अक्षर आकार:

अर्जुनद्वादशनामस्तोत्रम्

arjunadvAdashanAmastotram

अर्जुनद्वादशनामस्तोत्रम्

अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः ॥ बीभत्सुर्विजयी पार्थः सव्यसाची धनञ्जयः ॥ १॥ कपिध्वजो गुडाकेशो गाण्डीवी कृष्णसारथिः । एतान्यर्जुननामानि गवां गोष्ठे च यो लिखेत् ॥ २॥ न तत्र पशुरोगादि शुभं शीघ्रं प्रजायते ॥ इति अर्जुनद्वादशनामस्तोत्रं सम्पूर्णम् ॥