अक्षर आकार:

अष्टमूर्तिरक्षास्तोत्रम्

Ashtamurtiraksha Stotram

अष्टमूर्तिरक्षास्तोत्रम्

हे शर्व भूरूप पर्वतसुतेश हे धर्म वृषवाह काञ्चीपुरीश । दववास सौगन्ध्य भुजगेन्द्रभूष पृथ्वीश मां पाहि प्रथमाष्टमूर्ते ॥ १॥ हे दोषमल जाड्यहर शैलजाप हे जम्बुकेशेश भव नीररूप । गङ्गार्द्र करुणार्द्र नित्याभिषिक्त जललिङ्ग मां पाहि द्वितीयाष्टमूर्ते ॥ २॥ हे रुद्र कालाग्निरूपाघनाशिन् हे भस्मदिग्धाङ्ग मदनान्तकारिन् । अरुणाद्रिमूर्तेर्बुर्दशैल वासिन् अनलेश मां पाहि तृतीयाष्टमूर्ते ॥ ३॥ हे मातरिश्वन् महाव्योमचारिन् हे कालहस्तीश शक्तिप्रदायिन् । उग्र प्रमथनाथ योगीन्द्रिसेव्य पवनेश मां पाहि तुरियाष्टमूर्ते ॥ ४॥ हे निष्कलाकाश-सङ्काश देह हे चित्सभानाथ विश्वम्भरेश । शम्भो विभो भीमदहर प्रविष्ट व्योमेश मां पाहि कृपयाष्टमूर्ते ॥ ५॥ हे भर्ग तरणेखिललोकसूत्र हे द्वादशात्मन् श्रुतिमन्त्र गात्र । ईशान ज्योतिर्मयादित्यनेत्र रविरूप मां पाहि महसाष्टमूर्ते ॥ ६॥ हे सोम सोमार्द्ध षोडषकलात्मन् हे तारकान्तस्थ शशिखण्डमौलिन् । स्वामिन्महादेव मानसविहारिन् शशिरूप मां पाहि सुधयाष्टमूर्ते ॥ ७॥ हे विश्वयज्ञेश यजमानवेष हे सर्वभूतात्मभूतप्रकाश । प्रथितः पशूनां पतिरेक ईड्य आत्मेश मां पाहि परमाष्टमूर्ते ॥ ८॥ परमात्मनः खः प्रथमः प्रसूतः व्योमाच्च वायुर्जनितस्ततोग्निः अनलाज्जलोभूत् अद्भ्यस्तु धरणिः सूर्येन्दुकलितान् सततं नमामि । दिव्याष्टमूर्तीन् सततं नमामि संविन्मयान् तान् सततं नमामि ॥ ९॥ इति श्रीईश्वरनन्दगिरिविरचितं अष्टमूर्तिरक्षास्तोत्रं सम्पूर्णम् ।