहम् ॥ १०॥ नित्यं जाग्रदवस्थायां स्वप्नवद्योऽवतिष्ठते । निश्चिन्तं चिन्मयात्मानं ह्यवधूतं नमाम्यहम् ॥ ११॥ द्वेष्यं नास्ति प्रियं नास्ति नास्ति यस्य शुभाशुभम् । भेदज्ञानविहीनं तं ह्यवधूतं नमाम्यहम् ॥ १२॥ जडं पश्यति नो यस्तु जगत् पश्यति चिन्मयम् । नित्ययुक्तं गुणातीतं ह्यवधूतं नमाम्यहम् ॥ १३॥ यो हि दर्शनमात्रेण पवते भुवनत्रयम् । पावनं जङ्गमं तीर्थं ह्यवधूतं नमाम्यहम् ॥ १४॥ निष्कलं निष्क्रियं शान्तं निर्मलं परमामृतम् । अनन्तं जगदाधारं ह्यवधूतं नमाम्यहम् ॥ १५॥ ॥ इति अवधूताष्टकं समाप्तम् ॥