अक्षर आकार:

अपराधक्षमा

Aparadhakshama

अपराधक्षमा

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । संसारघूर्णसन्तापव्याध्याधिभयपीडिता । उद्धारय मदाचार्य अहमस्मि तवाश्रिता ॥ १॥ क्षुद्रचिन्ताकुलोपेता वैकल्यसङ्कुलान्विता । आचार्य तव कर्तव्यं मच्छिद्रन्यूनतापहम् ॥ २॥ अपराधचयं क्षाम्यं गुरुदेव कृपां कुरु । तवास्मीत्येव जानामि अन्यं जाने न मत्प्रभो ॥ ३॥ न जाने भक्तिवैराग्यं न जाने धर्मसच्चरम् । न जाने वेदवेदान्तं न जाने ज्ञानसत्फलम् ॥ ४॥ रागतालं न जानामि जाने न कृतिकीर्तनम् । जपमन्त्रं च जाने न जाने न नामपूजनम् ॥ ५॥ नादसज्ज्ञानभिक्षां च नाममन्त्रोपदेशनम् । नामसद्‍ध्याननिष्ठां च देहि मे नादसँल्लयम् ॥ ६॥ नामसङ्कीर्तनानन्दचिन्मयं कुरु मे गुरो । दर्शनं तव दिव्यं च कुरु मे तव सात्मताम् ॥ ७॥ मङ्गलं ते मदाचार्य त्यागब्रह्मगुरुप्रभो । मङ्गलं तव पादाय पुष्पार्चिताय मङ्गलम् ॥ ८॥ इत्यपराधक्षमानामैतत्प्रार्थना सद्गुरुश्रीत्यागराजस्वामिनः शुभचरणपुष्पे गुरुशरणार्थिपुष्पया समर्पिता । ॐ शुभमस्तु । Copyright Pushpa Srivatsan