अक्षर आकार:

माता अमृतानन्दमयी अष्टोत्तरशतनामावली

mAtA amRitAnandamayI aShTottarashata nAmAvali

माता अमृतानन्दमयी अष्टोत्तरशतनामावली

॥ ॐ अमृतेश्वर्यै नमः ॥ ध्यान श्लोकः । ध्यायामोधवलावगुण्ठनवतीं तेजोमयीं नैष्ठिकीम् स्निग्धापाङ्गविलोकिनीं भगवतीं मन्दस्मित श्रीमुखीम् । वात्सल्यामृतवर्षिणीं सुमधुरं सङ्कीर्तनालापिनीम् श्यामाङ्गीं मधुसिक्तसूक्तम् अमृतानन्दात्मिकामीश्वरीम् ॥ ॐ पूर्ण-ब्रह्म-स्वरूपिण्यै नमः । ॐ सच्चिदानन्द-मूर्तये नमः । ॐ आत्मारामाग्रगण्यायै नमः । ॐ योग-लीनान्तरात्मने नमः । ॐ अन्तर्मुख स्वभावायै नमः । ॐ तुर्य-तुङ्ग-स्थलीजुषे नमः । ॐ प्रभामण्डल-वीतायै नमः । ॐ दुरासद-महौजसे नमः । ॐ त्यक्त-दिग्वस्तु-कालादि-सर्वावच्छेद-राशये नमः । १० । ॐ सजातीय-विजातीय-स्वीय-भेद-निराकृते नमः । ॐ वाणी-बुद्धि-विमृग्यायै नमः । ॐ शश्वदव्यक्त-वर्त्मने नमः । ॐ नाम-रूपादि शून्यायै नमः । ॐ शून्य-कल्प-विभूतये नमः । ॐ षडैश्वर्य-समुद्रायै नमः । ॐ दूरीकृत-षडूर्मये नमः । ॐ नित्य-प्रबुद्ध-संशुद्ध-निर्मुक्तात्म-प्रभामुचे नमः । ॐ कारुण्याकुल-चित्तायै नमः । ॐ त्यक्त-योग-सुषुप्तये नमः । ॐ केरलक्षमावतीर्णायै नमः । २० । ॐ मानुषस्त्री-वपुर्भृते नमः । ॐ धर्मिष्ठ-सुगुणानन्द-दमयन्ती-स्वयंभुवे नमः । ॐ माता-पितृ-चिराचीर्ण-पुण्यपूर-फलात्मने नमः । ॐ निःशब्द-जननीगर्भ-निर्गमाद्भुत-कर्मणे नमः । ॐ काली-श्रीकृष्ण-सङ्काश-कोमल-श्यामल-त्विषे नमः । ॐ चिरनष्ट-पुनर्लब्ध-भार्गवक्षेत्र-सम्पदे नमः । ॐ मृतप्राय-भृगुक्षेत्र-पुनरुद्धित-तेजसे नमः । ॐ सौशील्यादि-गुणाकृष्ट-जङ्गम-स्थावरालये नमः । ॐ मनुष्य-मृग-पक्ष्यादि-सर्व-संसेविताङ्घ्रये नमः । ॐ नैसर्गिक-दया-तीर्थ-स्नान-क्लिन्नान्तरात्मने नमः । ३० । ॐ दरिद्र-जनता-हस्त-समर्पित-निजान्धसे नमः । ॐ अन्यवक्त्र-प्रभुक्तान्न-पूरित-स्वीय-कुक्षये नमः । ॐ सम्प्राप्त-सर्व-भूतात्म-स्वात्म-सत्तानुभूतये नमः । ॐ अशिक्षित-स्वयंस्वान्त-स्फुरत्-कृष्ण-विभूतये नमः । ॐ अच्छिन्न-मधुरोदार-कृष्ण-लीलानुसन्धये नमः । ॐ नन्दात्मज मुखालोक-नित्योत्कण्ठित-चेतसे नमः । ॐ गोविन्द-विप्रयोगाधि-दाव-दग्धान्तरात्मने नमः । ॐ वियोग-शोक-सम्मूर्च्छा-मुहु-पतित-वर्ष्मणे नमः । ॐ सारमेयादि-विहित-शुश्रूषा-लब्ध-बुद्धये नमः । ॐ प्रेमभक्ति-बलाकृष्ट-प्रादुर्भावित-शार्ङ्गिणे नमः । ४० । ॐ कृष्णालोक-महाह्लाद-ध्वस्त-शोकान्तरात्मने नमः । ॐ काञ्ची-चन्द्रक-मञ्जीर-वंशी-शोभि-स्वभू-दृशे नमः । ॐ सार्वत्रिक-हृषीकेश-सान्निध्य-लहरी-स्पृशे नमः । ॐ सुस्मेर-तन्-मुखालोक-विस्मेरोत्फुल्ल-दृष्टये नमः । ॐ तत्कान्ति-यमुना-स्पर्श-हृष्ट-रोमाङ्ग-यष्टये नमः । ॐ अप्रतीक्षित-सम्प्राप्त-देवी-रूपोपलब्धये नमः । ॐ पाणी-पद्म-स्वपद्वीण-शोभमानांबिका-दृशे नमः । ॐ देवी-सद्यः-तिरोधान-ताप-व्यथित-चेतसे नमः । ॐ दीन-रोदन-निर्घोष-दीर्ण-दिक्कर्ण-वर्त्मने नमः । ॐ त्यक्तान्न-पान-निद्रादि-सर्व-दैहिक-धर्मणे नमः । ५० । ॐ कुररादि-समानीत-भक्ष्य-पोषित-वर्त्मणे नमः । ॐ वीणा-निष्यन्दि-सङ्गीत-लालित-श्रुतिनालये