अक्षर आकार:

श्रीमदाचार्येन्द्रस्तवः

Shrimad Acharyendrastavah

श्रीमदाचार्येन्द्रस्तवः

दृष्ट्वा वाचि सरस्वतीं नयनयोरन्ते च लक्ष्मीं तथा चित्ते वीक्ष्य समस्तभूतकरुणां काये च हेमप्रभाम् । नो युक्तं बहुभामिनीसमुदये वासाय मत्वेति ते श्रीमद्देशिकराज कीर्तिवनिता नूनं दिगन्तानगात् ॥ १॥ पुरा शम्भुः शुभ्रे वसतिमचले कर्तुमनिशं समिच्छन् रूप्याद्रावुभयगुणयुक्तेऽकृत वसिम् । ततस्तं दुर्वर्णं दशवदनहस्तप्रचलितं विचिन्त्यास्मिन्नित्यां वसतिमकरोत् देशिकहृदि ॥ २॥ अमृतशिलापरिनिर्मितमूर्तिं श्रीदेशिकस्य मन्येऽहम् । शङ्करगुरुकृतश‍ृङ्गाचलस्यपीठीयकीर्तिसार इति ॥ ३॥ एकादशरुद्राणां एका गौरी भवेन्नालम् । इति गौरीकृतवांस्त्वं देशिकवर दशदिशोऽपि निजकीर्त्या ॥ ४॥ तव सिद्धमथो हिरण्यवैरित्वम् । तस्मान्नृसिंहदेशिक हृत्स्तम्भं मे विभिद्य पुर एहि ॥ ५॥ सर्वज्ञतासकलशक्तियुतत्वहेतोः श्रीशम्भुसाम्यमखिला भवतो वदन्ति । आधिक्यमेव तव देशिक सङ्गिरेऽहं राजाङ्घ्रिरस्ति हि भवान् स तु राजमौलिः ॥ ६॥ इति श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता श्रीमदाचार्येन्द्रस्तवं सम्पूर्णः ।