अक्षर आकार:

अग्निसहस्रनामस्तोत्रम्

Agni Sahasranama Stotram

अग्निसहस्रनामस्तोत्रम्

ॐ श्रीगणेशाय नमः । श्रीगुरुः शरणम् । श्रीकाञ्चीकामकोटीमठपयतिवरं शङ्करार्यस्वरूपम् सुज्ञानं सार्वभौमं सकलमतविदां पालकं द्वैतहीनम् । काले कल्किप्रभावान्निगमगिरिमधस्तात्पतन्तं वहन्तं वन्दे कूर्मस्वरूपं हरिमिव सततं चन्द्रमौळिं यतीन्द्रम् ॥ श्रीमन्महादेवयतीश्वराणां कराब्जजातं सुयमीन्द्रमुख्यम् । सर्वज्ञकल्पं विधिविष्णुरूपं श्रीचन्द्रमौळीन्द्रयतिं नमामि ॥ श्रीशङ्कराचर्यगुरुस्वरूपं श्रीचन्द्रमौळीन्द्रकराब्जजातम् । श्रीकामकोटीन्द्रयतिं वरेण्यं श्रीमज्जयेन्द्रं शरणं प्रपद्ये ॥ वेदाख्यवृक्षमनिशं परिपालयन्तं विद्वद्वरेण्यपततां भुवि कल्पवृक्षम् । नित्यं हसन्मुखमनोज्ञशशिस्वरूपं श्रीमज्जयेन्द्रमनिशं शरणं प्रपद्ये ॥ जगद्गुरुभ्यां विबुधार्चिताभ्यां श्रीचन्द्रमौळीन्द्रजयेन्द्रकाभ्याम् । श्रीकामकोटीश्वरशङ्कराभ्यां नमः सुविद्रक्षणदीक्षिताभ्याम् ॥ ॥ इति श्रीगुरुचरणदासः साम्बदीक्षितशर्मा हरितः - श्रीक्षेत्रगोकर्णम् ॥ श्रीगणेशाय नमः । वाङ्मुखम् - मातरं पितरं नत्वा लक्ष्मीं दामोदरं तथा ॥ पूर्वैः सदेडितं चाग्निं गुरुं गणपतिं विभुम् ॥ १॥ अग्नेर्नामसस्राणां सङ्ग्रहं वेदतो मया । उद्धृत्य क्रियते भक्त्या चित्रभानुप्रतुष्टये ॥ २॥ अत्र प्रमाणमृग्वेदे शुनःशेपो वसुश्च तौ । यदाहतुर्मन्त्रवर्णैर्मर्ता, अग्नेर्वयम्, इति ॥ ३॥ काण्वोवसुः मर्ता अम॑र्त्यस्य ते॒ भूरि॒नाम॑ मनामहे । विप्रा॑सो जा॒तवे॑दसः ॥ आजीगर्तिः शुनःशेपः - अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑दे॒वस्य॒ नाम॑ । स नो॑ म॒ह्या अदि॑तये॒ मुन॑र्दात् पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥ अस्य नाम्नां सहस्रस्य ऋषिः श्रीब्रह्मणस्पतिः । सर्वमन्त्रप्रभुः साक्षादग्निरेव हि देवता ॥ ४॥ अनुष्टुप् त्रिष्टुप् शक्वर्यश्छन्दांसि सुमहन्ति च । धर्मार्थकाममोक्षार्थं विनियोगो जपादिपु ॥ ५॥ ध्यानं चत्वारि श‍ृङ्गेति वामदेवर्षि दर्शनम् । आग्नेयं दैवतं त्रिष्टुप् छन्दो जाप्ये हि युज्यते ॥ ६॥ ॐ चत्वारि॒श‍ृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य । त्रिधा॑ ब्द्धो वृ॑ष॒भो रो॑रवीति म॒हे दे॒वो म॑र्त्या॒आवि॑वेश ॥ ॐ श्रीगणेशाय नमः । ॐ श्रीसरस्वत्यै नमः । अथाग्निसहस्रनामस्तोत्रम् । ॐ अग्निर्वसुपतिर्होता दीदिवी रत्नधातमः । आध्रसाचित्पिता जातः शीर्षतः सुक्रतुर्युवा ॥ १॥ var आध्रस्यचित्पिता भासाकेतुर्बृहत्केतुर्बृहदर्चाः कविक्रतुः सत्यः सत्ययजो दूतो विश्ववेदा अपस्तमः ॥ २॥ स्वे दमे वर्धमानोऽर्हन्तनूकृन्मृळयत्तमः । क्षेमो गुहाचरन्नाभिः पृथिव्याः सप्तमानुषः ॥ ३॥ अद्रेः सूनुर्नराशंसो बर्हिः स्वर्णर ईळितः । पावको रेरिहत्क्षामा घृतपृष्ठो वनस्पतिः ॥ ४॥ सुजिह्वो यज्ञनीरुक्षन्सत्यमन्मा सुमद्रथः । समुद्रः सुत्यजो मित्रो मियेध्यो नृमणोऽर्यमा ॥ ५॥ पूर्व्यश्चित्ररथः स्पार्हः सुप्रथाः सहसोयहुः । यज्वा विमानो रजसा रक्षोहाऽथर्युरध्रिगुः ॥ ६॥ सहन्यो यज्ञियो धूमकेतुर्वाजोऽङ्गिरस्तमः । पुरुचन्द्रो वपूरेवदनिमानो विचर्षणिः ॥ ७॥ द्विमाता मेधिरो देवो देवानां शन्तमो वसुः । चोदिष्ठो वृषभश्चारूः पुरोगाः पुष्टिवर्धनः ॥ ८॥ रायोधर्ता मन्द्रजिह्वः कल्याणो वसुवित्तमः । जामिः पूषा वावशानो व्रतपा अस्तृतोऽन्तरः ॥ ९॥ सम्मिश्लोऽङ्गिरसां ज्येष्टो गवां त्राता महिव्रतः । विशां दूतस्तपुर्मूर्धा स्वध्वरो देववीतमः ॥ १०॥ प्रत्नो धनस्पृदविता तपुर्जम्मो महागयः । अरुषोऽतिथिरस्यद्मसद्वा दक्षपतिः सहः ॥ ११॥ तुविष्माञ्छवसासूनुः स्वधावा ज्योतिरप्सुजाः । अध्वराणां रथी श्रेष्ठः स्वाहुतो वातचोदितः ॥ १२॥ धर्णसिर्भोजनस्त्राता मधुजिह्वो मनुर्हितः । नमस्य ऋग्मियो जीरः प्रचेताः प्रभुराश्रितः ॥ १३॥ रोहिदश्वः सुप्रणीतिः स्वराड्गृत्सः सुदीदितिः । दक्षो विवस्वतो दूतो बृहद्भा रयिवान् रयिः ॥ १४॥ अध्वराणां पतिः सम्राड् घृष्विर्दास्वद्विशां प्रियः घृतस्नुरदितिः स्वर्वाञ्छ्रुत्कर्णो नृतमो यमः ॥ १५॥ अङ्गिराः सहसःसूनुर्वसूनामरतिः क्रतुः । सप्तहोता केवलोऽप्यो विभावा मघवा धुनिः ॥ १६॥ समिधानः प्रतरणः पृक्षस्तमसि तस्थिवान् । वैश्वानरो दिवोमूर्धा रोदस्योररतिः प्रियः ॥ १७॥ यज्ञानां नाभिरत्रिः सत्सिन्धूनाञ्जामिराहुतः । मातरिश्वा वसुधितिर्वेधा ऊर्ध्वस्तवो हितः ॥ १८॥ अश्वी भूर्णिरिनो वामो जनीनां पतिरन्तमः । पायुर्मर्तेषु मित्रोऽर्यः श्रुष्टिः साधुरहिरृभुः ॥ १९॥ भद्रोऽजुर्यो हव्यदातिश्चिकित्वान्विश्वशुक्पृणन् । शंसः संज्ञातरूपोऽपाङ्गर्भस्तुविश्रवस्तमः ॥ २०॥ गृध्नुःः शूरः सुचन्द्रोऽश्वोऽदब्धो वेधस्तमः शिशुः । वाजश्रवा हर्यमाण ईशानो विश्वचर्षणिः ॥ २१॥ पुरुप्रशस्तो वाध्र्यश्वोऽनूनवर्चाः कनिक्रदत् । हरिकेशो रथी मर्यः स्वश्वो राजन्तुविष्वणिः ॥ २२॥ तिग्मजम्भः सहस्राक्षस्तिग्मशोचिर्द्रुहन्तरः । ककुदुक्थ्यो विशां गोपा मंहिष्ठो भारतो मृगः ॥ २३॥ शतात्मोरुज्रया वीरश्चेकितानो धृतव्रतः । तनूरुक् चेतनोऽपूर्व्यो व्यध्वा चक्रिर्धियावसुः ॥ २४॥ श्रितः सिन्धुषु विश्वेष्वनेहा ज्येष्ठश्चनोहितः । अदाभ्यश्चोद ऋतुपा अमृक्तः शवसस्पतिः ॥ २५॥ गुहासद्वीरुधां गर्भः सुमेधाः शुष्मिणस्पतिः । सृप्रदानुः कवितमः श्वितानो यज्ञसाधनः ॥ २६॥ तुविद्युम्नोऽरुणस्तूपो विश्वविद्गातुवित्तमः । श्रुष्टीवाञ्छ्रेणिदन्दाता पृथुपाजाः सहस्कृतः ॥ २७॥ अभिश्रीः सत्यवाक्त्वेषो मात्रोः पुत्रो महिन्तमः । घृतयोनिर्दिदृक्षेयो विश्वदेव्यो हिरण्मयः ॥ २८॥ var हिरण्ययः अनुषत्यः कृष्णजंहाः शतनीथोऽप्रतिष्कुतः । इळायाः पुत्र ईळेन्यो विचेता वाघतामुशिक् ॥ २९॥ वीतोऽर्को मानुषोऽजस्रो विप्रः श्रोतोर्विया वृषः आयोयुवान आबाधो वीळुजम्भो हरिव्रतः ॥ ३०॥ दिवःकेतुर्भुवोमूर्धा सरण्यन्दुर्दभः सुरुक् । दिव्येन शोचिषा राजन्सुदीतिरिषिरो बृहत् ॥ ३१॥ सुदृशीको विशाङ्केतुः पुरुहूत उपस्थसद् । पुरोयावा पुर्वणीकोऽनिवृतः सत्पतिर्द्युमान् ॥ ३२॥ यज्ञस्य विद्वानव्यथ्यो दुर्वर्तु र्भूर्जयन्नपात् । अमृतः सौभगस्येशः स्वराज्यो देवहूतमः ॥ ३३॥ कीलालपा वीतिहोत्रो घृतनिर्णिक् सनश्रुतः । शुचिवर्णस्तुविग्रीवो भारती शोचिषस्पतिः ॥ ३४॥ सोमपृष्ठो हिरिश्मश्रुर्भद्रशोचिर्जुगुर्वणिः । ऋत्विक् पूर्वेभिरृषिभिरीड्यश्चित्रश्रवस्तमः ॥ ३५॥ भीमः स्तियानां वृषभो नूतनैरीड्य आसुरः । स्तभूयमानोऽध्वराणां गोपा विश्पतिरस्मयुः ॥ ३६॥ ऋतस्य गोपा जीराश्वो जोहूत्रो दम्पतिः कविः । ऋतजातो द्युक्षवचा जुह्वास्योऽमीवचातनः ॥ ३७॥ सोमगोपाः शुक्त्रशोचि र्घृताहवन आयजिः । असन्दितः सत्यधर्मा शशमानः शुशुक्वनिः ॥ ३८॥ वातजूतो विश्वरूपस्त्वष्टा चारुतमो महान् । इळा सरस्वती हर्षन्तिस्त्रो देव्यो मयोभुवः ॥ ३९॥ अर्वा सुपेशसौ देव्यौ होतारौ स्वर्पतिः सुभाः । देवीर्द्वारो जराबोधो हूयमानो विभावसुः ॥ ४०॥ सहसावान् मर्मृजेन्यो हिंस्त्रोऽमृतस्य रक्षिता । द्रविणोदा भ्राजमानो धृष्णुरूर्जाम्पतिः पिता ॥ ४१॥ सदायविष्ठो वरुणो वरेण्यो भाजयुः पृथुः । वन्द्योध्वराणां सम्राजन् सुशेवो धीरृषिः शिवः ॥ ४२॥ पृथुप्रगामा विश्वायुर्मीढ्वान्यन्ता शुचत् सखा । अनवद्यः पप्रथानः स्तवमानो विभुः शयुः ॥ ४३॥ श्वैत्रेयः प्रथमो द्युक्षो बृहदुक्षा सुकृत्तरः । वयस्कृदग्नित्तोकस्य त्राता प्रीतो विदुष्टरः ॥ ४४॥ तिग्मानीको होत्रवाहो विगाहः स्वतवान्भृमिः । जुजुषाणः सप्तरश्मिरृषिकृत्तुर्वणिः शुचिः ॥ ४५॥ भूरिजन्मा समनगाः प्रशस्तो विश्वतस्पृथुः । वाजस्य राजा श्रुत्यस्य राजा विश्वभरा वृषा ॥ ४६॥ सत्यतातिर्जातवेदास्त्वाष्टोऽमर्त्यो वसुश्रवाः । सत्यशुष्मो भाऋजीकोऽध्वरश्रीः सप्रथस्तमः ॥ ४७॥ पुरुरूपो बृहद्भानुर्विश्वदेवो मरुत्सखः । रुशदूर्मिर्जेहमानो भृगवान् वृत्रहा क्षयः ॥ ४८॥ वामस्यरातिः कृष्टीनां राजा रुद्रः शचीवसुः । दक्षैः सुदक्ष इन्धानो विश्वकृष्टिर्बृहस्पतिः ॥ ४९॥ अपांसधस्थो वसुविद्रण्वो भुज्म विशाम्पतिः । सहस्रवल्शो धरुणो वह्निः शम्भुः सहन्तमः ॥ ५०॥ अच्छिद्रोतिश्चित्रशोचिर्हृषीवानतिथिर्विशाम् । दुर्धरीतुः सपर्येण्यो वेदिषच्चित्र आतनिः ॥ ५१॥ दैव्यःकेतुस्तिग्महेतिः कनीनाञ्जार आनवः । ऊर्जाहुतिरृतश्चेत्यः प्रजानन्सर्पिरासुतिः ॥ ५२॥ गुहाचतञ्चित्रमहा द्व्रन्नः सूरो नितोशनः । क्रत्वाचेतिष्ठ ऋतचित्त्रिवरूथः सहस्रजित् ॥ ५३॥ सन्दृग्जूर्णिः क्षोदायुरुषर्भुद्वाजसातमः । नित्यः सूनुर्जन्य ऋतप्रजातो वृत्रहन्तमः ॥ ५४॥ वर्षिष्ठः स्पृहयद्वर्णो घृणिर्जातो यशस्तमः । वनेषु जायुः पुत्रःसन्पिता शुक्त्रो दुरोणयुः ॥ ५५॥ आशुहेमः क्षयद्घोरो देवानां केतुरह्नयः । दुरोकशोचिः पलितः सुवर्चा बहुलोऽद्भुतः ॥ ५६॥ राजा रयीणां निषत्तो धूर्षद्रूक्षो ध्रुवो हरिः । धर्मो द्विजन्मा सुतुकः शुशुक्वाञ्जार उक्षितः ॥ ५७॥ नाद्यः सिष्णुर्दधिः सिंह ऊर्ध्वरोचिरनानतः । शेवः पितूनां स्वाद्माऽऽहावोऽप्सु सिंह इव श्रितः ॥ ५८॥ गर्भो वनानाञ्चरथां गर्भो यज्ञः पुरूवसुः । क्षपावान्नृपतिर्मेध्यो विश्वः श्वेतोऽपरीवृतः ॥ ५९॥ स्थातां गर्भः शुक्रवर्चास्तस्थिवान् परमे पदे । विद्वान्मर्तागुंश्च देवानां जन्म श्येतः शुचिव्रतः ॥ ६०॥ ऋतप्रवीतः सुब्रह्मा सविता चित्तिरप्सुषद् । चन्द्रः पुरस्तूर्णितमः स्पन्द्रो देवेषु जागृविः ॥ ६१॥ पुर एता सत्यतर ऋतावा देववाहनः । अतन्द्र इन्द्रः ऋतुविच्छोचिष्ठः शुचिदच्छितः ॥ ६२॥ हिरण्यकेशः सुप्रीतो वसूनां जनिताऽसुरः । ऋभ्वा सुशर्मा देवावीर्दधद्रत्नानि दाशुषे ॥ ६३॥ पूर्वो दधृग्दिवस्पायुः पोता धीरः सहस्रसाः । सुमृळीको देवकामो नवजातो धनञ्जयः ॥ ६४॥ शश्वत्तमो नीलपृष्ठ ऋष्वो मन्द्रतरोऽग्रियः । स्वर्चिरंशो दारुरस्रिच्छितिपृष्ठो नमोवहन् ॥ ६५॥ पन्यांसस्तरुणः सम्राट् चर्षणीनां विचक्षणः । स्वङ्गः सुवीरः कृष्णाध्वा सुप्रतूर्तिरिळो मही ॥ ६६॥ यविष्ठ्यो दक्षुषवृको वाशीमानवनो घृतम् । ईवानस्ता विश्ववाराश्चित्रभानुरपां नपात् ॥ ६७॥ नृचक्षा ऊर्जयञ्च्छीरः सहोजा अद्भुतक्त्रतुः । बहुनामवमोऽभिद्युर्भानुर्मित्रमहो भगः ॥ ६८॥ वृश्चद्वनो रोरुचानः पृथिव्याः पतिराधृषः । दिवः सूनुर्दस्मवर्चा यन्तुरो दुष्टरो जयन् ॥ ६९॥ स्वर्विद्गणश्रीरथिरो नाकः शुभ्रोऽप्तुरः ससः । हिरिशिप्रो विश्वमिन्वो भृगूणां रातिरद्वयन् ॥ ७०॥ सुहोता सुरणः सुद्यौर्मन्धाता स्ववसः पुमान् । अश्वदावा श्रेष्ठशोचिर्यजीयान्हर्यतोऽर्णवः ॥ ७१॥ सुप्रतीकश्चित्रयामः स्वभिष्टिश्चक्षणीरुशन् । बृहत्सूरः पृष्टबन्धुः शचीवान्संयतश्चिकित् ॥ ७२॥ विशामीड्योऽहिंस्यमानो वयोधा गिर्वणास्तपुः । वशान्न उग्रोऽद्वयावी त्रिधातुस्तरणिः स्वयुः ॥ ७३॥ त्रययाय्यश्चर्षणीनां होता वीळुः प्रजापतिः । गुहमानो निर्मथितः सुदानुरिषितो यजन् ॥ ७४॥ मेधाकारो विप्रवीरः क्षितीनां वृषभोऽरतिः । वाजिन्तमः कण्वतमो जरिता मित्रियोऽजरः ॥ ७५॥ रायस्पतिः कूचिदर्थी कृष्णयामो दिविक्षयः । घृतप्रतीकश्चेतिष्ठः पुरुक्षुः सत्वनोऽक्षितः ॥ ७६॥ नित्यहोता पूतदक्षः ककुद्मान् क्रव्यवाहनः । दिधिषाय्यो दिद्युतानः सुद्योत्मा दस्युहन्तमः ॥ ७७॥ पुरुवारः पुरुतमो जर्हृषाणः पुरोहितः । शुचिजिह्वो जर्भुराणो रेजमानस्तनूनपात् ॥ ७८॥ आदितेयो देवतमो दीर्घतन्तुः पुरन्दरः । दिवियोनिर्दर्शतश्रीर्जरमाणः पुरुप्रियः ॥ ७९॥ ज्रयसानः पुरुप्रैषो विश्वतूर्तिः पितुष्पिता । सहसानः सञ्चिकित्वान् दैवोदासः सहोवृधः ॥ ८०॥ शोचिष्केशो धृषद्वर्णः सुजातः पुरुचेतनः । विश्वश्रुष्टिर्विश्ववर्य आयजिष्ठः सदानवः ॥ ८१॥ नेता क्षितीनां दैवीनां विश्वादः पुरुशोभनः । यज्ञवन्युर्वह्नितमो रंसुजिह्वो गुहाहितः ॥ ८२॥ त्रिषधस्थो विश्वधाया होत्राविद्विश्वदर्शतः । चित्रराधाः सूनृतावान् सद्योजातः परिष्कृतः ॥ ८३॥ चित्रक्षत्रो वृद्धशोचिर्वनिष्टो ब्रह्मणस्पतिः । बभ्रिः परस्पा उषसामिघानः सासहिः सदृक् ॥ ८४॥ वाजी प्रशंस्यो मधुपृक् चिकित्रो नक्ष्यः सुदक्षोऽदृपितो वसिष्ठः । दिव्यो जुषाणो रघुयत्प्रयज्युः दुर्यः सुराधाः प्रयतोऽप्रमृष्यः ॥ ८५॥ वातोपधूतो महिनादृशेन्यः श्रीणामुदारो धरुणो रयीणाम् । दीद्यद्रुरुक्व्वान्द्रविणस्युरत्यः श्रियंवसानः प्रवपन्यजिष्ठः ॥ ८६॥ वस्यो विदानो दिविजः पनिष्ठो दम्यः परिज्मा सुहवो विरूपः । जामिर्जनानां विषितो वपुष्यः शुक्रेभिरङ्गैरज आततन्वान् ॥ ८७॥ अध्रुग्वरूथ्यः सुदृशीकरूपः ब्रह्मा विविद्वाञ्चिकितुर्विभानुः । var अद्रुह्वरूथ्यः धर्णि र्विधर्ता विविचिः स्वनीको यह्वः प्रकेतो वृषणश्चकानः ॥ ८८॥ जुष्टो मनोता प्रमतिर्विहायाः जेन्यो हविष्कृत् पितुमाञ्छविष्ठः । मतिः सुपित्र्यः सहसीदृशानः शुचिप्रतीको विषुणो मितद्रुः ॥ ८९॥ दविद्युतद्वाजपतिर्विजावा विश्वस्य नाभिः सनृजःसुवृक्तिः । तिग्मः सुदंसा हरितस्तमोहा जेता जनानां ततुरिर्वनर्गुः ॥ ९०॥ प्रेष्ठो धनर्चः सुषखो धियन्धिः मन्युःपयस्वान्महिषः समानः । सूर्यो घृणीवान् रथयुर्घृतश्रीः भ्राता शिमीवान्भुवनस्य गर्भः ॥ ९१॥ सहस्ररेता नृषदप्रयुच्छन् वेनो वपवान्सुषुमञ्छिशानः । मधुप्रतीकः स्वयशाः सहीयान् नव्यो मुहुर्गीः सुभगो रभस्वान् ॥ ९२॥ यज्ञस्य केतुः सुमनस्यमानः देवः श्रवस्यो वयुनानि विद्वान् । दिवस्पृथिव्योररतिर्हविर्वाट् विष्णू रथः सुष्टुत ऋञ्जसानः ॥ ९३॥ विश्वस्य केतुश्च्यवनः सहस्यो हिरण्यरूपः प्रमहाः सुजम्भः । रुशद्वसानः कृपनीळ ऋन्धन् कृत्व्यो घृतान्नः पुरुधप्रतीकः ॥ ९४॥ सहस्रमुष्कः सुशमी त्रिमूर्धा मन्द्रः सहस्वानिषयन्तरुत्रः । तृषुच्युतश्चन्द्ररथोभुरण्युः धासिः सुवेदः समिधा समिद्धः ॥ ९५॥ हिरण्यवर्णः शमिता सुदत्रः यज्ञस्य नेता सुधितः सुशोकः । कविप्रशस्तः प्रथमोऽमृतानां सहस्रश‍ृङ्गो रयिविद्रयीणाम् ॥ ९६॥ ब्रध्नो हृदिस्पृक् प्रदिवोदिविस्पृक् विभ्वा सुबन्धुः सुयजो जरद्विट् । अपाकचक्षा मधुहस्त्य इद्धो धर्मस्त्रिपस्त्यो द्रविणा प्रतिव्यः ॥ ९७॥ पुरुष्टुतः कृष्णपविः सुशिप्रः पिशङ्गरूपः पुरुनिष्ठ एकः । हिरण्यदन्तः सुमखः सुहव्यो दस्मस्तपिष्ठः सुसमिद्ध इर्यः ॥ ९८॥ सुद्युत् सुयज्ञः सुमना सुरत्नः सुश्रीः सुसंसत् सुरथः सुसन्दृक् । तन्वा सुजातो वसुभिः सुजातः सुदृक् सुदेवः सुभरः सुबर्हिः ॥ ऊर्जोनपाद्रयिपतिः सुविदत्र आपिः अक्रोऽजिरो गृहपतिः पुरुवारपुष्टिः । विद्युद्रथः सुसनिता चतुरक्ष इष्टिः दीद्यान इन्दुरुरुकृद्धृतकेश आशुः ॥ १००॥ ॥ इत्यग्निसहस्रनामस्तोत्रं सम्पूर्णम् ॥ अन्तिम वाक् - नाम्नां सहस्रजापेन प्रीतः श्रीहव्यवाहनः चतुर्णां पुरुषार्थानां दात भवतु मे प्रभुः ॥ १॥ नात्र नाम्नां पौनरुक्त्यं न चकारादिपूरणम् । श्लोकानां शतकेनैव सहस्रं ग्रथितं त्विदम् ॥ २॥ श्लोकाश्चतुरशीतिः स्युरादितस्ता अनुष्टुभः । ततः पञ्चदश त्रिष्टुबिन्द्रवज्रोपजातिभिः ॥ ३॥ एकान्त्या शक्करी साहि वसन्ततिलका मता । सार्धैकादशकैः श्लोकैर्नाम्नामष्टोत्तरं शतम् ॥ ४॥ सङ्गृहीतानि वेदाब्धेरग्नेरेव महीयसः । ओङ्कारमादौ नामानि चतुर्थ्यन्तानि तत्ततः ॥ ५॥ नमोऽन्तानि प्रयोज्यानि विनियोगे मनीषिभिः । वैदिकत्त्वाच्च सर्वेषां नाम्नामन्ते प्रदर्शितम् ॥ ६॥ सौकर्याय हि सर्वेषां चतुर्थ्यन्तं मुदे मया । नाम्नां विशेषज्ञानार्थं मन्त्राङ्कश्च प्रदर्शितः ॥ ७॥ ॥ इति श्रीगोकर्णाभिजनस्य दीक्षितदामोदरसूनोः साम्बदीक्षितस्य कृतौ अग्निसहस्रनामस्त्रोत्रम् ॥