अक्षर आकार:

अग्निस्तोत्रम्

Agnistotram

अग्निस्तोत्रम्

ॐ नमः सर्वभूतानां साधनाय महात्मने । एकद्विपञ्चधिष्ण्याय राजसूये षडात्मने ॥ १॥ नमः समस्तदेवानां वृत्तिदाय सुवर्चसे । शुक्ररूपाय जगतामशेषाणां स्थितिप्रदः ॥ २॥ त्वं मुखं सर्वदेवानां त्वयात्तं भगवन्हविः । प्रीणयस्यखिलान्देवांस्त्वत्प्राणाः सर्वदेवताः ॥ ३॥ हुतं हविस्त्वय्यनल मेधत्वमुपगच्छति । ततश्च जलरूपेण परिणाममुपैति यत् ॥ ४॥ तेनाखिलौषधीजन्म भवत्यनिलसारथे । औषधीभिरशेषाभिः सुखं जीवन्ति जन्तवः ॥ ५॥ वितन्वते नरा यज्ञांस्त्वत्सृष्टास्वोषधीषु च । यज्ञैर्देवास्तथा दैत्यास्तद्वद्रक्षांसि पावक ॥ ६॥ आप्याय्यन्ते च ते यज्ञास्त्वदाधारा हुताशन । अतः सर्वस्य योनिस्त्वं वह्ने सर्वमयस्तथा ॥ ७॥ देवता दानवा यक्षा दैत्या गन्धर्वराक्षसाः । मानुषाः पशवो वृक्षा मृगपक्षिसरीसृपाः ॥ ८॥ आप्याय्यन्ते त्वया सर्वे संवर्ध्यन्ते च पावक । त्वत्त एवोद्भवं यान्ति त्वय्यन्ते च तथा लयम् ॥ ९॥ अपः सृजसि देवत्वं त्वमत्सि पुनरेव ताः । पच्यमानास्त्वया ताश्च प्राणिनां पुष्टिकारणम् ॥ १०॥ देवेषु तेजोरूपेण कान्त्या सिद्धेष्ववस्थितः । विषरूपेण नागेषु वायुरूपः पतत्त्रिषु ॥ ११॥ मनुजेषु भवान्क्रोधो मोहः पक्षिमृगादिषु । अवष्टम्भोसि तरुषु काठिन्यं त्वं महीं प्रति ॥ १२॥ जले द्रवस्त्वं भगवाञ्जवरूपी तथाऽनिले । व्यापित्वेन तथैवाग्ने नभसि त्वं व्यवस्थितः ॥ १३॥ त्वमग्ने सर्वभूतानामन्तश्चरसि पालयन् । त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधः पुनः ॥ १४॥ त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् । त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः ॥ १५॥ var स्पष्टमिदं त्वामृते हि जगत्सर्वं सद्यो नश्येद्धुताशन । तुभ्यं कृत्वा द्विजः पूजां स्वकर्मविहितां गतिम् ॥ १६॥ प्रयान्ति हव्यकव्याद्यैः स्वधास्वाहाभ्युदीरणात् । परिणामात्मवीर्याणि प्राणिनाममरार्चित ॥ १७॥ दहन्ति सर्वभूतानि ततो निष्क्रम्य हेतयः । जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते ॥ १८॥ तवैव वैदिकं कर्म सर्वभूतात्मकं जगत् । नमस्तेऽनल पिङ्गाक्ष नमस्तेऽस्तु हुताशन! ॥ १९॥ पावकाद्य नमस्तेऽस्तु नमस्ते हव्यवाहन । त्वमेव सर्वभूतानां पावनाद्विश्वपावनः ॥ २०॥ त्वमेव भुक्तपीतानां पाचनाद्विश्वपाचकः । सस्यानां पाककर्ता त्वं पोष्टा त्वं जगतस्तथा ॥ २१॥ त्वमेव मेघस्त्वं वायुस्त्वं बीजं सस्यहेतुकम् । पोषाय सर्वभूतानां भूतभव्यभवो ह्यसि ॥ २२॥ त्वं ज्योतिः सर्वभूतेषु त्वमादित्यो विभावसुः । त्वमहस्त्वं तथा रात्रिरुभे सन्ध्ये तथा भवान् ॥ २३॥ हिरण्यरेतास्त्वं वह्ने हिरण्योद्भवकारणम् । हिरण्यगर्भश्च भवान्हिरण्यसदृशप्रभः ॥ २४॥ त्वं मुहूर्तं क्षणश्च त्वं, त्वं त्रुटिस्त्वं तथा लवः । कलाकाष्ठानिमेषादिरूपेणासि जगत्प्रभो! ॥ २५॥ त्वमेतदखिलं कालः परिणामात्मको भवान् । या जिह्वा भवतः काली कालनिष्टाकरी प्रभो । तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २६॥ करालीनाम या जिह्वा महाप्रलयकारणम् । तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २७॥ मनोजवा च या जिह्वा लघिमागुणलक्षणा । तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २८॥ करोति कामं भूतेभ्यो या ते जिह्वा सुलोहिता । तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २९॥ सुधूम्रवर्णा या जिह्वा प्राणिनां रोगदायिका । तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३०॥ स्फुलिङ्गिनी च या जिह्वा यतः सकलपुद्गलाः । तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३१॥ याते विश्वसृजा जिह्वा प्राणिनां शर्मदायिनी । तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३२॥ पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्म हुताशन । त्राहिमां सर्वदोषेभ्यः संसारादुद्धरेह माम् ॥ ३३॥ प्रसीद वह्ने सप्तार्चिः कृशानो हव्य वाहन । अग्निपावक शुक्रादि नामाष्टाभिरुदीरितः ॥ ३४॥ अग्नेऽग्रे सर्वभूतानां समुत्पत्तिरिभावसो । प्रसीद हव्यवाहाख्य, अभिष्टुत मयाव्यय ॥ ३५॥ त्वमक्षयो वह्निरचिन्त्य रूपः समृद्धिमन्दुष्प्रसहाऽतितीव्रः । तवाव्ययं भीममशेषलोक संवर्धकं हन्त्यधवातिवीर्यम् ॥ ३६॥ त्वमुत्तमं तत्त्वमशेष सत्व हृत्पुण्डरीकस्थमनन्तमीड्यम् । त्वया ततं विश्वमिदं चराचरं हुताशनैको बहुधा त्वमत्र! ॥ ३७॥ त्वमक्षयः सगिरिवना वसुन्धरा नभः ससोमार्कमहर्दिवाखिलं! । महोदधेर्जठर गतश्च बाडबो भवान्विभुः पिबति पयांसि पावक ॥ ३८॥ हुताशनस्त्वमिति सदाभि पूज्यसे महाक्रतौ नियमपरैर्महर्षिभिः । अभिष्टुतः पिसिसि च सोममध्वरे वषट्कृतान्यपि च हवीषि भूतये ॥ ३९॥ त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वथ सकलेषु गीय से त्वं । त्वद्धेतोर्यजन परायणा द्विजेन्द्रा वेदाङ्गान्यधिगमयन्ति सर्वकाले ॥ ४०॥ त्वं ब्रह्मा यजनपरस्तथैव विष्णुः भूतेशः सुरपतिरर्यमा जलेशः । सूर्येन्दू सकल सुरासुराश्च हव्यैः सन्तोष्याऽभिमतफलान्यथाप्नुवन्ति ॥ ४१॥ अर्चिभिः परममहोपघातदुष्टं संस्पृष्टं तव शुचि जायते समस्तम् । स्नानानां परममतीव भस्मना सत्सन्ध्यायां मुनिभिरतीव सेव्यसे तत् ॥ ४२॥ तत्कृत्वा त्रिदिवमवाप्नुवन्ति लोकाः सद्भक्त्या सुखनियताः समूहगतिम् । प्रसीदवह्ने शुचिनामधेय प्रसीद वायो विमलातिदीप्ते ॥ ४३॥ प्रसीद मे पावक वैद्युताभ प्रसीद हव्याशन पाहि मां त्वम् । यत्तेवह्ने शिवं रूपं ये च ते सप्त हेतयः । तैः पाहि न स्तुतोदेव पिता पुत्रमिवात्मजम् ॥ ४४॥ इति श्रीमार्कण्डेयपुराणे भौत्यमन्वन्तरेऽग्निस्तोत्रं सम्पूर्णम् । षण्ण्वतितमोऽध्यायः । Markandeyapurana adhyAya 96, verses 27-72 Verse numbers slightly differ from print to print.