अक्षर आकार:

अभिलाषाष्टकं

abhilAShAShTakaM

अभिलाषाष्टकं

॥ अथ अभिलाषाष्टकम् ॥ कदा पक्षीन्द्रांसोपरि गतमजं कञ्चनयनम् रमासंश्लिष्टांगं गगनरुचमापीतवसनम् । गदाशंखाम्भोजारिवरमालोक्य सुचिरं गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥ १॥ कदा क्षीराब्ध्यन्तः सुरतरुवनान्तर्मणिमये समासीनं पीठे जलधितनयालिंगिततनुम् । स्तुतं देवैर्नित्यं मुनिवरकदंबैरभिनुतम् स्तवैः सन्तोष्यामि श्रुतिवचनगर्भैः सुरगुरुम् ॥ २॥ कदा मामाभीतं भयजलधितस्तापसतनुं गता रागं गंगातटगिरिगुहावाससहनम् । लपन्तं हे विष्णो सुरवर रमेशेति सततं समभ्येत्योदारं कमलनयनो वक्ष्यति वचः ॥ ३॥ कदा मे हृद्पद्मे भ्रमर इव पद्मे प्रतिवसन् सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ । स्फुरज्ज्योतीरूपो रविरिव रसासेव्यचरणो हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम् ॥ ४॥ कदा मे भोगाशा निबिडभवपाशादुपरतं तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम् । मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम् ॥ ५॥ कदा मे संरुद्धाखिलकरणजालस्य परितो जिताशेषप्राणानिलपरिकरस्य प्रजपतः । सदोंकारं चित्तं हरिपदसरोजे धृतवतः समेष्यत्युल्लासं मुहुरखिलरोमावलिरियम् ॥ ६॥ कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः शरीरे चाक्षौघेऽप्युपरतवति प्राणपवने । वदत्यूर्ध्वं शश्वन्मम वदनकंजे मुहुरहो करिष्यत्यावासं हरिरिति पदं पावनतमम् ॥ ७॥ कदा हित्वा जीर्णां त्वचमिव भुजंगस्तनुमिमां चतुर्बाहुश्चक्राम्बुजदरकरः पीतवसनः । घनश्यामो दूतैर्गगनगतिनीतो नतिपरै- र्गमिष्यामीशस्यांतिकमखिलदुःखांतकमिति ॥ ८॥ ॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं अभिलाषाष्टकं सम्पूर्णम् ॥