नमः । ॐ अपार-परमानन्द-लहरी-मग्न-चेतसे नमः । ॐ चण्डिका-भीकराकार-दर्शनालब्ध-शर्मणे नमः । ॐ शान्त-रूपामृत-झरी-पारणे-निर्वृतात्मने नमः । ॐ शारदा-स्मारकाशेष-स्वभाव-गुण-सम्पदे नमः । ॐ प्रतिबिम्बित-चान्द्रेय-शारदोभय-मूर्त्तये नमः । ॐ तन्नाटकाभिनयन-नित्य-रङ्गयितात्मने नमः । ॐ चान्द्रेय-शारदा-केलि-कल्लोलित-सुधाब्धये नमः । ॐ उत्तेजित-भृगुक्षेत्र-दैव-चैतन्य-रंहसे नमः । ६० । ॐ भूयः प्रत्यवरुद्धार्ष-दिव्य-संस्कार-राशये नमः । ॐ अप्राकृताद्भुतानन्द-कल्याण-गुण-सिन्धवे नमः । ॐ ऐश्वर्य-वीर्य-कीर्ति-श्री-ज्ञान-वैराग्य-वेश्मने नमः । ॐ उपात्त-बालगोपाल-वेषभूषा-विभूतये नमः । ॐ स्मेर-स्निग्ध-कटाक्षायै नमः । ॐ स्वैराध्युषित-वेदये नमः । ॐ पिञ्छ-कुण्डल-मञ्जीर-वंशिका-किङ्किणी-भृते नमः । ॐ भक्त-लोकाखिलाभीष्ट-पूरण प्रीणनेच्छवे नमः । ॐ पीठारूढ-महादेवीभाव-भास्वर-मूर्तये नमः । ॐ भूषणाम्बर-वेशश्री-दीप्यमानाङ्ग-यष्टये नमः । ७० । ॐ सुप्रसन्न-मुखांभोज-वराभयद-पाणये नमः । ॐ किरीट-रशना-कर्णपूर-स्वर्णपटी-भृते नमः । ॐ जिह्व-लीढ-महारोगि-बीभत्स-व्रैणित-त्वचे नमः । ॐ त्वग्रोग-ध्वंस-निष्णात-गौराङ्गापर-मूर्तये नमः । ॐ स्तेय-हिंसा-सुरापानाद्यशेषाधर्म-विद्विषे नमः । ॐ त्याग-वैराग्य-मैत्र्यादि-सर्व-सद्वासना-पुषे नमः । ॐ पादाश्रित-मनोरूढ-दुस्संस्कार-रहोमुषे नमः । ॐ प्रेम-भक्ति-सुधासिक्त-साधु-चित्त-गुहाजुषे नमः । ॐ सुधामणि महानाम्ने नमः । ॐ सुभाषित-सुधामुचे नमः । ८० । ॐ अमृतानन्द-मय्याख्या-जनकर्ण-पुटस्पृशे नमः । ॐ दृप्त-दत्त-विरक्तायै नमः । ॐ नम्रार्पित-बुभुक्षवे नमः । ॐ उट्सृष्ट-भोगि-सङ्गायै नमः । ॐ योगि-संग-रिरंसवे नमः । ॐ अभिनन्दित-दानादि-शुभ-कर्माभिवृद्धये नमः । ॐ अभिवन्दित-निःशेष-स्थिर-जंगम-सृष्टये नमः । ॐ प्रोत्साहित-ब्रह्मविद्या-सम्प्रदाय-प्रवृत्तये नमः । ॐ पुनरासादित-श्रेष्ठ-तपोविपिन-वृत्तये नमः । ॐ भूयो-गुरुकुलावास-शिक्षणोत्सुक-मेधसे नमः । ९० । ॐ अनेक-नैष्ठिक-ब्रह्मचारि-निर्मातृ-वेधसे नमः । ॐ शिष्य-सङ्क्रामित-स्वीय-प्रोज्वलद्-ब्रह्म-वर्चसे नमः । ॐ अन्तेवासि-जनाशेष-चेष्टा-पातित-दृष्टये नमः । ॐ मोहान्धकार-सञ्चारि-लोकानुग्राहि-रोचिषे नमः । ॐ तमः-क्लिष्ट-मनोवृष्ट-स्वप्रकाश-शुभाशिषे नमः । ॐ भक्त-शुद्धान्तरङ्गस्थ-भद्र-दीप-शिखा-त्विषे नमः । ॐ सप्रीति-भुक्त-भक्तौघन्यर्पित-स्नेह-सर्पिषे नमः । ॐ शिष्य-वर्य-सभा-मध्य ध्यान-योग-विधित्सवे नमः । ॐ शश्वल्लोक-हिताचार-मग्न-देहेन्द्रियासवे नमः । ॐ निजपुण्य-प्रदानान्य-पापादान-चिकीर्षवे नमः । १०० । ॐ प्रस्वर्यापन-स्वीय-नरक-प्राप्ति-लिप्सवे नमः । ॐ रथोत्सव-चलत्-कन्याकुमारी-मर्त्य-मूर्तये नमः । ॐ विमोहार्णव-निर्मग्न-भृगु-क्षेत्रो-ज्जिहीर्षवे नमः । ॐ पुनस्सन्तानित-द्वैपायन-सत्कुल-तन्तवे नमः । ॐ वेद-शास्त्र-पुराणेतिहास-शाश्वत-बन्धवे नमः । ॐ भृगुक्षेत्र-समुन्मीलत्-परदैवत-तेजसे नमः । ॐ देव्यै नमः । ॐ प्रेमामृतानन्दमय्यै नित्यं नमो नमः । १०८ । ॥ ॐ अमॄतेश्वर्यै नमः ॥ This is from The Archana Book.