अक्षर आकार:

श्री आचार्यप्रपत्तिः

shrI AchAryaprapattiH

श्री आचार्यप्रपत्तिः

श्रीमत्प्रसन्नमुखमण्डलमुज्ज्वलन्तं, विश्वप्रकाशकृतये जगदाश्रयं तम् । श्री श्रीनिवासचरितामृतपूर्णपात्रं, श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ १॥ निर्हेतुकेन करुणाचरणेन नित्यं लोकस्य सर्वहृदयानि समाविशन्तम् । विद्वद्विचक्षणविलक्षणभक्तिरम्यं श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ २॥ नित्यं प्रसन्नमनसा मनसां मुनीनां सम्मोहनाय धृतचारुचरित्रचर्यम् । निर्लेपनिमर्दनिरामयमद्वयं तं श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ३॥ योगं परं भगवतः प्रतिपत्तिजातं नारायणस्य जगतीषु विबोधयन्तम् । विद्या विवृद्धतपसा वपुषा विवृद्धं श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ४॥ सुप्रातरेव सततं परिहाय शय्यां प्रेयां समादरभरेण हरिं स्तुवन्तम् । स्वाध्यायपाठनिरतं विरतं विवादैः श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ५॥ कृत्वा क्रियाः सपठनाः पटुना क्रमेण सान्ध्यं समाप्य सकलं च तदाश्रयेण । सत्कृत्य चातिथिकुलं सुखमास्थितं तं श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ६॥ नानारससमृद्धपरिचारकपाणिपात्रैः सम्प्रार्थिताङ्घ्रिरजसं परमादरेण श्री श्रीपतेरपि सदा मनसोऽनुरूपं श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ७॥ धर्मप्रधानचरितैर्व्यपनीय कालं माध्याह्निकं परिसमाप्य यथा क्रमेण । किञ्चिद्विरम्य पठकानपि पाठयन्तं श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ ८॥ अध्यास्य लोकमुपदिश्य हितोपदेशान् सम्भाष्य भूसुरगणान्समुपास्य सन्ध्याम् । नीराजने भगवतः कृतचित्तमार्यं श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ ९॥ श्रीभारतेन किल भागवतेन वापि श्रीसाम्प्रदायिकनिबन्धशतैस्तथान्यैः । रामायणादिचरितै रजनीं नयन्तं श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ १०॥ होराचतुष्टयविवक्षितमध्यरात्रे योगं दधान इव यः प्रतियाति नीचम् । तं सर्वभव्यविभवैर्भुवि भासमानं श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ ११॥ सौशील्यमङ्गलगुणैः समलङ्कृतं तं सद्भाववर्तनविधिं प्रदिशन्तमुच्चैः । आचार्यवृत्तविकसत्सुयशो मयूखं श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ १२॥ श्रीडीडवानपुरतः प्रकटीभवन्तं श्रीरामधाम बहुधा च समाश्रयन्तम् । श्रीमद्घनाभगुरुमञ्जुलपुण्यपुञ्जं श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ १३॥ इत्यात्मबोधरसिकस्य गुरोर्नवीनां दासेन रामकविना रचितां प्रपत्तिम् । प्रीत्या प्रभातसमये पठतां जनानां कल्याणकल्पलतिका वितता भवन्ति ॥ १४॥ इति श्री आचार्यप्रपत्तिः ॥